________________
लतम उल्लास
४५
इत्येते प्राचीनैरर्थदोषाः कथितास्ते उत्तेषु शब्ददोषेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताहः ।
तथा हि-पुष्टं पोषण मुस्कर्षः, पश्चान्नत्रा समासः । तथा च प्रकृतवाक्य द्देश्योत्कर्षा - हेतुरूपस्यापुष्टार्थस्य । एवं पुनरुक्तस्य च अधिकपदे निरर्थके वान्तभीवः । तथा कष्टस्य क्लिष्टेऽन्तर्भावः । एवं स्तुत्वा निन्दित्वा वा पुनरन्यथाकृतरूपस्य व्याहृतस्य, तथा दुष्क्रमग्राम्याप्रसिद्धिविध विरुद्धापदमुक्त | लीलानाम् । एवं एकसमभिव्याहारनिर्दिष्टोत्तममध्यमाधमरूपस्य सहचरभिन्नस्य, तथा विधेयविरोध्यनुवादरूपस्यानुवादायुक्तस्य, तथा प्रकाशितविरुद्धस्यानुचितार्थ एवान्तर्भावः । तथा सन्दिग्धस्य सन्दिग्ध एवान्तर्भावः । एवमेकमनि निर्दिष्टाने कार्यरूपमनत्रीकृतत्वमपि न दोषः किन्तु गुणाभावः । उक्तिवैचित्र्यास्मकमाधुरीकृतत्वात्। नवीकृते गुणाभावादेव रसापकर्षकत्यम् । एवं निर्हेतुनियमपरिवृत्त विशेष परिवृत्त साकाङ्क्षाणां न्यूनपद एवान्तर्भावः । तथाऽनियमपरिवृत्तस्याधिकपदे तथा विध्ययुक्तस्य विधेयाविमर्षे (रों), तथा त्यक्तपुनः स्वीकृतस्य समाप्तपुनरावृत्तेऽन्तर्भावः । नन्वेवमपि अधिकपदादीनां निरर्थकेऽन्तर्भावः स्यात इति चेद्र, भवतु नाम का नो हानिः । उक्तमेव प्राग् - यद् वाच्यावचनं अवाच्यवचनमेव दोषद्वयम्, अन्यत् सर्व तयोः प्रपञ्च इति ।
1
>
अथ प्राचीनोकाष्टादीनां उदाहरणानि लिख्यन्ते । अत्रापुष्टः पुष्टिभिन्नः । पुष्टत्वं च विवक्षितार्थमाहेत्वनुपादानकत्वम् । तद्विरहश्चामयोजकत्वात् प्रयोजकेऽर्थलभ्यत्वात् । वृत्ति. कुताऽपि [१० २८. १ ] अतिचितत्वादयोऽनुपादानेऽपि प्रतीयमानमर्थं न बाधन्त इत्युक्तम्, योजक एवेति ।
अतिविततगगनसरणिप्रसरण परिमुक्त विश्रमानन्दः । मरुदुल्लासित सौरभ कमलाकरहासकृद् रविर्जयति ||
रविर्भगवान् भास्करो जयति । कीदृश: ? अति विततं अतिविस्तीर्णं यद् गगनमाकाशं तत्र या सरणिर्वर्त्म तत्र यत्प्रसरणं सञ्चरणं तेन परिमुक्तः परित्यक्तो विश्रमानन्दो विश्रामसुखं येनेत्यर्थः । मरुता वायुना उल्लासितममिव्यक्तं सौरमं यस्य तादृशं यद् कमलं तस्यावलिः समूहः तस्या हास्यकृत् विकासकर्तेत्यर्थः । अत्रातिबिततत्वादयोऽर्थी अपुष्टाः । नन्विदमधिकपदत्वं पुनरुक्तत्वं वा स्यात् इति चेत्, उच्यते - नायमधिकः । तत्रं च अन्ययाप्रतियोगित्वात् भवति । प्रकृते तदभावात् । शब्दोपस्थिते पुनः शब्दानुपादानान्न पुनरुक्तः । अर्धपुनरुक्तिश्चापुष्टार्थ एवेतिभावः । केचित् तु - पोषणं पुष्टमुपकारः पश्चान्नजा बहुव्रीहिः । प्रकृतवाक्यार्थोदकर्षाहंतुरपुष्टः । अतिविततोते - अत्र हि रविजयती ने स्वेरुत्कर्षः प्रधानवाक्यार्थः ।
I
१ प्रकृतवाक्ये उद्देश्यो यः उत्कर्षस्तस्य यः अहेतुः अर्थः स अपुष्ट पुनरन्यथाकरणं व्यासस्त्रम् । ३ अयुक्तः क्रमो दुःक्रम इस्यर्थः । म् ।' मूलादर्श एताः सर्वाः टिप्पण्यः ।
२ निन्दिचा वा ४ ' प्रसिद्धिविरुद्ध विद्याविरुद्ध ति