Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown
View full book text
________________
अथ दोषखरूपमाह -
सप्तम उल्लास
सप्तम उल्लासः ।
३३
येषां ज्ञानाचमत्कारो न सम्यगुपजायते । सालङ्कारगुणेऽप्यत्र ते दोषाः परिकीर्त्तिताः ॥
अत्रेति काव्ये । दृष्टं हि लोके सगुणोऽपि सालङ्कारोऽपि दुष्टत्वेन ज्ञातो न तथा I चमस्करोति तथा काव्यमपि । प्रकाशकृतस्तु
मुख्यार्थतिर्दोषो रसश्च मुख्यस्तदाश्रयाद् वाच्यः ।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ ( मू० का ० ४९ )
का० प्र० ५
ar मिश्राः मुख्यायेदं मुख्यार्थ इति चतुर्थी १० २०.२ ]समासः । तच शब्दार्थयुगलम् । यस्य येन रूपेण रसव्यञ्जकत्वं तस्य तद्रूपमन्यवः । फलं तु रसस्य सम्यगनवभासः । लोकेऽपि दृष्टो दीपा दिव्यञ्जक वैगुण्येन घटादेरपि सम्यगनवभासः । अर्थ-शब्दयोमुख्यार्थत्वं दर्शितम्, ' तदाश्रये' त्यादिना । इदं त्वमे व्याख्यास्यते । न चात्र शब्दार्थयोः रसव्यञ्जकतावच्छेदकरूपविरहो दोष इति पर्यवसन्नम् । तच्च न चारु । रूपान्तर विरहेण दोषाभावगुणालङ्काराणामेव रसव्यञ्जकतावच्छेदकतया दोषानुप्रवेशे आत्माश्रयापतेरिति वाच्यम् । यतो दोषाभावस्य रसव्यञ्जकतावच्छेदकरूपस्य रूपान्तरेण रसव्यञ्जकतावच्छेदकरूपेण प्रवेशोऽत्र कृतः, न तु दोषाभावत्वेन । कान्योऽन्याश्रयप्रसङ्गः । यद्वा श्रुतिकटुवादिनैव विशेषरूपेण प्रवेशः कर्त्तव्य इत्याहुः । अन्ये तु मुख्य इतरेच्छाधीनेच्छाविषयः, तब सुखम्, परमपुरुषार्थत्वात् । एवं च मुख्यत्वं तु सुखान्तरेऽप्यतिप्रसक्तमिति तद्वारणायार्थपदम् | अर्थत्वं अर्यमाणत्वं शब्दजन्य साक्षात्कारविषयत्वमिति यावत् । काव्यादन्यतः शब्दात् न सुखस्य प्रत्यक्षता किन्तु शाब्दत्वमेव । शब्दे तज्जन्यप्रत्यक्ष विषयतया तिध्याशिवारकं मुख्यपदम् | उक्त मुख्यत्वस्य सुखादन्यत्रा संभवात् । एतेनात्र पदार्थतावच्छेदकयोः परस्परव्यभिचाराभावात् न कर्मधारयोऽर्थपदवैयर्थ्यं चेति दूषणद्वयं निरस्तम् । इतिरपकर्षो न तु प्रतिषन्धो दुष्टेष्वपि रसानुभावात् । अपकर्षस्तु रसनिष्ठो धर्मविशेषः । दोषज्ञानं तु तद्व्यञ्जकम् । न त्वेवं अभिधेयेऽर्थे मुख्यशब्दप्रयोगः, अर्थशब्ददोष विभागश्च न स्यात् । उक्तमुख्यार्थत्वस्य अपकर्षस्य च रसमात्रवृत्तेरित्यतः 'तदाश्रयादि'त्याधुक्तम् । आश्रयणमाश्रयः उपायत्वेनापेक्षणम् । वाच्यो मुख्य इत्यन्वयः । एवं च वाच्ये विभा वादौ भाको मुख्यपदप्रयोगः । आखादोपाय [] प ० ११.१ ]वं च दर्शितम् । उभयम् - रसो बाच्यश्च । शब्दाद्यास्तदुपयोगिनः विभावादिकं प्रत्याय, रसप्रत्यायनात् । तेन रसोपायश्वेन तेषु अर्थशब्दादिषु सः दोषः । न केवलं रसेऽपीत्यपेरर्थः । गुणवदोषोऽपि साक्षात् सम्बन्धेन रसे, व्यञ्जकत्वेन तु अर्थे शब्दादिष्विति व्याचक्षते । नवीनास्तुएतन्मतनिष्कर्षस्तु रसापकर्षज्ञानजनकज्ञानविषयत्वं दोषत्वम् व्यपकर्षस्तु रसनिष्ठोऽखण्डो
J

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130