SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशबहने अत्रामान्तीत्यत्र महिलासहस्रभृतत्वं हेतुः, तनु(नू )करणे अमितत्वादिहेतुरिति हेललहा। मन्त्र हेत्वलकारेण मौढोक्तिमात्रनिष्पन्नेन तनोस्तनु(नू)करणेऽमि तव हृदये सा न वर्तत इति विशेषोक्तियन्यते । उभयशक्तिमूलध्वनिर्यथा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा | तारका तरला श्यामा सानन्दं न करोति कम् ॥ अक्षरार्थस्तु-श्यामा नायिका रात्रिश्च, चन्द्रः शशी कपूर च, सुवर्ण वा । 'चन्द्रः सुधांशुकर्पूरकम्पिल्लवर्णवारिषु' इति विश्वः । तारका नक्षत्र अक्षिकनीनिका च । यद्यपि शब्दशक्तिमूलेऽर्थस्स, अर्थशक्तिमूले शब्दस्य व्यञ्जकत्वं संभवतीति उभयशक्तिमूलत्वं सर्वत्रास्ति, तथापि तत्र गुणप्रधानभावेन । अत्र तु द्वयोरेव प्राधान्ये व्याकरव. मिति उभयशक्तिमूलत्वम् । अयं निष्कर्षः- यत्र पदं परिवृत्त्य सहिष्णु तत्र पदप्राधान्यम् , अन्यत्रार्थप्राधान्यम् । [प, १६.२ ] प्रकृते चन्द्रसमुद्दीपिततारकाशब्दाः परिवृत्यसहिष्णवः, पदान्तरोपादानेऽपरार्थप्रत्ययो न स्यात् । अत एव एषां शब्दमाधान्यम् । अन्ये न तथेति तेषां अर्थप्राधान्यम् । उभयोरेकत्र प्राधान्यादुभयशक्तिमूलत्वम् । अत्रेदमवधातव्यम् – यस्य यत्र काव्यसर्वखत्वमनुभूयते तत्र तस्य प्राधान्यम् । तथा चात्र रात्रिनायकयोरुपमानोपमानभावो व्ययः । अप्रेदमयधातव्यम् – अविवक्षितबाच्यप्रभृतयो यावन्तो ध्वनिभेदाः कथिताः ते सर्वे घाक्ये भवन्ति । उमयशक्तिमूलं विना पदे स्युरिति प्राश्वः । 'सोऽपि पदे भवतीति नवीनाः । यत्र सर्वाणि पदानि समकक्षकतया व्यञ्जकानि प्रकृतार्थोपकारे पर्यवस्यन्ति तत्र वाक्यगतत्वेन व्यवहारः, यत्र त्येकमेव प्राधान्येन व्यञ्जकं तत्र पदगत. स्वेनेति वाक्य-पदगतत्वेन ध्वनीनां विवेकः । तत्र वाक्ये पूर्वमुदाहताः । पदे किञ्चित् उदाहियते यथा -- बहवस्ते गुणा राजन्नेकस्तु सुमहान् गुणः । मित्राणि तव मित्राणि नान्यथा स्युः कदाचन ।। एवं अन्यदपि स्वयं बोध्यम् ।। प्रवन्धेऽप्यर्थशक्तिभूः । (मू० का० ४२, १० पा०) अलं स्थित्वा श्मशानेऽस्मिन् गृध्र-गोमायुसङ्कले । कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥ न चेह जीवितः कश्चित् प्राणिधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ इति । ५ 'उभयशकिमूलध्वनिरपि । इति टिप्पणी। २ "कालधर्म' मु. पा० ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy