Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
सतम उल्लास हे शस्त्र! त्वां भवन्तं अहमपि विमोक्ष्ये त्यजामि । यतोऽतो भवते खस्ति कल्याणमस्त्वित्यर्थः । अत्र द्वितीयशस्लमोचने हेतुोंपासः । ननु हेत्वाकाक्षायां वाक्यपर्यवसाने कथमयमर्थदोषः! इति चेत्, न । पितृकर्तृकशस्त्रत्यागस्य हेतुत्वेनैवान्वयात् पितृकृतकर्मणः पुत्रेणाचरणीयत्वात् ब्राह्मणानुचितशस्त्रग्रहणस्येव । इत्थमपर्यवसिते वाक्यार्थेऽनन्तरं मम पित्रा मम शोकेन परित्यक्ते मयाऽपि पितृशोकेन त्यक्तव्यमिति पितृशोकस्य हेतुत्वमाकांक्षितं तदनुपादाने निहेतुत्वम् । एतस्य न्यूनपद एवान्तर्भावः । .. प्रसिद्धिविरुद्धं तत् यथापसिद्धं तद्वि[ प. ३०,२ ]रुद्धमित्यर्थः । उदाहरणं तु पूर्वमेव प्रसिद्धिपरिहीने दत्तं "महाप्रलय" इत्यादि तदेव मन्तव्यम् । अत्र रखः सिंहनादादेरनुचितः । इदमप्यनुचितार्थम् । विद्या शास्त्रम् , तद्विरुद्धं यथा
सदा स्वात्वा निशीथिन्यां सकलं वासरं बुधः ।
नानाविधानि शाखाण व्याचष्ट च शृणोति च ॥ अत्र महोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रे निषिद्धमितीदमप्यनुचितार्थम् । भगवन्तरेण यन्नवत्वं न प्रापितं एकभङ्गीनिर्दिष्टानेकार्थत्वमिति यावत् , तदनवीकृतत्वम् । अनवीकृतत्वमुदाहरति
प्राप्ताः श्रियः कामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् ।
सन्तर्पिताः प्रणयिनो विभत्रैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ।। श्रियो धनरूपाः प्राप्तास्ततस्तावता किम् ? न किमपीत्यर्थः । श्रियः कीदृश्यः सकलकामदुघाः समस्तेच्छाविषयदाज्यः । विद्विषां शत्रूणां शिरसि मस्तके पदं चरणरूपं दत्तं स्थापित ततः किम् ? तावता न किमपीत्यर्थः । एवमग्रेऽपि योज्यम् | अन्न ततः किमिति न नवीकृतम् । ततः किमित्यतो भन्श्यम्तराभावात् । अयमपि गुणाभाव एव, न दोषः । न चात्र कथितपदत्वमेवेति वाच्यम् । पर्यायान्तरप्रयोगेऽपि भगथैकरूपतायामसार्यात् । न च तथाप्यनेन कथितपदत्वान्यथासिद्धिरिति वाच्यम् । सत्यप्यर्थभेदतात्पर्ये पदैकस्वदोषादक्यप्रतिपादकस्य कथितपदस दोषकताबीजस्य भेदात् । पिष्टपेषणन्यायेनाशक्तिसूचनेन सदयोगो दूषकताबीजम् ।
नियमादिभिश्चतुर्भिः परिवृउपदान्वयात् नियमपरिवृत्तादिचतुष्टयं लभ्यते । तैश्चतुर्मिः सहितः अनवीकृतः इति सनियमानियम विशेषाविशेषपरिवृत्तः । यद्वा नियमसहितो नियमादिस्तत्परिवृत्त इत्यर्थः । यदा नियमानियमाभ्यां सहितौ विशेषाविशेषौ तत्परिवृत्त इति । केचित् तु सनियमपरिवृत्त एव दोषः । तत्र सनियमपरिवृत्तः सनियम [ प. ३१.१]खेन वाच्यः अनिमयत्वेनोच्यते इत्यर्थमाहुः । नियमपरिवृत्तो दुष्ट इति मते तु नियमस्य शब्दादप्रतिपत्तिः -नियमपरिवृत्तः । यथा
पतिपत्तिः अज्ञानम् ।' रि |

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130