Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 58
________________ काव्यप्रकाशखण्डन ३६ न दृश्यते । अथ च धीशालिनः परस्त्रीवश्याधुपायाभिज्ञस्य । तस्याशलितां वक्रां सकामकटाक्षां ध्रुवं कः प्रातिवेश्मिकादिः सहेत निःशको वर्तेत इत्यर्थो निर्वाचः । एवमन्यदप्युदाहार्यम् । अविसृष्टविधेयांशमिति – अविसृष्टः प्राधान्येनादृष्टो विधेयांशो यत्र, तदविसृष्ट विधेयाशम् । प्राधान्यं तु विधेयताप्रतीतियोग्यत्वम् । तदुक्तम् - यच्छन्दयोगः प्राथम्यं सिद्धत्वं वाऽप्यनूद्यता । तच्छन्दयोग आन्त साध्यत्वं च विधेयता | तथा उद्देश्यं विधेयं च यदि पृथकू पदाभ्यामुपतिष्ठते तत्र प्राप्तमुद्दिश्य अमाप्तं विधीयते । यथा पर्वतो वह्निमानिति । न तु समासे अन्यथा वह्निमत्पर्वत इत्याद्यभिषीयेत । उदाहरणम् - न्यकारो यमेव मे यदयस्तत्राप्यसी तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो [१०२२. २] रावणः । घिविक शत्रु ( १ ) जितं प्रबोधितत्रता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठन वृथोच्छूनैः किमेभिर्भुजैः ॥ न्यक्कारः क इत्यत आह - यदस्य इति । मम तु त्रैलोक्यं सेवकमेवेति न्याय्यम् । न तु प्रत्यर्थितया कस्यापि स्थितिरित्यर्थः । अल्पो ग्रामो आमटिका | अन्नायमेव न्यक्कार इत्येव वाच्यम् । तदैव विधेयस्य प्राधान्येन निर्देशो भवति । अयं तु वादकथादौ दोषः । यन्मते खले कपोतन्यायेन शाब्दबोधः तन्मते दोषलेशोऽपि न । सन्दिग्धम् – तात्पर्यसन्देहास्पदीभूतार्थद्वयोपस्थापकम् । आलिङ्गितस्तत्र भवान् सम्पराये जयश्रिया । आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु || अत्र च वन्द्यामिति बो (ब)द्धायां किं नमस्यायामिति सन्दिग्धम् । वन्द्यामित्यत्र प्रथमे इठहृतमहिलायां कृपां कुर्विति । द्वितीये नमस्यां आशीः परम्परा मित्यर्थोपपत्तौ साधक-बाधकमानाभावात् संशय इति भावः । अत्रार्थानिश्चय एव दूषकताबीजम् । अप्रतीतमिति प्रतिशास्त्रे इतं ज्ञातं प्रतीतम्, न प्रतीतं यत्किञ्चित् शास्त्र परिभाषितमित्यर्थः । यथा - सम्यग्ज्ञानमहाज्योतिर्दलिताशयता जुषः । विधीयमानमध्येतन्न भवेत् कर्मसा ( नं १ ) धनम् ॥ अत्राशयशब्दो वासनापर्यांयो योगशास्त्र एवं प्रसिद्ध इति विरलप्रयोगेन न झटिति प्रत्यायकत्वं दूषकताबीजम् । माग्यो विदग्धस्तत्प्रयुक्तं ग्राम्यम् । यथा 1

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130