________________
धर्मसंग्रह लाग-4 / द्वितीय अधिकार / श्लोक-१५
१७४
चतुर्थ्यो: क्रियेते, प्रामाणिकं चैतत् सर्वसंमतत्वाद्, उक्तं च कल्पभाष्ये
“असढेण समाइण्णं, जं कत्थइ केणई असावज्जं ।
न निवारिअमन्नेहिं, बहुजणमयमे अमायरिअं । । १ । । " इति ।
तथा ध्रुवाभ्रुवभेदाद्विधा प्रतिक्रमणम्, तत्र ध्रुवं भरतैरवतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु मावा, परम् उभयकालं प्रतिक्रमणं कर्त्तव्यम्, अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणे जाते प्रतिक्रमणम्, यदाह
“सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स ।
मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ।। १ ।।” [ कल्पपंचा. ३२]
प्रतिक्रमणविधिश्चैवं प्रतिक्रमणहेतुगर्भादौ उक्तः
“साधुना श्रावकेणापि अनुयोगद्वारगत 'तदप्पिअकरणे' इति पदस्य करणानि तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नेव - आवश्यके यथोचितव्यापारनियोगेनार्पितानि=नियुक्तानि येन स तदर्पितकरणः, सम्यक्यथावस्थानन्यस्तोपकरण इत्यर्थः " इति वृत्तिः ।
तथा—“जो मुहपोत्तियं अपडिलेहित्ता वंदणं देइ, तो गरुअं तस्स पायच्छित्तं” इति व्यवहारसूत्रम् । “पोसहसालाए ठवित्तु ठवणायरियं मुहपत्तिअं पमज्ज तो सीहो गिण्हइ पोसहं" इति व्यवहारचूलिका । “पावरणं मोत्तूणं, गिण्हित्ता मुहपोत्तिअं ।
वत्थकायविसुद्धीए, करेइ पोसहाइअं ।।१।।”
इति च व्यवहारचूर्णिरित्येवमादिग्रन्थप्रामाण्यात् मुखवस्त्रिकारजोहरणादियुक्तेन द्विसन्ध्यं विधिना प्रमार्जितादौ स्थाने जातु तदभावेऽपि ससाक्षिकं कृतमनुष्ठानमत्यन्तं दृढं जायत इति गुरुसाक्षिकं तदभावे च नमस्कारपूर्वं स्थापनाचार्यं स्थापयित्वा पञ्चाचारविशुद्ध्यर्थं प्रतिक्रमणं विधेयम् ।
अत्राह कश्चित् - ननु
“गुरुविरहंमि उ ठवणा, गुरूवएसोवदंसणत्थं च ।
जिणविरहमि व जिणबिंबसेवणामंतणं सहलं । । १ । । "
इत्यादिविशेषावश्यकवचनप्रमाणात् यतिसामायिकप्रस्तावे भदन्तशब्दं व्याख्यानयता भाष्यकृता साधुमाश्रित्य स्थापनाचार्यस्थापनमुक्तं न श्रावकमाश्रित्येति कुतस्तेषां स्थापनाधिकार इति चेन्न, भदन्तशब्दं भणतां तेषां स्थापनाचार्यस्थापनं युक्तमेव, अन्यथा भदन्तशब्दपठनं व्यर्थमेव स्यात्, अथ च स्थापनाचार्यस्थापनमन्तरेणापि वन्दनाद्यनुष्ठानं विधीयते, तदा वन्दनकनिर्युक्तौ-‘आयप्पमाणमित्तो,