SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अथ दोषखरूपमाह - सप्तम उल्लास सप्तम उल्लासः । ३३ येषां ज्ञानाचमत्कारो न सम्यगुपजायते । सालङ्कारगुणेऽप्यत्र ते दोषाः परिकीर्त्तिताः ॥ अत्रेति काव्ये । दृष्टं हि लोके सगुणोऽपि सालङ्कारोऽपि दुष्टत्वेन ज्ञातो न तथा I चमस्करोति तथा काव्यमपि । प्रकाशकृतस्तु मुख्यार्थतिर्दोषो रसश्च मुख्यस्तदाश्रयाद् वाच्यः । उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ ( मू० का ० ४९ ) का० प्र० ५ ar मिश्राः मुख्यायेदं मुख्यार्थ इति चतुर्थी १० २०.२ ]समासः । तच शब्दार्थयुगलम् । यस्य येन रूपेण रसव्यञ्जकत्वं तस्य तद्रूपमन्यवः । फलं तु रसस्य सम्यगनवभासः । लोकेऽपि दृष्टो दीपा दिव्यञ्जक वैगुण्येन घटादेरपि सम्यगनवभासः । अर्थ-शब्दयोमुख्यार्थत्वं दर्शितम्, ' तदाश्रये' त्यादिना । इदं त्वमे व्याख्यास्यते । न चात्र शब्दार्थयोः रसव्यञ्जकतावच्छेदकरूपविरहो दोष इति पर्यवसन्नम् । तच्च न चारु । रूपान्तर विरहेण दोषाभावगुणालङ्काराणामेव रसव्यञ्जकतावच्छेदकतया दोषानुप्रवेशे आत्माश्रयापतेरिति वाच्यम् । यतो दोषाभावस्य रसव्यञ्जकतावच्छेदकरूपस्य रूपान्तरेण रसव्यञ्जकतावच्छेदकरूपेण प्रवेशोऽत्र कृतः, न तु दोषाभावत्वेन । कान्योऽन्याश्रयप्रसङ्गः । यद्वा श्रुतिकटुवादिनैव विशेषरूपेण प्रवेशः कर्त्तव्य इत्याहुः । अन्ये तु मुख्य इतरेच्छाधीनेच्छाविषयः, तब सुखम्, परमपुरुषार्थत्वात् । एवं च मुख्यत्वं तु सुखान्तरेऽप्यतिप्रसक्तमिति तद्वारणायार्थपदम् | अर्थत्वं अर्यमाणत्वं शब्दजन्य साक्षात्कारविषयत्वमिति यावत् । काव्यादन्यतः शब्दात् न सुखस्य प्रत्यक्षता किन्तु शाब्दत्वमेव । शब्दे तज्जन्यप्रत्यक्ष विषयतया तिध्याशिवारकं मुख्यपदम् | उक्त मुख्यत्वस्य सुखादन्यत्रा संभवात् । एतेनात्र पदार्थतावच्छेदकयोः परस्परव्यभिचाराभावात् न कर्मधारयोऽर्थपदवैयर्थ्यं चेति दूषणद्वयं निरस्तम् । इतिरपकर्षो न तु प्रतिषन्धो दुष्टेष्वपि रसानुभावात् । अपकर्षस्तु रसनिष्ठो धर्मविशेषः । दोषज्ञानं तु तद्व्यञ्जकम् । न त्वेवं अभिधेयेऽर्थे मुख्यशब्दप्रयोगः, अर्थशब्ददोष विभागश्च न स्यात् । उक्तमुख्यार्थत्वस्य अपकर्षस्य च रसमात्रवृत्तेरित्यतः 'तदाश्रयादि'त्याधुक्तम् । आश्रयणमाश्रयः उपायत्वेनापेक्षणम् । वाच्यो मुख्य इत्यन्वयः । एवं च वाच्ये विभा वादौ भाको मुख्यपदप्रयोगः । आखादोपाय [] प ० ११.१ ]वं च दर्शितम् । उभयम् - रसो बाच्यश्च । शब्दाद्यास्तदुपयोगिनः विभावादिकं प्रत्याय, रसप्रत्यायनात् । तेन रसोपायश्वेन तेषु अर्थशब्दादिषु सः दोषः । न केवलं रसेऽपीत्यपेरर्थः । गुणवदोषोऽपि साक्षात् सम्बन्धेन रसे, व्यञ्जकत्वेन तु अर्थे शब्दादिष्विति व्याचक्षते । नवीनास्तुएतन्मतनिष्कर्षस्तु रसापकर्षज्ञानजनकज्ञानविषयत्वं दोषत्वम् व्यपकर्षस्तु रसनिष्ठोऽखण्डो J
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy