________________
सप्तम उल्लास
J
पुनरुक्तः शब्देनैवा ०२९, १ ]नुगतः, पुनः शब्देनोच्यते अर्थपुनरुक्तस्यापुष्टार्थत्वात् । अत्र प्रयोजनं विनेत्यपि विशेषणं देयम् । अत एव कर्णावतंसादिषु प्रयोजनं विनेत्यarara पौनरुत्यम् । स चायं द्विविधः पदार्थवाक्यार्थभेदात् । तत्राद्यमुदाहरति ' कृतमनुमत' मित्यादि । अर्जुनार्जुनेति भवद्भिरिति चोके, सभीमकिरीटिनामित्युक्ते किरीटिपदार्थः पुनरुक्तः । अर्जुनार्जुनसात्यके सात्यकेत्युपक्रमण पितृवधामर्षितस्याश्वत्थाम्नः उक्तिरियम् । कर्तुरनुमन्तृद्रष्टृणां उत्तरोत्तरापराधस्य लाघवेन क्रमादुपन्यासः । तत्र कर्त्ताऽर्जुनः, अनुमन्ता सात्यकिः अन्ये द्रष्टारः । तत्राद्ययोर्वलवद्वेषेण तत्र शाब्दबुद्धिः अन्येषां बुद्धिस्थतैव । अत एव एतेषां शास्तिप्रदर्शनाय बुद्धिस्यपरामर्ष (र्श) कयत्पदवत्कृत्पदानुकर्षः । एतेन संबोध्ययोरबहुत्वे यरित्यादिषु बहुवचनमनुपपन्नमिति निरस्तम् । सम्बोध्यानां बहुत्वस्य दर्शितत्वात् । अत्र गवद्भिरित्यत्र सम्भोध्योपस्थिति विना भवत्पदप्रयोगानुपपत्तेः । तस्य सर्वोोध्यात्मवा चित्वात् । किरीटिपदार्थोऽर्जुन एव । अथ चूर्णकपदाभ्यां सहैवान्वयबोधकत्वे शाब्दबोधसमय एवं पौनरुक्तयभावान्नार्थदोषते ते चेत्, न । पर्यायशब्दोपनीतेष्वर्थेषु आपाततोऽन्यत्वेन भानान्न पुनरुक्ततावभासः । समानसत्त्व एव एकत्वभानादित्युक्तत्वात् । वस्तुतो नैष साधीयान् दोषः । तथा हि- क्रुद्धस्य उक्तावनुक्तविस्मरणद्वारा को प्रज्वलनया पौनरुक्तत्यस्य गुणत्वात् । न च सम्बोध्य विस्मृतौ भवच्छब्दप्रयोगानुपपत्तिरिति वाच्यम् । भवतेः शतृडा भवलदेन 'उदायुधैः सद्भिः' इत्यर्थस्य विवक्षणात् । यद्वा, सभीमेत्यादावेव विस्मरणात् ।
द्वितीयमाह -
४७
अस्नज्वालावलीढप्रतिबलजलधेरन्तरौर्वार्यमाणे
सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य ! शङ्कां [ १०२९.२ ] ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥
मम पितरि भज्जनके, सर्वधन्वीश्वराणां सर्ववीराणाम्, अध्यापकेऽस्मिन् प्रसिद्धे सेनानाये स्थिते सति, हे कर्ण ! सम्भ्रमेण त्रासेन अलं व्यर्धम् । हे कृप । सगरं सङ्ग्रामं व्रज गच्छ । हार्दिक्य कृतवन् शङ्कां त्यज । मम पितारे, कीदृशे ? अस्वज्याया अवलीढं आस्वादितं यद् प्रतिबलं प्रतिपक्षसैन्यं स तदेव जलधिः समुद्रः तस्यान्तर्मध्ये औश्रयमाणे वडवानलायमाने, चाप एव द्वितीयः सहायो यस्यैतादृशे ताते पितरि, रणधुरं सङ्ग्रामभारं वहति धारयति संति, भयस्य त्रासस्य कः अवकाशोऽवसरः ? इत्यर्थः । अत्र कर्णालं संभ्रमेणेत्युक्तौ को भयस्यावकाश इति चतुर्थः पादः पुनरुक्तः । अत्रापि पूर्ववद् दोषोद्धारः । अत्र न केवलं पदार्थे वाक्यार्थे वा पौनरुक्त्यम्, पदैकदेशार्थेऽपि तत्संभवात् । यथा, 'तदीयमात घटा' इत्यादौ युक्तान्तर्गतयर्थेन तद्धितार्थस्य सम्बन्धस्य पौनरुक्त्यात् ।
दुष्क्रमेति - दुष्टः अनुचितो लोक विरुद्धः शास्त्र विरुद्धो वा क्रमो यन्त्रेत्यर्थः । तमुदाहरति
-