Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 225
________________ ૨૦૮ धर्मसंग्रह भाग-4 / द्वितीय संधिवार | Gls-१५ __ इत्याद्युक्तेः स्त्रीणां संस्कृतेऽनधिकारत्वसूचनात्साध्व्यः श्राविकाश्च 'नमोऽर्हत्सिद्धे'त्यादि सूत्रं न पठन्ति, 'नमोऽस्तु वर्द्धमानाये'त्यादिस्थाने 'संसारदावानले'त्यादि च पठन्ति, रात्रिकप्रतिक्रमणे तु विशाललोचनेत्यादिस्थाने केचित्तु स्त्रीणां पूर्वाध्ययनेऽनधिकारित्वात् नमोऽस्तु वर्द्धमानेत्यादीनां च पूर्वान्तर्गतत्वेन सम्भाव्यमानत्वान्न पठन्तीत्याहुः । यच्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्तं 'नमो खमासमणाणं' इति गुरुनमस्कारः साधुश्राद्धादिभिर्भण्यते, तनृपाद्यालापेषु प्रतिवार्ताप्रान्तं जीवेत्यादिभणनवत् श्रीगुरुवचःप्रतीच्छादिरूपं सम्भाव्यते स्तुतित्रयपाठानन्तरं शक्रस्तवपाठः तत उदारस्वरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वे सावधानमनसः कृताञ्जलयः शृण्वन्ति स्तवनभणनानन्तरं च सर्वजिनस्तुतिरूपं 'वरकनके'त्यादि पठित्वा चतुर्भिः क्षमाश्रमणैः श्रीगुर्वादीन् वन्दते अत्र च देवगुरुवन्दनं नमोऽर्हत्सिद्धेत्यादेरारभ्य चतुःक्षमाश्रमणप्रदानं यावत् ज्ञेयम्, श्राद्धस्य तु 'अड्डाइज्जेसु' इत्यादि भणनावधि ज्ञेयम् । इदं च देवगुरुवन्दनं प्रतिक्रमणस्य प्रारम्भे अन्ते च कृतम्, 'आद्यन्तग्रहणे मध्यस्यापि ग्रहण मिति न्यायात् सर्वत्राप्यवतरतीति यथा शक्रस्तवस्यादावन्ते नमो इति भणनम्, ततोऽपि 'द्विर्बद्धं सुबद्धं भवती'तिन्यायेन पूर्वं चारित्राद्याचारशुद्ध्यर्थं कृतेष्वपि कायोत्सर्गेषु पुनः प्राणातिपातविरमणाद्यतिचाररूपदेवसिकप्रायश्चित्तविशोधनार्थं चतुश्चतुर्विंशतिस्तव-चिन्तनरूपं कायोत्सर्गं कुरुते अयं च कायोत्सर्गः सामाचारीवशेन कैश्चित्प्रतिक्रमणस्यादौ कैश्चित्त्वन्ते क्रियते, तदनु तथैव पारयित्वा चतुर्विंशतिस्तवं च मङ्गलार्थं पठित्वा क्षमाश्रमणद्वयपूर्वं मण्डल्यामुपविश्य सावधानमनसा स्वाध्यायं कुरुते मूलविधिना, पौरुषी यावत्संपूर्णा स्यात् । अत्राह परः-ननु प्रतिक्रमणं पञ्चाचारविशुद्ध्यर्थं प्रागुक्तम्, अत्र तु ज्ञानदर्शनचारित्राचाराणामेव यथास्थानं शुद्धिरुक्ता, नच तपोवीर्याचारयोः, तथा च प्रतिज्ञाहानिरितिचेन्मैवम्, एतच्छुद्धिर्ज्ञानाद्याचारानन्तरीयका इति प्रतिपादितैव तथाहि-सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य श्राद्धस्यापि कृतान्यतरप्रत्याख्यानस्य तद् भवति प्रातरपि पाण्मासिकप्रभृतिनमस्कारसहितान्तं प्रत्याख्यानं करोतीति स्फुटैव तपआचारशुद्धिः यथाविधि यथाशक्ति च प्रतिक्रामतो वीर्याचारशुद्धिरपि प्रतीतैवेति अविधिना च कृते प्रायश्चित्तम्, तथा हि-काले आवश्यकाकरणे चतुर्लघुः, मण्डल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्लघुः, निद्राप्रमादादिना प्रतिक्रमणे न मिलितः तत्रैकस्मिन् कायोत्सर्गे भिन्नमासः, द्वयोर्ल घुमासः, त्रिषु गुरुमासः, तथा गुरुभिरपारिते कायोत्सर्गे स्वयं पारणे गुरुमासः, सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः, एवं वन्दनेष्वपि योज्यमिति व्यवहारसूत्रे । तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तर्मुहूर्त्तमात्रमासते, कदाचिदाचार्या अपूर्वां सामाचारीमपूर्वमर्थं वा प्ररूपेयुरित्युक्तमोघनियुक्तिवृत्तौ, इति दैवसिकप्रतिक्रमणविधिः ।

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244