________________
पञ्चम उल्लास
२९ लेपनासंभवात् लिखेति पदे व्यापने लक्षणा, सुहृदामित्यत्राचेतनस्प मित्रत्वाभावात् सुहृदामित्यनेन परितोषकारित्वं लक्ष्यते । तदतिशयौ च व्यक्यौ लेपन-मुहत्वयोः सर्यथान्वयामवेशात् वाध्ययोरत्यन्ततिरस्कारः । एवं चात्र अत्यन्ततिरस्कृतवाच्ययो`पनातिशयपरितोषकारित्वातिशयध्वन्योः संसृष्टिः । आभ्यां सह रामोऽस्मीति अर्थान्तरे कष्टजीवित्वको समितवायरस, एशि वैषम्य हेतुसंपातेऽपि जीवित्वरूपदुःखसहनातिशय वन्योः, अनुमाद्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्ज कानुप्रवेशेन वा अर्थान्तरसमितवाच्यस्य दुःखसहनातिशयध्वनेः रसध्वनेश्व सक्करः । एवमन्यदप्युदाहार्यम् ॥ ॥ इति पादशाहटीअकबरसूर्यससनामाध्यापक-धीशत्रुञ्जयतीर्धकरमोचनाद्यनैकसुकृतविधायकमहोपाध्याय-श्रीभानुचन्द्रगणिशिच्याटोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकबरप्रदत्त-पु(खुस्फिहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचित
कामप्रकाशष(ख)ण्डने चतुर्थ उल्हासः ।।
पञ्चम उल्लासः। अथ पाचोक्तगुणीभूतव्यत्यमेदानाह --
अगूदमपरस्थाङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काकाऽऽक्षिप्तमसुन्दरम् ॥ ( म० का० ४५) व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टौ भिवाः स्मृताः। (मू० का० ४६, पृ.) एषां स्वरूपं लक्ष्येषु वक्ष्यामः । कामिनीकुचकलशतया गूढं चमत्करोति, अगूढं तु स्फुरतया प्रतीयमानमिति गुणीभूतमेव । यथा
राजविंशमनोर्म मर्कटद्वारसेवनात् ।
जीवन्तमपि मां ब्रह्मन् ! मृतमित्यवधारय । अत्र मरणमेव श्रेय इत्यनुतापातिशयो व्यन्यः सर्वजनवेद्यस्वाद गूढ एव । अपरस्य रसादेः, रसादिः अझं उत्कर्षक तथा वाच्यस्य [प० १८.२ ] अनुरणनरूपमझम् । केचित् तु वाच्यस्य रसादिरसमित्याहुः । लक्ष्यदर्शने विशिष्टं विवेचयिष्यामः । यथा
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूजघनस्पी नीवीविस्रंसनः करः ॥ अत्र शृङ्गारः करुणस्योत्कर्षकः । तथा हिं- एतत् समरपतितं भूरिश्रवसो हस्तमालोक्य तद्वधूरमिदधौ । तथा च शृङ्गारोचितरसनाकर्षणादिविलासस्मरणविगलहृदयत्वात् शोकबेगमधिकमपजनयति ।