________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 27 राजा--( सहर्ष--) 'नूनमतीय हरिणं हरयो वर्तन्ते / यतःयदालोके सूक्ष्म, व्रजति सहसा तद्विपुलतां, यदढे विच्छिन्नं, सवति कृतसन्धानमिव तत् / निष्कम्पा:-[चामरमिव चामरं तेषां-] चामराणां शिखा येषान्ते-रिष्कम्पचामरशिखाः = अतिशयवेगशालितया निश्चलपुच्छाग्रभागाः / निश्चलस्कन्धप्रदेशस्थकेसराग्रभागा इति वाऽर्थः। च्युताः कर्णानां भङ्गा येषान्ते च्युतकर्ण ङ्गाः = निश्चलकर्णाः, ते = तव, अमी वाजिनः = एते रथाश्वाः, वर्मनि = मार्गे, मृगजवा क्षमयेव = धावमानहरिणवेगाऽसहिष्णुतयेव, अमर्षात्-धावन्ति / 'धावन्ति वर्त्मनि, तरन्ति नु' इति पाठान्तरेतु-धावन्ति = सत्वरं गच्छन्ति नु / अथवा-तरन्ति नु = गगने प्लवन्ते नु ? / [ पश्य-पश्येति पूर्वेण सम्बन्धः ] किमिमेऽश्वा भूमौ चलन्ति, किं वा जलाशयसदृशे आकाशे प्लवन्त इति वेगातिशयान्निर्गतुं न शक्यत इत्याशयः / अत्र स्वभावोक्तिरलङ्कारः / / 8 // नूनमिति / सम्भाव्यत इत्यर्थः। हरिणमतीत्य = वेगेन मृगमुल्लङ्घय / 'हरितो हरीश्चेति पाठे-हरितः = सूर्याश्वान् , हरीन् = इन्द्रवाजिनश्चेत्यर्थो बोध्यः / 'हरितो = नीलवर्णा' निति हरिविशेषणं वा / तेन हरितो हरीन् = नीलान् सूर्याश्चानित्यर्थः / 'हरिदश्वोष्णरश्मय' इति कोशात्सूर्यस्याश्वा नीलवर्णा इति हि प्रसिद्धम् / चकारोऽप्यर्थे बोध्यः। कुत एतज्ज्ञायते ? / अत आह-यत इति / अग्रिमश्लोकेनेदं सम्बध्यते / यदिति / यत् = किमपि वस्तु वृक्षादिरूपम्', आलोके = प्रथमदर्शने / खड़ा करके, तथा अपने कानों को भी खड़ा करके, मानों हरिण के वेग को नहीं सह सकने के कारण ही, इतने वेग से भाग रहे हैं, कि-इनके अपने पैर से उड़ी हुई धूलि भी इन घोड़ों को नहीं पा सक रही है ! / भावार्थ-घोड़े जब वेग से भागते हैं, तब अपनी कनौती ( कानों) को उठा लेते हैं. और अपने शरीर को आगे की ओर बढ़ा देते हैं, और उनके आयल ( केसर ) के बाल भी खड़े हो जाते हैं // 8 // राजा-( बड़ी प्रसन्नता से- ) निश्चय ही इन घोड़ों का वेग हरिण के वेग 1 'नूनमतीत्य हरिता, हरीश्च वर्तन्त वाजिनः' / 2 'तथा हि'। 3 'यदद्धा' पा० / अद्धा - इदानीमेव /