________________
काव्यप्रकाशखण्डन सन्धिश्रवणकुपित्तस्य भीमसेनस्योक्तिरियम् । भवतामिति न ममापि । तेन तस्कृतसन्धाने नामाकं सन्धिरिति प्रतिज्ञा विरुद्धनिषेधाभिधायिषु नत्रिषु काकुनिषेधान्तराक्षेपिका । अभावाभावश्वावधारणमेवेत्याह - मलाम्येवेति व्यायं गुणीभूतं तदयुक्तम् । तथा हि - मथ्नाभ्येवेति व्ययस्य भीमसेनगतकोधोत्कर्षकरवेन रौद्ररसोपोद्वलनद्वारा वाच्यात् सातिशय. चमत्कारित्वेन ध्वनित्वे [ १० २०.१] संभवति कुतो गुणीभूतव्यन्यत्वम् । असुन्दरं तद् यत्र व्यङ्ग्य चमत्कारित्वे वाच्यमुखनिरीक्षकम् । यथा -
ग्रामतरुण तरुण्या नववञ्जुलमञ्जरी सनाथकरम् ।
पश्यन्त्या भवांत नितरा मलिना मुखच्छाया । अत्र दत्तसकेता नागतेति व्यङ्ग्यापेक्षया वाच्यस्यैव चमत्कारित्वात् ॥ ॥ इति पाइसाह-श्रीअकम्बरसूर्यसहस्रमामाध्यापक-श्रीशत्रुजयतीर्थकरमौचनाउने कसुकृतविधापक
महोपाध्याय श्रीमानुचन्द्रगिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त-खुस्फहमापरभिधानमहापाध्याय-श्रीसिद्विचन्द्र___ गणिविरचिते काव्यप्रकाशखण्डने पत्रम उल्लासः ।।
षष्ठ उल्लासः। चित्रभेदास्त्वलकार निरूपण एव निरूपयिध्यन्ते । इदमवधेयम् -
शब्दार्थचित्रं यत् पूर्व काव्यद्वयमुदाहृतम् । गुणप्रधानतस्तत्र स्थितिः शब्दार्थचित्रयोः ।। (मू० का० ४८) न तु शब्दचित्रे नार्थस्य चित्रताऽर्थचित्रे शब्दस्य । तथा कैश्चित् शब्दचित्रमेवेष्यते । कैश्चिवर्थचित्रमेवेष्यते । अस्माभिस्तु द्वयमेवेति । उदाहरणं तु प्राक्तनं बोध्यम् । ॥ इति पादसाह-श्रीअकबरसूर्यसहस्रनामाध्यापक श्री शत्रुञ्जयतीर्थकरभोचनाद्यनकसुकृतविधापकमहोपाध्यामश्रीभानुचन्द्रगणिशिघ्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्तसुरुफहमापरामिधानमहोपाध्यायधीसिद्धिचन्द्र
गणिविरचित काव्यप्रकाशखण्डने षष्ट उल्लासः ॥