________________
३०
काव्यप्रकाशखण्डन
कैलासालयभीललोचनरुचा निर्वर्तितालतक
व्यक्तिः पादनखद्युतिर्गिरिभुवः सा का सदा त्रायताम् । स्पद्धविन्धसमीहयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सधः समुत्सार्यते ॥ कैलासालयः शिवः, अत्र गिरिभुवः कोपबशात् नेत्रयोः शोष्णा कान्तिरासीत् सा पादपणते शिवेऽपगतेति ध्वनितम् । तत्रेदमुत्प्रेक्षते - स्पर्द्धाबन्धेति । रूढा उपचिता । अत्र भावस्य त्रायतामित्यवगतस्य कविनिष्ठस्य रसो महादेवनिष्ठा रतिः प्रणतिरवसैया । महादेवोऽपि यत्मसादनाय प्रणमति तत्र भक्तिरुचितेति रसस्य भावाता । एवं सर्वत्राशानिभावो बोध्यः । अनुरणनरूपस्य रसस्य वाच्याङ्गत्वं यथा
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्च प्रलपितम् । कृतालंकाभर्तुत्रंदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ मया रामत्वं रामसादृश्यं आप्तं प्राप्तमित्यन्वयः । खपक्षे जनस्थान नगर-मामादि, रामपक्षे जनस्थानं खर-दूषणादिनिवासः दण्डकारण्यं था । खपक्षे कनकविषया मृगतृष्णा निःफलाऽऽशा, रामपक्षे कनकमृगे सुवर्णमृगे तृष्णा च । बै निश्चितं देहि प्रयच्छ, रामपक्षे विदेहापत्यं स्त्री वैदेही सीता च । भर्तुः भरणकर्तुः । परिपाटीषु मुखविवलनाममोट्टनाऽनवधानादिषु का घटना न कृता तां वद । यद्वा [प. १९.१] काभर्तुः कुत्सितमतः । वदनपरिपाटीषु वचन भङ्गीषु, घटना योजना अलमत्यर्थेन न कृता । अलं व्यर्थ था कस्म मुखस्याभर्तुरपोषकस्य नीचजनस्वेत्यर्थः । लामतुः रावणस्य वदनानां परिपाट्यां पक्तयां इषुघटना शरसंयोजन च । स्वपक्षे कुशलं प्रचुरं वसु धनं यस्थ, एवंभूतता । कुश-लवौ सुतो यस्याः सा सीता । अत्र प्रकृताप्रकृतयोः कवि-रामयोः साम्यं ध्यानया बोध्यते । मत्र शब्दशक्तिमूलानुरणनरूपी रामेण सह उपमानोपमेयभावो मयेत्यादिना बाच्याङ्गता नीतः । शब्दानां परिवृत्त्यसहिष्णुत्वेन शब्दशक्तिमूलता । चाच्यस मयाप्तं रामत्वस्म । अन्यत्रान्यतादात्म्यारोपरूपस्यातिशयोक्तिरूपस्य अङ्गतां उत्कर्षतां नीतः । मयाप्तं रामत्व इत्यभिधाय कविनेति शेषः । तदनुक्तावुपमाध्वनित्वानपायः स्यात् । अयमर्थः - सदृशे तत्त्वारोपस्य चमत्कारित्वात् , वाच्यस्य तत्त्वारोपस्य प्रतीयमानं खसाम्यमुत्कर्षकमित्यपराजता । ननु कुतो रामत्व प्राप्तमित्याकालाया निवर्तकस्य साम्यस्य वाच्यसिद्ध्यकत्वमेव नापराङ्गत्वम् । इति चेत्, न । जनस्थानभ्रमणादिरूपसाम्यस्य शब्दशक्तिमूलव्यन्यतः प्रागेवावगतौ रामत्यारोपरूपबाच्यस्य सिद्धत्यात् । अङ्गरूपोपमायां तु जनस्थान इत्यादिशब्द एव सादृश्यम् ।