________________
काव्यप्रकाशखण्डन एवं भूमिमिति न तु भूमाविति । न हि बुद्धिपूर्व किञ्चिल्लि[स]ति । अधिकरणताऽभिधाने आकाइस कर्मण उद्देश्यत्वं प्रतीयेत, न च तथेति ।
रमणीयः क्षत्रियकुमार आसीत् ।' इत्यतीतकालोपदेशात् स्थितेर्वर्तमानव-भविष्यत्वन्यवच्छेदो गम्यते । एषा हि दाशरथि प्रति कुपितस्य भार्गवस्योक्तिः । यथा वा
रामोऽसौ भुवनेषु विक्रमगुणैः [प. १५. २] प्राप्तः प्रसिद्धि परा
मस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम् । बन्दीवैष यशांसि गायति मरुद् यस्यैकयाणाहति
श्रेणीभूतविशालशालविवरोद्गीर्णैः स्खरैः सप्तभिः ॥ अत्रासावित्यनेन निरन्तरभावनावशेन प्रत्यक्षायमाणत्वम् , भुवनेषु इति बहुवचनेन न यत्र कचिदिति, गुणैरित्यनेन दोषव्यवच्छेदो व्यज्यते । तथा न त्वदिति न मदिति अपि तु अस्मदिति सर्वाक्षेपकत्वम् । एवं अभाग्यादिति वक्तव्ये भाग्यविपर्ययादित्युक्तम् । तेन अभाग्याभावेऽपि भाम्यान्येव तत्त्वेन परिणतानीति प्रतीयते । तैस्तु निवेदशकादैन्यविषावातिशयः पोष्यते । एवं रचना-वर्णयोय॑ञ्जकत्वं वक्ष्यते । एते शुद्धभेदाः । एवं एतेषां ध्वनीनां संयास्पनरोग, अनुमानानुगाहटगा, एकव्यञ्जकानुपवेशेन चेति त्रिरूपेण संकरेण, परस्परनिरपेक्षया चैकमकारया संसृष्ट्या एकत्र काव्ये संसर्गरूपया अन्योऽन्ययोजनम् । यथा--
खणपाहुणिआ देअर जाआए [ सुहअ] कि पि दे भणिआ। रुबइ पलोहरवलहीघरम्मि अणुणिजइ बराई ।। [क्षणप्राघुणिका देवर जायमा [सुभग ] किमपि से भणिता ।
रोदिति पश्चादागवलमीगृहे अनुनीयता पराकी ॥] क्षणप्राघुणिका उत्सवातिथिः । पलोहरशब्दो देशभाषया गृहपश्चाद्वाची । अत्रानुनयः कि उपभोगलक्षणे अर्थान्तरे समितः, किं अनुरणनन्यायेन उपभोग एवं व्याये व्यक्षक इति संदेहः।
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्धलाका घना ___ वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु तथा ( दृढं ?) कठोरहदयो रामोऽसि सर्व सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥ वेल्लनं विलासखेलनम् , पयोदसुहृदां मयूराणाम् , काम प्रभूतम् , दृढं बलवत् , सहे इत्युत्तमपुरुषैकवचनम् । भविष्यति जीविष्यतीत्यर्थः । खेदातिशये ह ह हे। प. १८.१ ति त्रयो निपावाः । स्मृतिसंकल्पोपनीता सीतां संबोध्याह - देवीति । अत्र वियतो निःस्पर्शस