________________
४3
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | CIS-१२ २, तन्दुलचूर्णयुते चावलेखिका ३, द्राक्षासहिते पयःशाटी ४, बहुतन्दुलयुक्ते च दुग्धे राधे क्षरेयीति पञ्च दुग्धविकृतिगतानि, विकृतिर्गता एष्वि(भ्य इ)ति विकृतिगतानि निर्विकृतिकानीत्यर्थः । “दहिए बिगइगयाइ, घोलवडां १ घोल २ सिहरणि ३ करंभो ४ ।। लवणकणसहियमहियं ५, संगरिगाइंमि अप्पडिए ।।१।।" [प्रवचनसारोद्धारे २२४] वस्त्रगालितदधिघोलयुक्तानि वटकानि घोलवटकानि १, घोलं वस्त्रगलितं दधि २, करमथितखण्डयुतं दधि शिखरणि ३, करम्भो दधियुक्तकूरनिष्पन्नः प्रसिद्धः ४, करमथितं दधि लवणकणयुतं च राजिकाखाटमित्यर्थः, तच्च साङ्गरिकादिकेऽपतितेऽपि विकृतिगतं भवति, तस्मिन् पतिते पुनर्भवत्येव, एतानि पञ्च दधिनिर्विकृतानि' “पक्कघयं १ घयकिट्टी २, पक्कोसहि उवरि तरिय सप्पिं च ३ निब्भंजण ४ विस्संदण ५ गा य घयविगइगयाइं ।।१।।" [प्रवचनसारोद्धारे २३०]
पक्वघृतम्, आमलकादिसम्बन्धि १, घृतकिट्टकं प्रसिद्धम् २, घृतपक्वौषधितरिका ३, पक्वान्नोत्तीर्णं दग्धघृतं निर्भञ्जनम् ४, दधितरिकाकणिक्कानिष्पन्नद्रव्यविशेषो विस्स(स्य)न्दनं ५ चेति पञ्च घृतनिर्विकृतिकानि बृहत्कल्प-पञ्चवस्तुवृत्त्योस्तु विस्यन्दनं नामानिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नमित्युक्तम् ।
“तिल्लमल्ली १ तिलकुट्टी २, दद्धतिल्लं ३ तहोसहुव्वरिय ४ । लक्खाइदव्वपक्कं, तिल्ल ५ तिल्लमि पंचेव ।१ ।” [प्रवचनसारोद्धारे २३१]
तैलमलम १, तिलकट्रिश्च २ प्रसिद्धे, पक्वान्नोत्तीर्णं दग्धतैलम् ३, तैलपक्वौषधितरिका ४, लाक्षादिद्रव्यपक्वं तैलम् ५ चेति तैलनिर्विकृतानि । “अद्धकओ इक्खुरसो १, गुलबाणिअयं च २ सक्करा ३ खंडा ४ ।। पायगुडो ५ गुलविगइविगइगयाइं तु पंचेव ।।१।।” [प्रवचनसारोद्धारे २३२]
अर्द्धकृतेक्षुरसः १, गुडपानीयम् २, शर्करा ३, खण्डा ४, पाकगुडो येन खञ्जकादि लिप्यते ५ इति पञ्च गुडनिर्विकृतिकानि
पीयगं च जं पक्कं । तुप्पेणं तेणं चिय २, तइयं गुलहाणियापभिई ३।।१।। चउत्थं जलेण सिद्धा, लप्पसिया ४ पंचमं तु पूअलिया ५ । तुप्पडियतावियाए, परिपक्का ६ तीस मिलिएसुं ।।२।।" [प्रवचनसारोद्धारे २३३-२३४]