Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૭૨
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-કપ मपेक्ष्य षडावश्यकरूपज्ञानक्रियासमुदायप्रवृत्तेरविरोधात्, क्रियारूप एकदेशे आगमस्याभावानोआगमत्वं, नोशब्दस्य देशनिषेधार्थत्वात्, उक्तं च
"किरिआऽऽगमो ण होइ, तस्स णिसे,मि नोसद्दोत्ति" [ ]
तत्र सामायिकम आर्त्तरौद्रध्यानपरिहारेण धर्मध्यानकरणेन शत्रुमित्रकाञ्चनादिषु समता, तच्च पूर्वमुक्तं, चतुर्विंशतिस्तवः चतुर्विंशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं गुणकीर्तनं, तस्य च कायोत्सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः, अयमपि पूर्वमुक्तः, वन्दनं-वन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्धं द्वात्रिंशद्दोषरहितं नमस्करणं, तदप्युक्तमेव ।
प्रतिक्रमणं प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा, ‘क्रम पादविक्षेपे' [धा. पा. ३८५] अस्य प्रतिपूर्वस्य भावे ल्युडन्तस्य प्रतीपं क्रमणं, अयमर्थ:-शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणं प्रतिक्रमणं, यदाह"स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ।।१।।" प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाह“क्षायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः ।।१।।" प्रति प्रति क्रमणं वा प्रतिक्रमणम्, उक्तं च“प्रति प्रति वर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ।।१।।"
तच्चातीतानागतवर्तमानकालत्रयविषयम, नन्वतीतविषयमेव प्रतिक्रमणं, यत उक्तं-“अईअं पडिक़्कमामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामी ति" [ ] तत्कथं त्रिकालविषयता?, उच्यते, अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थ:
"मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ।।१।।" [आवश्यकनिर्युक्तौ १२६४] ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम्, प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतविषयमपि प्रत्याख्यानद्वारेणेति न कश्चिद्दोषः, इत्थं त्रिकालविषयं प्रतीपक्रमणादि प्रतिक्रमणमिति सिद्धम्, एतच्च व्युत्पत्तिमात्रम्, रूढिश्च क्वचिदावश्यकविशेषे, क्वचिच्च षडावश्यकक्रियायामित्युक्तमेव,

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244