________________
१७३
धर्मसंग्रह भाग-4 /द्वितीय अधिकार | लोs-१५ इत्थमेव च वक्ष्यमाणः प्रतिक्रमणविधिर्घटते ।
तच्च प्रतिक्रमणं दैवसिक १ रात्रिक २ पाक्षिक ३ चातुर्मासिक ४ सांवत्सरिक ५ भेदात्पञ्चविधम्, तत्र दिवसस्यान्ते दैवसिकमेतस्य कालस्तूत्सर्गेणैवमुक्तः
“अद्धनिबुड्डे बिंबे, सुत्तं कटुंति गीअत्था । इअ वयणपमाणेणं, देवसिआवस्सए कालो ।।१।।" [यतिदिनचर्यायाम् ३२४] रात्रेरन्ते रात्रिकं, तस्य चैवं काल:“आवस्सयस्स समए, निद्दामुदं चयंति आयरिआ । तह तं कुणंति जह दसपडिलेहाणंतरं सूरो ।।१।।" अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धरात्रं यावत्, योगशास्त्रवृत्तौ, तु'मध्याह्नादारभ्यार्द्धरात्रं यावदि'त्युक्तं, रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत्, उक्तमपि"उग्घाडपोरिसिं जा, राइअमावस्सयस्स चूलाए । ववहाराभिप्पाया, तेण परं जाव पुरिम8 ।।१।।"
पाक्षिकादित्रयं तु पक्षाद्यन्ते भवति, तत्रापि पाक्षिकं च चतुर्दश्यामेव, यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात्, तथा च ‘अट्ठमछट्ठचउत्थं, संवच्छरचाउमासपक्खीसु' [ ] इत्याद्यागमविरोधः तथा यत्र चतुर्दशी गृहीता तत्र न पाक्षिकम्, यत्र च पाक्षिकं न तत्र चतुर्दशी, तथाहि-'अट्ठमीचउद्दसीसु उववासकरणमिति' [ ] पाक्षिकचूर्णो, तथा 'सागरचंदो कमलामेलावि सामिपासे धम्मं सोऊण गहिआणुव्वयाणि सावगाणि संवुत्ताणि, तओ सागरचंदो अट्ठमिचउद्दसीसु सुण्णघरेसु मसाणेसु एगराइ पडिमं ठाइ' इति । 'सो अट्ठमिचउद्दसीसु उववासं करेइ' [ ] इति । 'अट्ठमिचउद्दसीसु अरहंता साहुणो अ वंदेअव्वा' इति चावश्यकचूर्णी । .
तथा-'संते बलवीरिअपुरिसक्कारपरक्कमे अट्ठमिचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासिए चउत्थछट्ठट्ठमे न करिज्जा पच्छित्तं' [ ] इति महानिशीथ १ अध्ययने, इति पाक्षिककृत्योपलक्षितचतुर्दशीशब्दप्रतिपादकाक्षराणि] तथा
‘चउत्थछट्ठट्ठमकरणे अट्ठमिपक्खचउमासवरिसेसु' इति व्यवहारभाष्यषष्ठोद्देशके च, ‘पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेअव्वं [ ] इत्यादिव्याख्यायां वृत्तौ चूर्णां च पाक्षिकशब्देन चतुर्दश्येव व्याख्याता, ततश्चतुर्दशीपाक्षिकयोरैक्यमिति निश्चीयते, अन्यथा तु क्वचिदुभयोपादानमपि स्यादेव । चातुर्मासिकसांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणातश्चतुर्दशी