________________
जागा कीदृशः ? सरकार्मुकस्य कन्दर्पधनुषः, केकारः शब्दविशेष इति रूपकम् । एवमग्रेऽपि । सुरतक्रीडा निधुवनलीला सैव पिकी कोकिला तासां रवः कूजितम् , रतिरनुरक्तिः सैव मञ्जरी तस्या मधुलिहः षट्पदास्तेषां झङ्कारः कोलाहलविशेषः, लीला की सेंच या चक्रोरी तन्य ध्वनिः कण्ठनादः, नवं नूतनं यद वयो यौवनं तस्य लास्यं नृत्यं तदर्थ बेणुखनो वंशध्वनिरित्यर्थः । अत्र तनोतु व इति समाप्तमेव वाक्यं न च वय इत्या प० २५. १ दिविशेषणेन पुनरुपासम् । नन्वत्र क्रियाकारकभावेनान्वयबोधे जाते पुनर्विशेषणान्वये निराकासात्वमेव दूषकताबीजं वाच्यम् । तत् तु न घटते । पुनर्विशेषणांशे तात्पर्यसत्वेन तात्पर्य विषयीभूतान्वयबोधाजननेन तदघटिताकाण्याः सत्त्वात् , इति चेत् , साध्ववोचः । किन्त्वत्र तात्पर्य ग्राहक उत्कटं नास्ति, तदग्रहविलम्बेनान्वयबोधविलम्ब एव दूषकतावी जम् । यत्र तु तद् ग्राहकमस्ति तत्र नेदं दूषणम् । यथा नवयोलास्याय गीत तथा तथेत्यस्य उत्कटताग्राहकसत्त्वात् । एवमन्यत्रापि बोध्यम् ।
अस्थानस्थपदम् – अपदस्थपदं अयोग्यस्थानस्थमित्यर्थः । तत्वं च यथास्थितस्वार्थानुभावकत्वे सति खसाकाङ्क्षव्यवहितस्थानप्रयुक्तत्वम् । यथास्थितिः तयैवानुपूा। तेन सङ्कीर्णगभितादिषु न प्रसङ्गः । तेषु तयानुपूर्ध्या विवक्षितार्थानुभावकत्वाभावात् । अत्र तु न तथेति । यथा
द्वयं गतं संग्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी ।। इत्यत्र वंशब्दादनन्तरं चकारो युक्तः । तदैव तस्याः समुच्चेयता स्यात् । इदमत्रावधेयम् - अन्तरैकवाचकं यत्र द्वितीयाधंगतैक्रवाचकशेष प्रथमार्द्धम् , तत् । तधा सङ्कीर्णं यत्र वाक्यान्तरे वाक्यान्तरमनुप्रविशति तत् । तथा गभितं वाक्यस्य मध्ये वाक्यमनुपविशति तत् । तथाऽक्रमं यत्र यदुत्तरं यत्पदोपादानं युक्तं तदन्यत्र तदुपादानं तत् । एतानि चत्वारि जीर्णैरभ्युपगतानि दूषणानि अस्मिन् अस्थानस्थ-पद एव अन्तर्भूतानि । संकीर्णस्य क्लिष्ट एवान्तर्भाव इति नवीनाः । अस्थानस्थसमासं यथा
अद्यापि स्तनशैलदुर्गविपमे सीमन्तिनीनां हृदि । ___ स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यगुरतरप्रसारितकरः कर्पत्यसो तत्क्षणात्
फुल्लत्कैरवकोश [ प० २५. २.] निस्सरदलिश्रेणीकृपाणं शशी ।। असौ शशी चन्द्रः, तत्क्षणे तत्काले, उत्फुल्लद्विकसमानं यत् कैरवं कुमुदं तस्य कोशो मध्यभागस्तस्मानिःसरन्ती बहिर्यान्ती अलिश्रेणी अमरपक्तिरेव कृपाणी खड्गस्तां कर्षति आकर्षति । कीडशः शशीत्याह - सीमन्तिनीनां कामिनीनां हृदि वक्षसि अद्यापि स्थातुं एष
. का. प्र.६