________________
सक्षम उल्लास
एवं हितार्थमपि न दूषणम्, द्वित्रिक्षणविलम्बस्या किश्चित्करत्वात् । एवमप्रयुक्तं तथाऽऽज्ञातमपि कविभिर्नादृतमित्येवं रूपम् । उदा० यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथा मन्ये देवतोsस्य पिशाचो राक्षसोऽथवा ॥
अत्र दैवतशब्दः पुंना न दित् प्रयुज्युमपि न दूषणम् । सत्यनुशासने कवेरनादरणं कवेरनादराथैव पर्यवस्यति ।
-
असमर्थ उपसंदानं विनाऽनुशिष्टार्थी ( १ ) बोधकम् । उपसंदानं उपसर्गः । यथातीर्थान्तरेषु स्नानेन समुपार्जितसत्क्रियः । सुरस्रोतस्वतीमेप हन्ति संप्रति सादरम् ॥
अत्र हन्तीति गमनार्थः, बोधं प्रति स्वरूपायोग्यत्वं दूषकता बीजम् । इदमपि न सूषणं सम्यगिव प्रतिभाति । तथा हि उद्धति पद्धतीत्यादी उपसंदानेन अनुशिष्टार्थबोधने सामर्थ्य अङ्गीकृतमेव । अनुपसंदाने सामर्थ्यं नास्तीति केन वार्यते । किश्व इदं तावत् काव्या काव्यसाधारणं दूषणम् काव्ये विशिष्य किमित्युच्यत इति न जानीमः ।
3
एवं च्युतसंस्कृति निरर्थ कानुचितार्था लीला विमृष्टा विधेयांश सन्दिग्वाप्रतीत क्लिष्टविरुद्धमतिकृतां काव्या काव्यसाधारणानां दोषाणां काव्ये विशिष्य दोषतया उपादानं न [ ० २२ २] 'चारुतामावद्दति ।
एतेषां क्रमेणोदाहरणानि च्युतसंस्कृति प्रागुदाहृतम् । अन्यदुदाद्दियते । निरर्थकम् - अर्थः प्रकृतार्थाखादपरिपोषणम्, तद्रहितं पदम् । यथा - उत्फुल्लकमलकेसर पर राग गौरबुते मम हि गौरि । अभिवाञ्छितं सिद्ध्यतु भगवति ! युष्मत्प्रसादेन || अत्र हि पदं अनुचितार्थम् ।
अवाच्यवचनम् -
-
तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशुगर्ति मनखिनो रणाध्वरे ये पशुतामुपागताः ॥
३५
ara पशुपदं कातरतां अभिव्यनक्तीति प्रकृतार्थोत्कर्ष प्रतिबन्धकत्वं दूषकताचीजम् । अश्लील त्रिधा -- व्रीडा-जुगुप्साङमाङ्गल्य व्यञ्जकत्वात् । सभ्यवशीकरण संपत्तिः श्रीः तां लातीति, रैश्रुतेर्लश्रुतिरिति लीलम्, न श्रीलं अश्लीलम् । क्रमेणोदा०
'साधनं सुमहद् यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालित (तो) भुवम् ॥
अत्र साधनशब्दः पुंल्लिङ्गवाचकः, तत्स्मृत्या व्रीडा | सैन्यार्थस्तु विवक्षितः । श्रीडापक्षे I सुमहद् द्वादशाङ्गुलं यस्याश्वपुरुषस्य वर्त्तते । यत् साधनम् अन्यस्य शशकस्य वृषभस्य वा
2 उपसर्ग विना । २ अनुशिष्टाः शक्यार्थः ।
३'लश्रुते श्रुति" यादव ।
2