SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उल्लास Torever दिवा प्रभवतो गृहस्य पुरुषविवर्जनपरं वाक्यम् - 1 आदित्योऽयं दिवा मूढाः स्नेहं कुरुत सांप्रतम् । बहुविमो मुहूर्त्ताऽयं जीवेदपि कदाचन || अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात् कथं बालास्त्यजध्वमविशङ्किताः । इति । - निशि चिजृम्भमाणस्य गोमायोजनव्या चर्तननिष्ठं चेति प्रबन्ध एव व्यञ्जकतथा प्रथते । अन्येऽपि स्वयमूणाः । अपिशब्दात् पद-वाक्ययोः पदैकदेशरचना वर्णेष्वपि रसादयः । पदं द्विविधं सुबन्तं तिङन्तं च । एकदेशो धातुनामरूपः प्रकृतिविभागः, ति[ प १७.१]सुपरूपः प्रत्ययविभागः । यथा VEP रहकेलि हिअनिवसनकर कि सलअरुद्ध अणजुअलस्स | रुहस्स तीअनअणं पव्वइपरिचुम्बिअं जअ || इति केलिस निवसमकर किशलयरुजून यनजु (यु) गछस्व १ रुद्रस्य तृतीयनयनं पार्वत्याः परिचुम्बितं जयति ॥ उत्कर्षाश्रयो भवति, स च लोकोत्तररूपेण पिधानवत्तया । लोकोत्तरताच चमत्कारानुगुणतया रागातिशयहर्ष-लज्जा संपतिद्वारक रसातिशयपोषणात् । तच्च जयतिना साध्यत इति प्रकृतेर्व्यञ्जकत्वम् । नाम्नो व्यञ्जकता यथा २७ प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद् यावन्न यात्युन्मनाः । तावत् प्रत्युत पाणिसंपुटगलनीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥ अ पदानीति न सु द्वाराणि । तथा च द्वारादिव्यवच्छेदो व्ययः । स च संभोगसंचालुक्योपोद्बलनद्वारा रसपरिपोषकृत् । तिङ्सुपो यथा 1 लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ अत्र लिखन्निति न लिखतीति अपि तु प्रसादपर्यन्तं आस्ते । तथा च लिखनस्य न साध्यत्वम् । अप्राधान्यं अबुद्धिपूर्वकत्वं व्यज्यते किन्तु प्रसादपर्यन्तायाः स्थितेरेव साध्यत्वम् | तथा आस्त इति न वासित इति । तेन स्थित्यतीतता विच्छेदो व्ययः । २ आदर्श "रुद्रोणणभण" इति पाठः । १ स्थितो' सु० पा० ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy