Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
४३
सप्तम उल्लास इतमपि न साधु । न्यूनपद एवास्थान्तर्भावात् । न च न्यूनपदं पदघटितम् , अनभिहितवाच्यं तु घोतकशब्दघटितमिति अनयो दो वक्तव्य इति वाच्यम् । यत एतादृशि यत्किञ्चिद्: भेदकल्पने दोषाणामानन्त्यं स्यात् ।। गर्भितं यत्र वाक्यान्तरमध्ये वाक्यान्तरमनुप्रविशति -
परापवादनिरतैजनैः सह सङ्गतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ अन तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । अयं न पृथक, अम्यानस्थ एवान्तीवात् । प्रसिद्धिपरिहीनं प्रसिद्धादन्यन्न प्रयुक्तम् । प्रसिद्धिपरिहीनं यथा
महाप्रलयमारुतक्षुभितपुष्करावर्तक
प्रचण्डघनगार्जतप्रतिरवा(रुता )नुकारी मुहुः। रवा श्रवणभैरवः स्थगितरोदसीकन्दरः [प० २६. २ ]
कुतोऽद्य समरोदधेश्यमभूतपूर्वः पुरः ॥ अघ समरोदधेः सङ्घामसमुद्रात् पुरः अग्रप्रदेशे रवः शब्दः मुहुर्वारं वारं कुतो हेतोर्वर्तत इति शेषः । कीदृशः ? महाप्रलयाय यो मारुतः पवनः स महाप्रलयमारुतः, तेन क्षुभितः इतस्ततः प्रेरितः, पुष्करावर्तकः पुष्करावर्तसज्ञकः प्रचण्डः प्रौढो यो घनो मेघस्तस्य यद गर्जितं शब्दविशेषस्तस्य यत् प्रतिरुतं प्रतिध्वनिस्तदनुकारी तत्सदृशः । श्रवणयोः श्रोत्रयोभैरवः कटुः । स्थगितः पूर्णः रोदसी द्यावाभूम्योरन्तरं मध्यं तदेव कन्दरा येन सः । अभूतपूर्वः पूर्व अजात इत्यर्थः । अत्र रवो मण्कादिध्वनिषु प्रसिद्धः । न तुक्तरूपे सिंहनादे । - ममः प्रक्रमः प्रस्तावो यत्र । यथा --
नाये निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता ।
कुलाङ्गनानां हि दशानुरूपं नातःपरं भद्रतरं समस्ति ।। अत्र गतेति प्रक्रान्ते यातेति कृते प्रक्रमो भग्नः । गता निशापीति तु युक्तम् | ननु कथितपदस्य दुष्टत्वाभिधानात् कथमेकस्य पदस्य द्विःप्रयोग इति चेद् , उच्यते - उद्देश्यप्रतिनिर्देश्यन्यतिरिक्त एवं विषये एकप्रयोगस्य निषेधात् । प्रत्युत तादृशि विषये तस्यैव पदस्य सर्वनानो वा प्रयोग विना दोषः । तथा हि -
उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्ती च महतामेकरूपता ॥ अत्र रक्त एवेति यदि कियते तदा पदान्तरप्रतिपादितः स एवार्थः अर्थान्तरतयेत्र भासमानो नैकरूप्यमावति । ननु पर्यायशव्दानां शक्यतावच्छेदकैक्यनियमात् कथमन्यत्वेन प्रतीतिरिति चेत् , उच्यते - यन्मते शाब्दबोधे शब्दो भासते तन्मते रकादिशब्दान्तरस्य भानात् ऐकरूप्यासंभवात्, इदमपि न । शाब्दबोधे शब्दभाननैयत्याभावादिति

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130