Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 38
________________ १६ काव्यप्रकाश खण्डन णादिचमत्कारित्वं च । भाव इति भावयति वासयतीति भावो वासना तेन निर्वासनेषु श्रोत्रियादिषु न प्रसङ्गः । ननु कथं रत्यादेः अनुगगादिरूपस्य अन्तःकरणवृत्तिविशेषस्य अभिव्यक्तावेव परमानन्दरूपरसोद्बोध इति चेत्, उच्यते । अतः - - यत्यात् काव्यदर्शनश्रवणमहिम्ना उक्तया अभिव्यक्त्या चिदात्मनः अज्ञानांशे आवरणभङ्गः क्रियते | आवरणं त्वज्ञानमेव । तथा च न रत्याद्यवच्छिन्नं चैतन्यं आनन्दांशे भग्नायरणम् | आनन्दरूपतया प्रकाशमानं रस इति निर्गलितार्थः । ज्ञानान्तरे त्वज्ञानभङ्गाभावान रसोोधः । तस्यां चाभिव्यक्तौ लिङ्गोपहितलैङ्गिकमानबद् विभावादिसं मेदोऽप्यावश्यकः । अत एवोक्तम् -- पानकरसन्यायेनेति । ननु रसस्तावत् सामाजिकनिष्ठरत्युद्बोधः । स कथं रामादिसम्बन्धित्वेन अवगतेभ्यः सीतादिभ्यो भवति ? असंभवाद् इति चेत्, न । विभावादीनां साधारण्यमात्रेण ज्ञानमपेक्षितम्, साधारण्यं च यत् किञ्चित् सम्बन्धि विशेष सम्बन्धित्वेन अज्ञायमानत्वे सति ज्ञायमानत्वम् । न च सीतात्वादिज्ञाने कथमेतादृशं साधारण्यम्, तदा विभावादिव्यापार महिम्ना सीतात्यादि [ १० १०.२ ] परिहारेण स्त्रीत्वादिनैव ज्ञानात् । अत एवोक्तम्-ता एवापहृतविशेषा रसहेतव इति । एवं रत्यादेः साधारण्यमपि रसोद्वोघे हेतुः । अन्यथा सीताद्यालम्बन करत्यादेः स्वनिष्टत्वज्ञाने व्रीडातङ्कादिः स्यात् । परनिद्यत्वज्ञाने सभ्यानां रससाक्षात्कारो न स्यात् । वस्तुतः सर्वस्मिन् ज्ञाने आत्मभाननैयत्यम् । काव्यश्रवणानन्तरं विभावादिभिः तस्य आनन्दांशे आवरणभङ्गः । तथा सीतात्यादि ( दी ! ) न सीतात्यादिपरिहारेण साधारण्यम्, रत्यादिभावस्य च साधारण्यम् - इत्यादि स्वीकर्तव्यम् । इति प्राचां निष्कर्षः । तदपेक्षया कामिनी कुचकलशस्पर्श चन्दनानुलेपनादिनेव नाव्यदर्शनकाव्यश्रवणाभ्यां सुखविशेषो जायते । स एव तु रस इति नवीनाः । अथ प्राचां रसविशेषानाह - शृङ्गार- हास्य-करुणा रौद्र-वीर-भयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ (० का० २९ ) श्रव्यकव्ये शान्तोऽपि रसः । अथैषां स्थायिभावाः - इतिहास शोक क्रोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्वेति स्थायिभाषाः प्रकीर्त्तिताः ॥ (० का० ३० ) शान्तस्य तु निर्वेदः स्थायी । नवीनास्तु शृङ्गार-वीर-द्वास्याद्भुतसंज्ञाश्चत्वार एवं रसाः । करुणादीनां यथा न रसत्वं तथा वक्ष्यते । 1 तत्र शृङ्गारस्य द्वौ भेदौ - संभोगो विप्रलम्भश्च । उभयस्यैव रतिप्रकृतिकत्वात् । तत्राद्यः परस्परालोकनालिङ्गन-चुम्बनाद्यनन्त मेदादपरिच्छेद्य इति संभोगत्वमुपाधिमादायैक्यम् । उदा०

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130