Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 70
________________ काव्यप्रकाशखण्डन भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव!। विश्राणय तुरङ्ग मे मातङ्गं वा मदालसम् ॥ हे भूपाल पृथिवीपाल । करणे सङ्गगमे (१), निर्गत दूरीभूतं दैन्यं यस्य स तथा । प्रदानेन प्रकृष्टवितरणेन प्रथितो विस्तीर्णः उत्सवः आनन्दो यस्य स तथा । तस्य सम्बोधनं हे ! मे मह्यं तुरङ्गं अचं मदेनालसं मन्थरं मातङ्ग हस्तिनं वा विश्राणय देहीत्यर्थः । अत्र मातरस्य बहुमौल्यत्वेन प्रानिर्देशः उचितः- इतीदमप्यनुचितार्थ म्] । यत्र हस्तीनामेव सुलभत्वं तत्र नेदमुदाहरणमिति मन्तव्यम् । प्राग्यो ग्रामसंभवोऽविदग्धोक्तिप्रतिपन्नः खरिरसादिः । तदुक्तम् - स ग्राम्यः स्वरिरंसादिः पामरैर्यत्र कथ्यते । चैदग्ध्यवक्रिमबलं हित्वैव बनितादिषु ॥ यथा स्वपिति यावदयं निकटे जना, स्वपिमि तावदहं किमपैति ते । तदयि! साम्प्रतमाहर कूपरं, त्वरितमूरु [प० ३०. १] मुदश्चय कुश्चितम् ।। अयं जनो निकटे संनिधाने यावत् स्वपिति निद्राति तावदहमपि खपिमि निद्रामि । ते तब किं अपैति गच्छति । तत् तस्मात् , अयीति स्त्रीसम्बोधनम् , कूर्परं कफोणिं आहर सक्कोचय । साम्प्रतं इदानीं कुश्चितं वक्र ऊरु उदञ्चय ऋजुतां नय । स्वरितं शीघ्रमित्यर्थः । कूर्परः कफोणिः । अत्र रस विच्छेदः सहृदयहृदयत्रैरस्यं वा दूषकताबीजम् । अत्रार्थस्यैव ग्राम्यता न शब्दस्य प्रकरणाद्यभावात् । इदमप्यनुचितार्थम् । सन्दिह्यमानोऽर्थः सन्दिग्धः । 'मात्सर्यमुत्सार्य'त्यादि । अत्र प्रकरणायभावे संदेहः, वक्तः प्रशान्तत्वे शृङ्गारित्वे वा निश्चिते निश्चय एव । अनुपाचहेतुकोऽयों निहेतुः । गृहीतं येनासी परिभवभयानोचितमपि प्रभावाद् यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयात् विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ॥ येन द्रोणेन गृहीतं खीकृतं आसीः, परिभवभयानोज्झितमसि न त्यक्तमसि । यस्य द्रोणस्य प्रभावात् प्रतापात् , तब कश्चिन्न विषयोऽभूदिति न, अपि तु सर्वोऽपि स्वद्विषो जात इत्यर्थः । द्रोणेन त्वं सुतशोकान्मरणजनिलचिलवात् परित्यक्तमसि, न तु भयात् त्रासात् । १ 'कचियो इतममी' त्यपि पाठो दृश्यते । २ अनुचितमपि ब्राह्मणानां वस्त्रग्रहणानधिकाराद इत्यथैः । इति टिप्पणी । - -. - -. - - - -.. - - --. - --

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130