Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 233
________________ ૨૧૬ धर्मसंग्रह लाग-4 / द्वितीय अधिजार / PRTs-१५ तन्निद्राभिभूतस्य सम्यक् स्मरणं न स्यादिति, तृतीयकायोत्सर्गे च सावधानीभूतत्वात् सम्यग् स्यादिति तत्र निशातिचारचिन्तनमिति हाएँ, यत उक्तं समयविद्भिः “निद्दामत्तो न सरइ, अइआरे कायघट्टणान्नोऽन्नं । किइकरणे दोसा वा, गोसाई तिन्नि उस्सग्गा ।।१।।" [आवश्यक नि. १५२५] इति । ततः पूर्ववन्मुखवस्त्रिकाप्रतिलेखनापूर्वं वन्दनादिविधिः प्रतिक्रमणसूत्रानन्तरकायोत्सर्ग यावत् ज्ञेयः, पूर्वं चारित्राद्याचाराणां प्रत्येकं शुद्धये पृथक् कायोत्सर्गाणां कृतत्वेन साम्प्रतं तेषां समुदितानां प्रतिक्रमणेनाप्यशुद्धानां शोधनायायं कायोत्सर्गः सम्भाव्यते अत्र च कायोत्सर्गे श्रीवीरकृतं पाण्मासिकं तपश्चिन्तयति, हे जीव! श्री वीरेण पाण्मासिकमुत्कृष्टं तपः कृतम्, तत् त्वं कर्तुं शक्नोषि? नवा, जीवो वक्ति 'न शक्नोमि' तर्हि एकदिनोनं पाण्मासिकं कर्तुं शक्नोषि?, न शक्नोमि, एवं द्वित्रिचतुःपञ्चदिनैरूनं पाण्मासिकं कर्तुं शक्नोषि? पुनर्वक्ति न शक्नोमि, तर्हि षट्सप्ताष्टनवदशदिनोनं षाण्मासिकं कर्तुं शक्नोषि?, एवं एकादशतः पञ्चदिनवृद्ध्या क्रमेणैकोनत्रिंशदिनानि यावच्चिन्तयति एवं पञ्चमे चतुर्थे तृतीये द्वितीये मासेऽपि, प्रथमे तु रे जीव! त्वमेकमासिकं कर्तुं शक्नोषि? न शक्नोमि, ततः एकदिनोनं कर्तुं शक्नोषि? न शक्नोमि, एवं यावत्त्रयोदशदिनोनं कर्तुं शक्नोषि? न शक्नोमि, तर्हि चतुस्त्रिंशत्तमं कर्तुं शक्नोषि? न शक्नोमि, द्वात्रिंशत्तमम्, त्रिंशत्तमम्, अष्टाविंशतितमम् षड्विंशतितमं चतुर्विंशतितमं द्वाविंशतितमं विंशतितमं अष्टादशं षोडशं चतुर्दशं द्वादशं दशमं षष्टं चतुर्थं कर्तुं शक्नोषीत्यादि विचिन्त्य यत्तपः कृतं स्यात्तत्र करणेच्छायां करिष्ये इति वक्ति, अन्यथा तु शक्नोमि, परं नाद्य मनो वर्त्तते इति, एवमाचाम्लनिर्विकृतिकैकाशनादिषु यत्र मनो भवतीति तन्मनसि निधाय पारयित्वा च कायोत्सर्ग मुखपोतिकाप्रतिलेखनापूर्वं वन्दनके दत्त्वा मनश्चिन्तितप्रत्याख्यानं विधत्ते, यत उक्तं दिनचर्यायाम्“सामाइअछम्मासः तवुस्सग्ग उज्जोय पुत्तिवंदणगं । उस्सग्गचिंतियतवोविहाणमह पच्चखाणेणं ।।१।।" "इगपंचाइदिणूणं, षणमास चइत्तु तेरदिण उट्टुं । चउतीसाइ दिणूणं, चिंते नवकारसहियं जा ।।२।।” [यतिदिनचर्या भावदेवसूरीया १३-१४] इति तदनु 'इच्छामो अणुसटुिं' इति भणित्वोपविश्य स्तुतित्रयादिपाठपूर्वं चैत्यानि वन्दते इदं च प्रतिक्रमणं मन्दस्वरेणैव कुर्यात्, अन्यथाऽऽरम्भिणां जागरणेनारम्भप्रवृत्तेः ततश्च साधुः कृतपौषधः श्रावको वा क्षमाश्रमणद्वयेन 'भगवन्! बहुवेलं संदिसावेमि बहुवेलं करेमि' इति भणति, बहुवेलासंभवीनि

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244