Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 191
________________ धर्मसंग्रह लाग-4 / द्वितीय अधिकार / श्लोक-१५ १७४ चतुर्थ्यो: क्रियेते, प्रामाणिकं चैतत् सर्वसंमतत्वाद्, उक्तं च कल्पभाष्ये “असढेण समाइण्णं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुजणमयमे अमायरिअं । । १ । । " इति । तथा ध्रुवाभ्रुवभेदाद्विधा प्रतिक्रमणम्, तत्र ध्रुवं भरतैरवतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु मावा, परम् उभयकालं प्रतिक्रमणं कर्त्तव्यम्, अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणे जाते प्रतिक्रमणम्, यदाह “सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ।। १ ।।” [ कल्पपंचा. ३२] प्रतिक्रमणविधिश्चैवं प्रतिक्रमणहेतुगर्भादौ उक्तः “साधुना श्रावकेणापि अनुयोगद्वारगत 'तदप्पिअकरणे' इति पदस्य करणानि तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नेव - आवश्यके यथोचितव्यापारनियोगेनार्पितानि=नियुक्तानि येन स तदर्पितकरणः, सम्यक्यथावस्थानन्यस्तोपकरण इत्यर्थः " इति वृत्तिः । तथा—“जो मुहपोत्तियं अपडिलेहित्ता वंदणं देइ, तो गरुअं तस्स पायच्छित्तं” इति व्यवहारसूत्रम् । “पोसहसालाए ठवित्तु ठवणायरियं मुहपत्तिअं पमज्ज तो सीहो गिण्हइ पोसहं" इति व्यवहारचूलिका । “पावरणं मोत्तूणं, गिण्हित्ता मुहपोत्तिअं । वत्थकायविसुद्धीए, करेइ पोसहाइअं ।।१।।” इति च व्यवहारचूर्णिरित्येवमादिग्रन्थप्रामाण्यात् मुखवस्त्रिकारजोहरणादियुक्तेन द्विसन्ध्यं विधिना प्रमार्जितादौ स्थाने जातु तदभावेऽपि ससाक्षिकं कृतमनुष्ठानमत्यन्तं दृढं जायत इति गुरुसाक्षिकं तदभावे च नमस्कारपूर्वं स्थापनाचार्यं स्थापयित्वा पञ्चाचारविशुद्ध्यर्थं प्रतिक्रमणं विधेयम् । अत्राह कश्चित् - ननु “गुरुविरहंमि उ ठवणा, गुरूवएसोवदंसणत्थं च । जिणविरहमि व जिणबिंबसेवणामंतणं सहलं । । १ । । " इत्यादिविशेषावश्यकवचनप्रमाणात् यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता भाष्यकृता साधुमाश्रित्य स्थापनाचार्यस्थापनमुक्तं न श्रावकमाश्रित्येति कुतस्तेषां स्थापनाधिकार इति चेन्न, भदन्तशब्दं भणतां तेषां स्थापनाचार्यस्थापनं युक्तमेव, अन्यथा भदन्तशब्दपठनं व्यर्थमेव स्यात्, अथ च स्थापनाचार्यस्थापनमन्तरेणापि वन्दनाद्यनुष्ठानं विधीयते, तदा वन्दनकनिर्युक्तौ-‘आयप्पमाणमित्तो,

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244