Book Title: Kavyaprakashkhandan
Author(s): Siddhichandragani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 52
________________ ३० काव्यप्रकाशखण्डन कैलासालयभीललोचनरुचा निर्वर्तितालतक व्यक्तिः पादनखद्युतिर्गिरिभुवः सा का सदा त्रायताम् । स्पद्धविन्धसमीहयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सधः समुत्सार्यते ॥ कैलासालयः शिवः, अत्र गिरिभुवः कोपबशात् नेत्रयोः शोष्णा कान्तिरासीत् सा पादपणते शिवेऽपगतेति ध्वनितम् । तत्रेदमुत्प्रेक्षते - स्पर्द्धाबन्धेति । रूढा उपचिता । अत्र भावस्य त्रायतामित्यवगतस्य कविनिष्ठस्य रसो महादेवनिष्ठा रतिः प्रणतिरवसैया । महादेवोऽपि यत्मसादनाय प्रणमति तत्र भक्तिरुचितेति रसस्य भावाता । एवं सर्वत्राशानिभावो बोध्यः । अनुरणनरूपस्य रसस्य वाच्याङ्गत्वं यथा जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्च प्रलपितम् । कृतालंकाभर्तुत्रंदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ मया रामत्वं रामसादृश्यं आप्तं प्राप्तमित्यन्वयः । खपक्षे जनस्थान नगर-मामादि, रामपक्षे जनस्थानं खर-दूषणादिनिवासः दण्डकारण्यं था । खपक्षे कनकविषया मृगतृष्णा निःफलाऽऽशा, रामपक्षे कनकमृगे सुवर्णमृगे तृष्णा च । बै निश्चितं देहि प्रयच्छ, रामपक्षे विदेहापत्यं स्त्री वैदेही सीता च । भर्तुः भरणकर्तुः । परिपाटीषु मुखविवलनाममोट्टनाऽनवधानादिषु का घटना न कृता तां वद । यद्वा [प. १९.१] काभर्तुः कुत्सितमतः । वदनपरिपाटीषु वचन भङ्गीषु, घटना योजना अलमत्यर्थेन न कृता । अलं व्यर्थ था कस्म मुखस्याभर्तुरपोषकस्य नीचजनस्वेत्यर्थः । लामतुः रावणस्य वदनानां परिपाट्यां पक्तयां इषुघटना शरसंयोजन च । स्वपक्षे कुशलं प्रचुरं वसु धनं यस्थ, एवंभूतता । कुश-लवौ सुतो यस्याः सा सीता । अत्र प्रकृताप्रकृतयोः कवि-रामयोः साम्यं ध्यानया बोध्यते । मत्र शब्दशक्तिमूलानुरणनरूपी रामेण सह उपमानोपमेयभावो मयेत्यादिना बाच्याङ्गता नीतः । शब्दानां परिवृत्त्यसहिष्णुत्वेन शब्दशक्तिमूलता । चाच्यस मयाप्तं रामत्वस्म । अन्यत्रान्यतादात्म्यारोपरूपस्यातिशयोक्तिरूपस्य अङ्गतां उत्कर्षतां नीतः । मयाप्तं रामत्व इत्यभिधाय कविनेति शेषः । तदनुक्तावुपमाध्वनित्वानपायः स्यात् । अयमर्थः - सदृशे तत्त्वारोपस्य चमत्कारित्वात् , वाच्यस्य तत्त्वारोपस्य प्रतीयमानं खसाम्यमुत्कर्षकमित्यपराजता । ननु कुतो रामत्व प्राप्तमित्याकालाया निवर्तकस्य साम्यस्य वाच्यसिद्ध्यकत्वमेव नापराङ्गत्वम् । इति चेत्, न । जनस्थानभ्रमणादिरूपसाम्यस्य शब्दशक्तिमूलव्यन्यतः प्रागेवावगतौ रामत्यारोपरूपबाच्यस्य सिद्धत्यात् । अङ्गरूपोपमायां तु जनस्थान इत्यादिशब्द एव सादृश्यम् ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130