________________
काव्यप्रकाशखण्डन
३६
न दृश्यते । अथ च धीशालिनः परस्त्रीवश्याधुपायाभिज्ञस्य । तस्याशलितां वक्रां सकामकटाक्षां ध्रुवं कः प्रातिवेश्मिकादिः सहेत निःशको वर्तेत इत्यर्थो निर्वाचः । एवमन्यदप्युदाहार्यम् ।
अविसृष्टविधेयांशमिति – अविसृष्टः प्राधान्येनादृष्टो विधेयांशो यत्र, तदविसृष्ट विधेयाशम् । प्राधान्यं तु विधेयताप्रतीतियोग्यत्वम् । तदुक्तम् -
यच्छन्दयोगः प्राथम्यं सिद्धत्वं वाऽप्यनूद्यता । तच्छन्दयोग आन्त साध्यत्वं च विधेयता |
तथा उद्देश्यं विधेयं च यदि पृथकू पदाभ्यामुपतिष्ठते तत्र प्राप्तमुद्दिश्य अमाप्तं विधीयते । यथा पर्वतो वह्निमानिति । न तु समासे अन्यथा वह्निमत्पर्वत इत्याद्यभिषीयेत । उदाहरणम् -
न्यकारो यमेव मे यदयस्तत्राप्यसी तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो [१०२२. २] रावणः । घिविक शत्रु ( १ ) जितं प्रबोधितत्रता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठन वृथोच्छूनैः किमेभिर्भुजैः ॥
न्यक्कारः क इत्यत आह - यदस्य इति । मम तु त्रैलोक्यं सेवकमेवेति न्याय्यम् । न तु प्रत्यर्थितया कस्यापि स्थितिरित्यर्थः । अल्पो ग्रामो आमटिका | अन्नायमेव न्यक्कार इत्येव वाच्यम् । तदैव विधेयस्य प्राधान्येन निर्देशो भवति । अयं तु वादकथादौ दोषः । यन्मते खले कपोतन्यायेन शाब्दबोधः तन्मते दोषलेशोऽपि न ।
सन्दिग्धम् – तात्पर्यसन्देहास्पदीभूतार्थद्वयोपस्थापकम् ।
आलिङ्गितस्तत्र भवान् सम्पराये जयश्रिया ।
आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ||
अत्र च वन्द्यामिति बो (ब)द्धायां किं नमस्यायामिति सन्दिग्धम् । वन्द्यामित्यत्र प्रथमे इठहृतमहिलायां कृपां कुर्विति । द्वितीये नमस्यां आशीः परम्परा मित्यर्थोपपत्तौ साधक-बाधकमानाभावात् संशय इति भावः । अत्रार्थानिश्चय एव दूषकताबीजम् ।
अप्रतीतमिति प्रतिशास्त्रे इतं ज्ञातं प्रतीतम्, न प्रतीतं यत्किञ्चित् शास्त्र परिभाषितमित्यर्थः । यथा -
सम्यग्ज्ञानमहाज्योतिर्दलिताशयता जुषः । विधीयमानमध्येतन्न भवेत् कर्मसा ( नं १ ) धनम् ॥
अत्राशयशब्दो वासनापर्यांयो योगशास्त्र एवं प्रसिद्ध इति विरलप्रयोगेन न झटिति
प्रत्यायकत्वं दूषकताबीजम् ।
माग्यो विदग्धस्तत्प्रयुक्तं ग्राम्यम् । यथा
1