SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशवण्डन न खलु विस्तीर्णपथसञ्चरणं श्रमहेतुः । येन तत्सत्वेऽपि श्रमत्यागे उत्कर्षहेतुः स्यात् । विततपदेन दीर्घलाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमप्रतीतिः । एतेन अतिविततत्वादय इत्यत्र अतद्गुणसंविज्ञानबहुरोहिणा तत् परिहत्य मरुदुल्लासितेत्यादिग्रह्णमिति केनचिद् यदुक्तं तन्निरस्तम् : सन्तावास्या शेतात् । न मदुसालितेत्यादिविरुद्धं हासपूर्व सौरमयोगादिति, तन्न । समकालत्वस्य विवक्षितत्वात् । अत्रान्वयबोधानन्तरं पदजीवास्वनु. सन्धानदशायां एषामनुपकारित्वग्रहः इति प्रतीत्याऽनुपपत्त्यार्थदोषता प्रतीत्यनुपपत्तावेव शब्ददोषतेति विभागः। कष्ट इत्यस्य दुरूह [ प० २८.२] इत्यर्थः । आसत्यादिसत्त्वेऽपि विलम्बितप्रतीतिफत्वं तत्त्वम् । सदा मध्ये यासामियममृतनिस्सन्दसरसा सरस्वत्युद्दामा बहति बहुमार्गा परिमलम् । प्रसादं ता एता धनपरिचिताः केन महता ___ महाकाव्यव्योग्नि स्फुरतु(रित) मधुरा यान्तु रुचयः॥ अस्यार्थः - अमृतं सुधाजलं च, रसो माधुर्य शृङ्गारादिश्च, सरस्वती बाणी नदी च, मागों रीतिः पन्था च, परिमलं चमत्कारं सुखं च, प्रसाद सुव्यक्तत्वं वच्छकान्तिश्च, घनो निबिडो मेघश्च, परिचिताः अत्यन्ताभ्यस्ताः सम्बद्धाश्च, रुचयः अभिसन्धयः कान्तयब, महता कवीनां आदित्याना च, तेषां च द्वादशस्यात् । अत्रार्थप्रतीतिर्विलम्बेनेति युक्त कष्टेऽन्तर्भावः । निन्दित्या पुरस्कृत्य वा तदन्यथाकरण विशिष्टाहतियाहत्तत्वं न चास्यानुचितार्थता । सब पशुकविन्द्रादिपदैः खार्थोपस्थितिदशायामेवोपश्लोक्यमानस्य तिरस्कारावगमः । अन तु चन्द्रिकापदस्य तदर्थस्य तु अनुसन्धानादेव न तिरस्कारोऽवगम्यते, किन्तु वाक्यार्थबोधानन्तरं गवेन्दुकलादयोऽयं प्रतीत्यर्थपर्या लोचनेनेति भेदात् । यथा-- जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं जा(या)ता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येका स एव महोत्सवः ॥ जगति संसारे ते ते प्रसिद्धा भावाः पदार्थाः नवेन्दुकलादयोऽन्ये सन्त्येव वर्तन्त एव । ते के ! इत्याह - ये मनोऽन्तःकरणं मदयन्ति आनन्दयन्ति । कीदृशाः । प्रकृतिमधुराः स्वभावसुन्दराः । मग तु यद् इयं मालती नयनविषयं नेत्रगोचरतां याता प्राप्ता, जन्मन्यलिन् , मम स एको महोत्सवो नान्यः । कोही? विलोचनयोनेत्रयोश्चन्द्रिका चन्द्रज्योलत्यर्थः । इत्यत्र नवेन्दु कलादयो यं प्रांत पश्पशप्राथाः स एव चन्द्रिकात्यमुत्कर्षार्थमारोपयति इति व्याहतत्वामेतीदगप्यनुचितार्थः ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy