Book Title: Dharm Sangraha Part 05
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 138
________________ धर्भसंग्रह भाग-५/द्वितीय मधिर| Res-93 ૧૨૧ ___ कालविरुद्धं त्वेवं-शीततॊ हिमालयपरिसरे, ग्रीष्मत्ततॊ मरौ, वर्षासु अपरदक्षिणसमुद्रपर्यन्तभूभागेषु, महारण्ये यामिनीमुखवेलायां वा प्रस्थानम्, तथा फाल्गुनमासाद्यनन्तरं तिलपीलनम्, तद्व्यवसायादि, वर्षासु वा पत्रशाकग्रहणादि ज्ञेयम् २ । राजविरुद्धं च राज्ञः सम्मतानामसम्माननम्, राज्ञोऽसम्मतानां सङ्गतिः, वैरिस्थानेषु लोभाद् गतिर्वैरिस्थानागतैः सह व्यवहारादि, राजदेयभागशुल्कादिखण्डनमित्यादि ३ । लोकविरुद्धं तु लोकस्य निन्दा विशिष्यस्य च गुणसमृद्धस्येयम्, आत्मोत्कर्षश्च, यतः“परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ।।१।।" [प्रशमरतो १००] तथा ऋजूनामुपहासः, गुणवत्सु मत्सरः, कृतघ्नत्वं च, बहुजनविरुद्धैः सह सङ्गतिः, जनमान्यानामवज्ञा, धर्मिणां स्वजनानां वा व्यसने तोषः, शक्तौ तदप्रतिकारो, देशाधुचिताचारलङ्घनम्, वित्ताद्यननुसारेणात्युद्भटातिमलिनवेषादिकरणम्, एवमादिलोकविरुद्धमिहाप्यपकीर्त्यादिकृत्, यदाह वाचकमुख्यः“लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ।।१।।" [प्रशमरतौ १३१] तत्त्यागे च जनानुरागस्वधर्मनिर्वाहरूपो गुणः । आह च"एआइँ परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स सम्मत्ततरुबीयं ।।१।।" इति ४ । अथ धर्मविरुद्धं चैवं-मिथ्यात्वकृत्यम्, निर्दयं गवादेस्ताडनबन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाककतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढबृहद्गलनकेन सखारादिसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यगप्रवृत्तिः । अक्षतपूगखारिकवालुओलिफलकादेर्मुखे क्षेपः नालकेन धारया वा जलादिपानम्, रन्धनखण्डनपेषणघर्षणमलमूत्रश्लेष्मगण्डूषादिजलताम्बूलत्यागादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसार्मिषु विद्वेषश्चेत्यादि । तथा देवगुरुसाधारणद्रव्यपरिभोगो, निर्द्धर्मसंसर्गो, धार्मिकोपहासः, कषायबाहुल्यम्, बहुदोषः क्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिरेवमादि धर्मविरुद्धम्, देशादिविरुद्धानामपि धर्मवता आचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धतैव ५ तदेवं पञ्चविधं विरुद्धं श्राद्धेन परिहार्यमिति देशादिविरुद्धत्यागः । तथोचितस्योचितकार्यस्याचरणं-करणम् उचिताचरणम्, तच्च पित्रादिविषयं नवविधम्, इहापि

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244