________________
काव्यप्रकाशसंण्डन
हे सुतनु ! वरतनो ! ते तब गल्ल (ण्ड ) पाली कस्य स्मर एव नरपतिस्तस्य लीलाराज्यपरिभोगस्तत्र यौवराज्यं कुमारपदवी तस्मिन् अभिषेकं व्यञ्जयति बोधयति । कथं अनसैव श्रीमं यस्तव भोक्ता तस्मै कामेन खराज्य विभागो दत्तः । स एव कामस्य मान्यो यस्मै त्वत्सदृशे रतं भोगाय दत्तमित्यर्थः । कीदृशी गण्डपाली : करतलमेव तल्पं शय्या तत्र कटिपता रचिता निद्रालीका यस्याः सा शोकेन कपोलतले निहितेत्यर्थः । पुनः कीदृशी ? परिमिलन परितो हस्ततलस्पर्शेन निमीलत्पाण्डिमा अस्तं गच्छन् गौरभावो यस्याः सा । करसंपर्केण लौहित्योदयादिति भावः । करसङ्गेन पत्युः करस्पर्श व्यनक्ति । तल्पखामेन पत्युः तपखापम् । पाण्डिमात्यागेन पतिभोगप्रयुक्तवर्णान्तरप्राप्तिं च व्यनक्तीति गम्यम् । अत्र लीलेति पिष्टपेषणवद चमत्कारित्वमेव दूषकता बीजम् ।
पतत्प्रकर्ष यथा
-
कः कः कुत्र न घुर्षुरायितघुरी घोरो पुरेच्छ्रकरः कः कः कं कमलाकरं विकमलं कर्तु करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंदी स्नेहबिलासबद्धवसतिः पञ्चाननो वर्त्तते ॥
I
कः कः शुकरो वराहः कुत्र न घुरेत् न सश्चरेत् अपि तु सर्वत्र । कीदृशः १ [५० १४.२ ] बुर्बुरायिता शब्दविशेषवती या घुरी पोत्रं शूकरमुखस्या प्रभागः तेन घोरो भयङ्करः । चुरी वाद्यभाण्डमिति केचित् । कः कः करी हस्ती, कं कमलाकरं सरोवरं विकमलं कमलाभावविशिष्टं कर्तु नोद्यतो नोक्तः ? अपि तु उयुक्त एव । के के अरण्यमहिषा वनमहिषा कानि च वनान्यरण्यानि नोन्मूलयेयुः ? अपि तु उन्मूलयेयुरेव । यतो हेतोः पञ्चाननो सिंहः सिंह्यां स्वभार्यायां यः स्नेहः प्रेम तस्य यो विलासस्तेन बद्धा स्वीकृता वसतिः स्थैर्य येन तादृशो वर्त्तते तिष्ठति । अत्र शुकराद्यभिधाने विकटानुप्रासः कृतः । स च सिंहाभिधाने पतितः । अशक्तिसूचकत्वमेव चात्रापि दूषकतावीजम् । रसानुगुणत्वेन कचित् तत्पातो न दोष इत्यनित्यदोषोऽयम् ।
:
समाप्तपुनरात्तम् - यत्र विशेषणं समाप्तं जनितान्वयबोधं पुनराचं आवृतं तत् । वस्तुतस्तु विशेष्यं समासं जनितान्वयबोधं अनु कर्मकोपादानं विना पुनराचं आवृत यत्रेति बोध्यम् । यथा
ङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां खो झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः कलिकापसारणभुजाक्षेपस्खलत्कङ्कणकाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः || तन्व्याः कृशाशयाः कश्चलिकापसारणार्थे यो भुजा क्षेत्रः कान्तस्य दोरान्दोलनं तेन स्खलन् पतन् यत् कङ्कणं तस्य काणः शब्दो वः युष्माकं प्रेम प्रीतिं तनोतु विस्तारयतु ।
vull