________________
काव्यप्रकाशखण्डन
पाधिरिति । तथा च रत्याद्यवच्छिन्नचैतन्यस्य आनन्दांशे लेशेन स्थितिर्मुख्यार्थहतिः । सा च दोषज्ञानाद् भवति । तन्न युक्तम् ।
उत्रिविसेसो कन्चो भासा जा होइ सा होउ । इति काव्यरसज्ञानां वाचोयुक्तिश्रवणात् । च्युतसंस्कृत्यादीनां मुख्यार्थहतित्वाभावात्इत्याहुः।
यद्यपि सर्वे दोषाः वाच्यवचन-अवाच्यवचनयोईयोरेवान्तर्भवितुमर्हन्ति, तथापि तयोरेव विषयविशेषप्रदर्शनार्थविभागार्थ दोषानाह -
दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थ निरर्थकमवाचकं त्रिधाऽश्लीलम ॥ (म० का ५० ) सन्दिग्धमप्रतीतं ग्राम्यं नेयाथैमथ भवेत् क्लिष्टम् ।
अविमुष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥ (म्• का" ५५) · श्रुतिकटुपदं दुष्टमेवं सर्वत्रान्वयः । श्रुतिकटुत्वं च मुस्यार्थापकर्षकरवे सत्योजोन्यत्रकवर्णवत्त्वं वीरादिष्वदुष्टतयातिप्रसङ्गवारणाय सत्यन्तम् । तथा चात्र प्रकृतरसव्याकामावाद रसोद्बोधरूपं कार्य न जायते । प्रतिकूलवणे तु प्रकृतरसप्रतिबन्धकवर्णैः प्रतिवध्यत इत्यनयोर्भेदः । वर्णानां रसन्यञ्जकरवं तत्प्रतिकूलत्वं च वक्ष्यते । यथा
अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितः ।
आलिङ्गितः स तन्वया कातायं लभते कदा ॥ -- अत्र कार्यमिति श्रुतिकटु । नवीनास्तु - तन्न चारु, वर्णानां मुख्यार्थापकर्षकत्वाभावात् । अत एव
अलसवलितैः प्रेमाादैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्ल झालोलेनिमेष प० २१. २ ]पराशुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणः
कथय सुकृती कोऽयं मुग्धे! त्वयाऽध विलोक्यते ॥ इत्यत्र महाकविभिः शृङ्गारे परुषवर्णोपादानं कृतमिति वदन्ति | च्युतसंस्कृति व्याकरणलक्षणहीनं असाध्विति यावत् । यथा -
प्रजा इबाङ्गादरविन्दनामः शम्भोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुमधुजिद्ध्वजिन्यः ॥ अत्र अरविन्दनाभेरिति ग्रामगाम (१) इति वा । तदापि न । तत्रान्वयबोधस्मानुभवसिद्धत्वात् , साधुशब्दस्सरणादिना या द्वित्रिक्षण बिलम्बस्याकिश्चित्करत्वात् , मुख्याहतेरभावात् , तथाविधरचनायाः कवेरेवापर्षो न रसोद्बोधस्य । १ 'भरविन्दं माभौ समासौ भरबिन्दनाभः, इस्य विधानान्' । इति टि.।