Page #1
--------------------------------------------------------------------------
________________
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ।। कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।।
S
: सङ्कलनम् : कीर्तित्रयी उत्तरायणम् वि.सं. २०६०
नन्दनवनकल्पतरः
१२
For AVAS&P:
L
e
Only
| wwwingermelibrary.org
Page #2
--------------------------------------------------------------------------
________________
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
IONARIES
BHIRAL
UNO
:सङ्कलनम्: कीर्तित्रयी
उत्तरायणम् वि.सं. २०६०
ACPIND9999
१२
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ॥ द्वादशी शाखा | (संस्कृतभाषामयं अयन-पत्रम् ।।)
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ||
वि.सं. २०६०, ई.सं. २००४
मूल्यम् : संस्कृतसाहित्यरुचिः ॥
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद 380007 दूरभाष : 26622465
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower,
Paldi, Ahmedabad-380007 दूरभाष : 26688879
मुद्रण : 'क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद ॥ दूरभाष : 079- 27494393
Page #4
--------------------------------------------------------------------------
________________
.."O
T
.
प्रास्ताविकम् निष्ठा सा वन्दनीयैव "चलन् हि शोभते साधुः” इति न्यायाद् दक्षिणात्यप्रदेशेष्वपि विहरणं । जातमस्माकम् । पुनश्च गूर्जरदेशं प्रति प्रत्यागता वयम् । किन्तु काचित् मधुरा स्मृतिरद्यापि चित्तमान्दोलयति आनन्दयति च ।
___ संस्कृतप्रचुर: स प्रदेश: । बेंगलोरनगरे कार्यरतायाः संस्कृतभारतीसंस्थायाः साक्षात्कार: कृतोऽस्माभिः । संस्कृतनिष्ठं संस्कृतप्रीतिमयं संस्कृतसमर्पितं च वातावणं तत्राऽनुभूतम् । संस्कृतभाषाया यावच्छक्यं प्रचार एव तेषां लक्ष्यमस्ति । परन्तु प्रचारकार्यस्य व्यवसायीकरणं तु नैवाऽनुभूतमस्माभिस्तत्र । संस्कृतप्रचारकार्यमपि ते न व्यवसायं मत्वाऽपि तु स्वधर्मं मत्वा कुर्वन्ति । एतादृशस्य श्रवणमात्रेणापि रोमोद्गमो भवति तर्हि साक्षाद्दर्शनस्य तु का वार्ता ? दैवात् तादृशानां सन्निष्ठजनानां तेषां चाऽनन्यसंस्कृ तसेवायाश्च दर्शनस्य सौभाग्यमस्माभिः प्राप्तम् । दृक्सौहित्यकरो हृत्सन्तर्पश्चाऽयमनुभवः ।
__ 'आचरणात् सिद्धि'रिति न्यायात् ते स्वकीयगृहेऽपि परस्परं संस्कृतमाध्यमेनैव वार्तालापं व्यवहारं च कुर्वन्ति । तेषां बालका अपि तथैव व्यवहरन्ति । आश्चर्यमनुभूयते खल्वेतज्ज्ञात्वा ? सत्यम्, आश्चर्यमेव स्यात्, यतो देशकालानुगुणे वेशे समुत्सुका वयं त्वस्माकं मूलं वेशभूषाभाषादिकमपि विस्मृतवन्तस्तत्र संस्कृतशिक्षणस्यैतादृशी वार्ता त्वाश्चर्यमेव जनयेत् । कस्य वा पुरतः सा करणीया ? क्रियेत चेदपि भित्त्या शिरःस्फालनमिव निष्फलं दुःखदमेव वा स्यात् । भवतु - यदस्ति ।
तत्र प्रवर्तमाना कार्यप्रणालिर्व्यवस्था चाऽपि निरीक्षणीयाऽनुसरणीया च । पत्राचारमाध्यमेन सम्भाषणशिबिरमाध्यमेन च ते संस्कृतं पाठयन्ति । यथा विद्यार्थिनामुत्साहो वर्धेत तथा सरलया रीत्या सरसरीत्या च ते पाठयन्ति । अधुनैव
64*60TRISISTEISSISTRITION
4
+
For Private Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
दिल्लीदूरदर्शनकेन्द्रेण ज्ञानदर्शनचेनलद्वारा तेषां सम्भाषणशिबिरस्य क्रमशः प्रसारणं कूतमासीत् । अन्यन्तं गौरवस्य विषय एषः । संस्कृतभाषां ते जननीमिव सेवन्ते । लोकहृदये संस्कृतं प्रतिष्ठितं स्यादित्येतदेव ते स्वपरिश्रमस्य मूल्यं फलं च गणयन्ति । तत्फलरूपेण च तत्र प्रदेशे यदा-यदा संस्कृतनाटकानामायोजनं भवति तदा तदा शतशो संस्कृतप्रेमिणो जनास्तद् द्रष्टुं गच्छन्ति । एतादृशी सा तेषां निष्ठा वन्दनीयैव । इति शम्। वि.सं. २०६०
-- कीर्तित्रयी वैशाखशुक्लतृतीया (अक्षयतृतीया) थाणा (मुंबई)
2990
सूचना
पूर्वं सूचितमासीदस्माभिर्यत् 'इतः परं सन्धिरहितमेव साहित्यं प्रेषणीय मिति । प्रथमं तावत् तद् मुद्रणसौलभ्यमेव मनसिकृत्य सूचितमासीत्, न केवलं वाचकानां पठनसौलभ्यमित्यवधार्यम् । किन्तु बहूनां विद्वज्जनानामभिप्राय एवं जातो यत् 'सन्धिसहितस्यैव साहित्यस्य प्रकाशनं वरम्, अन्यथा संस्कृतसाहित्यात् सन्धिः कदाचित् विस्मृताऽपि स्यात्-इति । अतो मुद्रणदुष्करतामङ्गीकृत्याऽप्यस्माभिः पूर्वतन एव पन्थाः समाश्रितोऽस्ति । अतोऽतः परं सन्धिसहितमेव साहित्यं प्रकाशयिष्यते इति ज्ञेयम् ।
265
www.jainelibrary.dg
Page #6
--------------------------------------------------------------------------
________________
श्रीशिवनारायणः शास्त्री
2152/13 हुडा, भिवानी-127021 (हरि०)
वाचकानां प्रतिभावः
विजयशीलचन्द्रसूरिवरस्य, चरणशरणमुपगत एषोऽहम् । वन्दे शिवनारायणनामा, नन्दनवनकल्पतरुमथ वाप्य ॥ विक्रमसंवत्षष्टितमस्य, शाखामेतां कल्पितशोभाम् । सुरवरवाणीकलशुभगुञ्जनमधुरमनोरमश्रुतिसुखसुलभाम् ॥ रुचिरमनोहरनीतिवचांसि, पूज्यतपोनिधिचरितशुभानि । कर्णरसायनसुरभितमानि, पठति मनो मे जीवनदानि ॥ नृत्यति हर्षितचित्तमयूरः, सुरवरवाणीनभसि विहारी । रचनामेघविलोकनमत्तः, प्रणमति शिवनारायणशास्त्री ॥
- शिवनारायणः शास्त्री
।
ALDINES
H
-5
Page #7
--------------------------------------------------------------------------
________________
मुनिविश्रुतयशविजयः
वाचकानां प्रतिभावः
नन्दनवनकल्पतरोरेकादशी शाखा प्राप्ता । पठनादतीवाऽऽनन्दो जातः । सम्पूर्णं पठित्वा रसभरा नैके विषया आस्वादिताः ।।
द्रव्यानुयोगविदां पूज्याचार्यश्रीधर्मधुरंधरसूरीश्वराणामध्यात्मसारानुगमस्तु संक्षेपरुचीणां जिज्ञासूनां कृतेऽतीव लाभदायी अस्ति ।। तथैवाऽष्टादश-पापस्थानकालोचनाशतकमपि प्राञ्जला रचनाऽस्ति । योगबिन्दुदोहनं पठित्वा विंशतेरेकोनविंशतेर्वा वर्षेभ्यः पूर्वं यत्पठितं तत्स्मृतिपथमागतम् । तद्गतोऽतीव महत्त्वपूर्ण एकः श्लोकोऽद्याऽपि स्मर्यते
"आत्मीयः परकीयो वा, कः सिद्धान्तो विपश्चिताम् ।
दृष्टेष्टाबाधितो यस्तु, युक्तस्तस्य परिग्रहः ॥” इति ।
यत्नः प्रशंसनीय एवाऽस्ति । नमिप्रव्रज्याऽपि वैराग्यवर्धिकाऽस्ति। चिन्तनधारायाः तात्पर्य तु सर्वस्मिन् स्थाने विधायकदृष्ट्या प्रवर्तनीयमित्यत्राऽस्ति। अहो बुद्धिमत्ता तु व्यङ्गयकथा प्रतिभाति । प्राज्ञपुरुषस्य उत्तराः रङ्गमञ्चश्चेति कृतिद्वयमप्युत्तमम् । पत्रेऽपि चिन्तनं सम्यगस्ति । आहत्य सम्पूर्णोऽयमको रुचिकरोऽस्ति, इति ।
ttt.
HAIRAOGroDNA
6
Page #8
--------------------------------------------------------------------------
________________
भवद्भिः सम्पादिता नन्दनवनकल्पतरोरेकादशी शाखा प्राप्ता । यथा यथाऽहं पठामि तथा तथा मम भाव उल्लसितो भवति । युष्माकमिदं कार्यं नूतनसंस्कृतशिक्षितानां कृतेऽतीवोपयुक्तमवश्यमेव भविष्यति ।
अस्यां शाखायां काव्यानि त्वद्भुतानि सन्ति । कथादिकमपि बालादीनां कृते उपयोगाय भविष्यति । युष्माकमेष यत्नः सफलो भवत्विति मेऽभिलाषा ।
मुनिभाग्यचन्द्रविजयः
वाचकानां प्रतिभावः
नन्दनवनकल्पतरोरवलोकनेनैव तद्दिव्यं स्वतः प्रमाणं सौन्दर्य पाठकचित्तमञ्जसा ह्यावर्जयतीति नाविदितं त्वधुना गुणैकपक्षपातानां संस्कृतसाहित्यसहृदयानाम् । कर्मणा भारतीयदर्शनच्छात्रस्तदध्यापकश्चास्मि । कल्पतरुलेखेषु तत्र तत्र दर्शनबीजानि सदङ्कराणि समवेक्ष्य समवधानशीलो बुभूषामि।
अन्ते श्रीमद्भयो मुनिवरेभ्यः श्रीविजयशीलचन्द्रसूरिमहाभागेभ्यः प्रणामाञ्जलिनिवेदनपुरःसरं विरमामि । भवतां श्रेयःकुशलक्षेमम् अर्हति भगवति प्रार्थयमानो ।
भवदीयः सुरेन्द्रमोहनमिश्रः
कुरुक्षेत्रम्
Page #9
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
प. पद्मनाभः 18/198. C, Nithya Kalyani Mammiyoor, Guruvayoor (Po.)
Thrissur (Di.) KERALA
आत्मीयबन्धो ! सादरनमस्काराः ।
भवद्भिः प्रेषितो नन्दनवनकल्पतरुः प्राप्तः । वस्तुतो महानानन्दस्तथाऽऽश्चर्य इवाऽभवत् ।
पुस्तकमिदं मह्यं बहरोचत । एकैकोऽपि लेखो बुद्धेः पोषकोऽस्ति । एतावद् बृहत्पुस्तकं कथं भवद्भिर्विना मूल्यं प्रेष्यते, इत्येवाऽहं नाऽवगच्छामि ।
मर्म-नर्म, नाटकम्, व्यङ्ग्यकथा, अष्टादशपापस्थानकालोचनाशतकं च मह्यं बहूपकारप्रदमजायत । संस्कृतभाषोपासकानां सर्वेषामपि भारतीयानामानन्ददायकं भवतीदं पुस्तकम्।
- एतादृश्युत्तमकार्ये संस्कृतमातुः सेवकानामस्मादृशानां साहाय्यं प्रार्थना च सर्वदा भवत्येव ।
For Private 3ersonal Use Only
Page #10
--------------------------------------------------------------------------
________________
|
Ot) वाचकानां प्रतिभावः
वीर, पूज्यमुनिपुङ्गवत्रितयाय हार्दाः प्रणती: विधाय लेखनमिदं प्रस्तुवे
एकादशी नन्दनवनकल्पतरोरावृत्तिः मया अधिगता । तदर्थं बहवो धन्यवादाः । तत्र प्रबन्धाः सर्वेऽतीव मनोज्ञा विचारपूर्णा च विराजन्ते । सन्धिरहितलेखनविषये मे मन्तव्यं किञ्चिन्निवेदयामि । वाचकानां सुकरतासंपादनाय अयं प्रयोग इति स्पष्टम् । एवमपि अनेन वाचकानां तथैव पत्रिकाया अपि भाषाप्रौढिमायाः संवर्धनस्य स्थाने हास एव संभवितेति मे मतिः । कालेन संस्कृतं सन्धिरहितमेव, सन्धिसहितं संस्कृतं तावन्नास्तीति अल्पतृप्तो वाचकवृन्दो निश्चिनुयात् । अश्वत्थामा किल बाल्ये मात्रा हीनविभवया दुग्धस्य स्थाने पिष्टमिश्रितसलिलेन संवर्धितः । वर्धमानोऽसौ लब्धश्रीमत्कौरवाश्रयः प्राप्तविभवो मात्रा प्रदत्तं दुग्धं तिरस्कृत्य तदेव 'नैजं दुग्धं' (पिष्टमिश्रितसलिलं) ववाञ्छ । वाचकानामेषा दुःस्थितिर्माभूदिति मे आशयः।
काचित् किल माता उल्लङ्घनस्पर्धालोः स्वपुत्रस्य कष्टपरिजिहीर्षया मीटरद्वयं नियतमौनत्यं हासयित्वा साधैंकमीटरमितं व्यधात् । अनेन मातृविहितेन सहायेन बालस्य उल्लङ्घनाभ्यासः सुकरः सञ्जातः । परं स्पर्धायां तु वराक: पराजितः ।
ईदृश्या दुःस्थितेः वारणाय पत्रिकाया द्वित्रासु आवृत्तिषु सरलः सन्धिपाठोऽर्थात् प्रमुखानां सन्धिप्रक्रियाणां परिचयः प्रदीयताम्, येन वाचकाः सन्धिसहितस्य संस्कृतस्य मनोज्ञतामास्वादयेयुः, प्रौढिमाञ्च सन्दध्युः ।
एकादशे नन्दनवनकल्पतरौ मुनिरत्नकीर्तिविजयलिखितं "तदपि न मुञ्चत्याशापिण्ड''मितीदं लेखनमतिमार्मिकं, हृदयस्पर्शि, बोधप्रदं च वरीवर्ति ।
सप्रेम, सविनयं • ब्रह्मानन्देन्द्रसरस्वती
For Private Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
अनुवाद: जिनस्तवनम् श्रीवीरचित्रस्तुतिः
अन्तलब्धिनिधान
| श्रीगौतमस्वामिगुणाष्टकम् ।
श्रीशारदाष्टक.....
हंसान् / हंसं प्रति
वर्षाला म सुभाषितानि
आभाणकजगन्नाथः
For Private Oersonal Use Only
000000000000
कर्ता
मुनिधुरन्धरविजयः
पं. अमृत पटेलः १०
आचार्यविजयहेमचन्द्रसूरि : १३
मैथिल पं. जगदीशः झा
प्रा. जगन्नाथपाठकः
डॉ. सुरेन्द्रमोहन मिश्रः
पृष्ठम्
शास्त्री व्रजलाल उपाध्यायः
एस्. जगन्नाथ:
१५
१७
२०
३७
३९
Page #12
--------------------------------------------------------------------------
________________
अनुक्रमः DAMOMWWWWWWWWWWWWom कृतिः
कर्ता
पृष्ठम्
स्वाध्यायी अनुयोगाधिकारी
मुनिरत्नकीतिविजयः ५२ ।
नमिप्रव्रज्या
- मुनिकल्याणकीर्तिविजयः ।
आस्वादः शान्तिः ।
आ.राजयशसूरिः ६०
अहिंसा
मुनिविश्रुतयशविजयः ६२
चिन्तनधारा
मुनिरत्नकीर्तिविजयः ६४
शार्या धाम: - अहिंसा
मुनिधर्मकीर्तिविजयः ६६ ।
पत्रम
मुनिधर्मकीर्तिविजयः ८०
For Priv11 & Personal Use Only
www.jalnelibrary.org
Page #13
--------------------------------------------------------------------------
________________
अनुक्रमः कृति:
कथा
मर्म -नर्म
प्राकृतविभागः
VVV
खान्यसमीक्षा अभिधानचिन्तामणिनाममाला डॉ. रूपनारायणपाण्डेयः
कीर्तित्रयी ८८
नाटकसुधातरङ्गिणी
वास्तवं मित्रम्
प्राधान्यं कस्य ? Hond
मंगलमालापराभिहाणं ।। *सिरिसिद्धचकुथोत्तं ।।
00000000000000
For Private 12rsonal Use Only
कर्ता
पृष्ठम्
1
मुनिधर्मकीर्तिविजयः
८५
मुनिरत्नकीर्तिविजयः १९१
कीर्तित्रयी
९२
९७
आ.विजयपद्मसूरिः १०१
Page #14
--------------------------------------------------------------------------
________________
Cobo
अनुवाद:
जिनस्तवनम्
मुनिधुरन्धरविजयः समृद्धि एपार्टमेन्ट चंदननी पाछळ, हाई-वे नवा डीसा (उ. गुजरात)
ऋषभदेव - चैत्यवन्दन
कल्पवृक्षनी छांयडी, नानडियो रमतो । सोवनहिंडोले हिंचतो, माताने मनगमतो ॥१॥ सौ देवो बालक थया, ऋषभजी केडे । व्हाला लागो छो प्रभु, हैडा शुं भीडे ॥२॥ जिनपति यौवन पामीया, भावे शुं भगवान । इंद्रे घाल्यो मांडवो, विवाहनो सामान ॥३॥ चोरी मांडी चउदिशि, सुरगौरी गावे । सुनंदा सुमंगला, प्रभुजीने परणावे ॥४॥ भरते बिंब भरावीयाए स्थाप्या शत्रुंजय गिरि राज । श्रीविजयप्रभसूरि महिमा घणो उदयरतन गुण गाय ॥५॥
For Private Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
७.०७
ऋषभदेवचैत्यवन्दनम्
कल्पतरोः शीतलतले, बालजिनो रमते । कनक दोलया दोलयन्, मातृमनो हरते ॥१॥ शिशुभूय देवीगणो, नाभिजमुद्वहते । उक्त्वा बहुवल्लभ इति, हृदयेऽपि संवहते ॥२॥ सुन्दरयौवनसङ्गतः, सञ्जातो भगवान् । चर्यं विवाहमण्डपं मघवा मण्डितवान् ॥३॥ चङ्गा बद्धा चत्वरी, सुरगौर्यो गायन्ति । सुनन्दां सुमङ्गलां, विभुमुद्वाहयति ॥४॥ त्यक्त सकलसङ्गो -ऽभवत्केवलज्ञानाय । प्राप्तं शिवपदमष्ट - कर्ममण्डलमपहाय ॥५॥ भरतेश्वरनृपनिर्मिते, संस्थित ! चैत्ये तुङ्गे । सार्वधुरन्धर ! जय सदा, शत्रुञ्जयशृङ्गे ॥६॥
20
Page #16
--------------------------------------------------------------------------
________________
ऋषभदेवस्तवन प्रथम जिनेश्वर प्रणमीये, जास सुगंधी रे काय, कल्पवृक्ष परे तास इंद्राणी नयन जे, भुंग परे लपटाय. प्र० १ रोग उरग तुज नवि नडे, अमृत जे आस्वाद, तेहथी प्रतिहत् तेह मानुं कोई नवि करे, जगमां तुमशुं रे वाद. प्र. २ वगर धोई तुज निरमली, काया कंचनवान, नहि प्रस्वेद लगार तारे तुं तेहने, जे धरे ताहरूं ध्यान. प्र. ३ राग गयो तुज मन थकी, तेहमां चित्र न कोय, रुधिर आमिषथी राग गयो तुज जन्मथी, दुध सहोदर होय. प्र. ४ श्वासोच्छ्वास कमल समो, तुज लोकोत्तर वाद, देखे न आहार-नीहार चरम चक्षु धणी, अहवा तुज अवदात. प्र. ५ चार अतिशय मूलथी, ओगणीश देवना कीध, कर्म खप्याथी अग्यार चोत्रीश एम अतिशया, समवायांगे प्रसिद्ध. प्र. ६ जिन उत्तम गुण गावतां, गुण आवे निज अंग, पद्मविजय कहे एह समय प्रभु पालजो, जेम थाउं अक्षय अभंग. प्र. ७
For Private
Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Mala
DAPO
प्रणमत....
प्रणमत....
ऋषभदेवस्तवनम् प्रणमत प्रथमजिनेश्वरम्, देहे सुरभिमति, कल्पतराविच यस्य शचीनयनद्वयं, भृङ्ग इवाऽऽपतति ॥१॥
अमृतरसभास्वादिनं, रोगोरगजातः, मा नोपद्रवते त्वां हत इव, सुधया खलु, दूरे सञ्जातः ॥२॥
कायाऽधौतशुचिस्तव, काञ्चनकान्तिकला, LD स्वेदेनोज्झित ! तारयसे तान् ये सदा, ध्याने तेऽविचलाः ॥३॥ प्रणमत....
तव मनसो रागो गत-स्तस्मिन् किं नव्यं, गतरागं रुधिरामिषमप्यपि देव ! ते, क्षीरसमं भव्यम् ॥४॥ श्वासः कमलसुगन्धिक-स्तव लोकोत्तरितं, दृश्यौ नैवाऽऽहारनीहारौ मानवैर्दिव्यमहो ! चरितम् ॥५॥
प्रणमत.... चतुरोऽतिशयाः मूलतः, सौर निधिविधवः(१९), SW कर्मक्षयतो रुद्रमिता:(११) युगभुवि(३४)मिताः, सर्वेऽतिशयाः वः ॥६॥ प्रणमत....
जिनपोत्तमगुणगानतः, सगुणं निजमङ्ग, पद्मपदार्पय देव! धुरन्धर! ते पद-मक्षयमविभङ्गम् ॥७॥
प्रणमत....
प्रणमत...
VIIIM
For Private & Oersonal Use Only
Page #18
--------------------------------------------------------------------------
________________
सीमंधर जिन चैत्यवंदन श्रीसीमंधर वीतराग, त्रिभुवन उपगारी, श्रीश्रेयांस पिता कुळे, बहु शोभा तुमारी (१) धन्य धन्य माता सत्यकी, जेणे जायो जयकारी, वृषभ लंछने विराजमान, वंदे नरनारी (२) धनुष पांचसे देहडीओ, सोहीओ सोवन वान, कीर्तिविजय उवज्झायनो, विनय धरे तुम ध्यान (३)
सीमन्धरजिनचैत्यवन्दनम् श्रीसीमन्धर ! वीतराग !, त्रिजगदुपकारिन् ! । श्रीश्रेयांसपितुः कुले, बहुशोभाकारिन् ! ॥१॥ धन्या माता सत्यकी, जातो यया जयकारी । वृषभाङ्केन विराजितं, वन्दते ननारी ॥२॥ धनुःपञ्चशतमानतनु, त्वां कनकोपकान्ते ! । ध्यायति विनयः कीर्तिविजयवाचक शिशुरेकान्ते ॥३॥ तव भद्रङ्करदर्शनं, महायशो विमलम् । 7 | धर्मधुरन्धर ! देव ! मे देहि सदाऽविकलम् ॥४॥
For Prival & Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
-
करू
-OOK
सीमन्धरजिन स्तवन सुणो चंदाजी, सीमंधर परमातम पासे जाजो, मुज विनतडी, प्रेम धरीने एणी पेरे तुमे संभळावजो. जे त्रण भुवननो नायक छ, जस चोसठ इंद्र पायक छ, नाण दरिसण जेहने क्षायक छ - सुणो० (१) । जेनी कंचनवरणी काया छ, जस घोरी लंछन् पाये छे, पुंडरिकिणी नयरीनो राया छे- सुणो० (२) बार परषदा मांही बिराजे छ, जस चोत्रीश अतिशय छाजे छे, गुण पांत्रीश वाणीजे गाजे छे- सुणो० (३) भविजनने जे पडिबोहे छे, तुम अधिक शीतल गुण सोहे छे, रूप देखी भविजन मोहे छ- सुणो० (४) तुम सेवा करवा रसीयो छु, पण भरतमां दूरे वसीयो छु, महा मोहराय कर फसीयो छु- सुणो० (५) पण साहिब चित्तमां धरीयो छे, तुम आणा खड्ग कर ग्रहीयो छे, तो कांईक मुजथी डरीयो छे- सुणो० (६) जिन उत्तम पूंठ हवे पूरो, कहे पद्मविजय थाउं शूरो, तो वाधे मुज मन अति नूरो - सुणो० (७)।
HAID)
AMERIA
For Private Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
-
488
सीमन्धरजिनस्तवनम् शृणु शशधरजी, सीमन्धरपरमेश्वरपाचे गम्यताम्, रजनीश्वरजी, एवं मम विज्ञप्तिं प्रीत्या कथ्यताम् । यस्त्रिभुवननायकतां दधति, यस्याऽग्रे धावति शक्रततिः, यः क्षायिकदर्शनज्ञानपतिः ॥१॥ शृणु...... यः काञ्चनकान्तिकलितकायः, वृषभाडितपादो निरपायः, पुण्डरिकिणीमहानगरीनायः ॥२॥ शृणु.... द्वादशपर्वत्सु यो वसति, चतुरनला(३४)तिशयैरुलसति, वाणी व्रततत्त्व(३५)गुणैर्लसति ॥३॥ शृणु... भविलोकान् यः प्रतिबोधयति, यत्समता शीतलता जयति, भव्या यं वीक्ष्य विमुह्यन्ति ॥४॥ शृणु.... तव सेवायामहमुत्सुकितः, अपि दूरे भरते संवसितः, हत मोहराजकरसंपतितः ॥५॥ शृणु.... त्वं देवो मनसि मया धरितः, आज्ञाखड्गस्तव करवरितः, तेनाऽयं किञ्चिद्दरदरितः ॥६॥ शृणु.... मम पूरय जिनपोत्तम वीर्य, हृदि पझे येन लभे शौर्य, वर्द्धत यथा तेजोवर्यम् ॥७॥ शृणु.... | प्रेमामृतरामरमां वहता, भव्याङ्गिजने भद्रङ्करता, 7 Lधार्योऽहं धर्मधुरन्धरता ॥८॥ शृणु....
NENam WIAyi
For Private
Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Dono
KAYAVA
जिन चैत्यवंदन परमेसर परमातमा, पावन पमिट्ट, जय जगगुरु ! देवाधिदेव ! नयणे में दिट्ठ (१) अचक अकल अविकार सार, करुणारस सिंधु, जगति जन आधार एक, निष्कारण बंधु (२) । गुण अनंत प्रभु ताहराओ, किमही कह्या न जाय, राम प्रभु जिन ध्यानथी, चिदानंद सुख थाय (३)
जिनचैत्यवन्दनम् परमेश्वर ! प्रमात्मनयि !, पावन ! प्रमेष्ट ! । भुवनगुरो ! देवाधिदेव !, जय नयनैर्दृष्ट ! ॥१॥ अचलाकलाविकारसार !, करुणारससिन्धो ! जगदेकाधारस्वरूप !, निष्कारणबन्धो ! ॥२॥ गुणा अनन्तास्ते प्रभो !, कथमपि नहि कथयेयुः ।
राम ! प्रभो ! ते ध्यानत-श्चिदानन्दसुखमीयुः ॥३॥ | करुणासागर ! देव ! ते, भद्रकरचरणम् । |L भविकानां भवनीरधौ, भवतु धुरन्धरणम् ॥४॥
VIANTIDIA
Page #22
--------------------------------------------------------------------------
________________
जिन स्तवन जिन तेरे चरणकी शरण ग्रहुँ, हृदय कमलमें ध्यान धरत हुं, शिर तुज आण वहुं, जिन० (१) । तुम सम खोळ्यो देव खलकमें, पेख्यो नहि कबहुं, तेरे गुणकी जपुं जपमाला, अहनिश पाप दहुं. जिन० (२) मेरे मनकी तुम सब जाणो, क्या मुख बहोत कहुं, कहे जसविजय करो त्युं साहिब, ज्युं भवदुःख न लहुं. जिन० (३)
जिनस्तवनम् जिनवर ! तव चरणौ शरणं, ध्याये हृदयकजे त्वां कुर्वे, शिरसि वचनवरणम् ॥१॥ नाऽदर्शि तव सदृशो देवो, भ्रमता भुवनगणं, तव गुणजपमालां प्रजपेऽनिश-मघदाहं करणम् ॥२॥ किं नु वदे वदनेन न वेत्सि ?, ममकान्तःकरणं, यशोधुरन्धर ! तत्कुरु न लभे, यद्वदुःखकणम् ॥३॥
NN
For Private
Personal Use Only
.
Page #23
--------------------------------------------------------------------------
________________
श्रीवीरचित्रस्तुतिः
.
.
A
२९
.
९
___पं. अमृत पटेल: २०३-बी, एकता एवेन्यु, .
बेरेज रोड- वासणा,
अहमदाबाद - ३८०००७ त्वयि त्रातरि विश्वेषां, विश्वेऽस्मिन् विश्वशङ्कर ! । विश्वा श्वसिति सोल्लासं, पद्मवद् भारवति प्रभौ ॥१॥
धर्मदाडलं प्रभो ! धर्म, मम विशुद्धतां कुरु । __ वसाडतोऽन्तर्मम त्वं हि, त्वं हि ममत्वनाशनः ॥२॥ सञ्चारो लीन-सच्चित्ते, धर्मस्य मुक्तिकारणम् । धर्मगजवरे चित्त-स्थैर्य चाऽहळूतिं विना ॥३॥
इन्द्रियार्थे त्वहङ्कार-त्यागो लक्षणमात्मनः ।
स्थैर्य धर्मे त्वया नाऽऽप्त !, विनेव वायुना जले ॥४॥ त्वत्का जुगोप विश्वे शं, ज्ञानश्रीधर्ममर्मभृत् । ज्ञानशाला डुढौके ऽस्यां, तेन धर्मेण भासुरा ॥५॥
त्वमेवाऽरमत्प्रोऽधीशः, सुखारेक प्रदः सदा ।
वदामश्चेति निर्माथाः द्राक् साधु साकरो भवेः ॥६॥ सदा कदर्थितोऽकाम !, वामकामनयाऽनया । दुःखदाऽहं सदा भ्रान्त्वा, श्रान्तः श्रितरत्वयिप्रभो ! ॥७॥ ये रेखाङ्किताः शब्दाः सन्ति ते भाषायामाहारादिपर्यायाः सन्ति । यथा- दाल, चारोली, चाह=चाय, गोलः-वर्तुलः, अथवाऽऽङ्ग्लभाषायां ध्येयः, अथवा गोळः =गुडः, नाज= गर्वः स्वाभिमानं वा, काजु प्रसिद्धं खादिमम्, वेश-परिधापनं कस्यचित् नायकस्य वाऽनुकरणम्, नशा-मदिरापानजन्या मदावस्था, लाडु= मोदक इति, मेवा प्रसिद्धम्, खारेक, बदाम,
द्राक्सा=द्राक्षा, साकर=शर्करा ।। २. दुःखं द्यति इति दुःखदः, तत्सम्बोधने-हे दुःखनाशन ! इत्यर्थः ।
Bf
४
..
09
For Private Orsonal Use Only
Page #24
--------------------------------------------------------------------------
________________
-
.
.
60.
(तोटकवृत्तम्) प्रभवः प्रभवाः प्रभवः प्रभवाः, प्रकराः प्रमदाः प्रकराः प्रमदाः । प्रमनोभवदाः प्रमनोभवदाः,
त्रिशलाजवरा-स्त्रिशलाजवराः ॥८॥ व्याख्या :- प्रभवः - अखिलकर्मविनाशविधावीश्वराः । प्रकृष्टः = श्रेष्ठो जगति महत्तमो भवो जन्म येषां ते प्रभवाः । 'भवः सप्ताप्तिजन्मसु' - इत्यनेकार्थः ।
पुनः प्रभवः-अखिलजगज्जन्तुजीवातुभ्यो धर्मदातृत्वात् स्वामिनः, तेषां हिते - योगक्षेमावहत्वात् । तथा प्रगतो भवः-संसारो येभ्यस्ते प्रभवाः ।
प्रकराः इति - प्रकृष्टाः कराः - प्रभा येषामिति । भास्वद्भामण्डलमण्डना F इत्यर्थः।
प्रमदाः इति - प्रकृष्ट-सर्वतो मुख्यं महत् मं-ज्ञानमाध्यात्मिकमात्मानुभूतिपरम्, अतः सर्वभूतसत्त्वहितप्रदम्, तद् ददति - प्रयच्छन्तीति प्र-म-दाः ।
पुनः प्रकराः इति - प्रकृष्टं कं-सुखं-परमशमशर्म, तद् रान्ति-प्रयच्छन्ति ये इति प्र-क-राः । अतुच्छात्मसुखदायिन इत्यर्थः । 'रांक् दाने' इति हैमधातुपाठः । तथा प्रमदाः इति-प्रणष्टः - प्रकर्षणाऽपगतो मदो-गर्वो येभ्यस्ते प्रमदाः, दर्पापदीभूता इत्यर्थः ।
पुनः प्रकृष्टं- श्रेष्ठं मनः शुक्लध्यानत्वाद् येषां ते प्रमनसो - विशदचेतसः, तथा भवं-मोक्षं यच्छन्ति ये इति भवदा-मुक्तिदातारः । ततः प्रमनसश्च ते भवदाश्चेत्युभयपदप्रधान: - Pई कर्मधारयः - प्रमनोभवदाः ।
पुनः प्रगतं-प्रकर्षेणाऽपगतं सङ्क्लेशमूलकै रागादिभिर्मनो येषां ते प्रमनसः, नष्टरागरोषमनस्त्वात् । भवं-संसारं द्यन्ति-कर्तयन्ति-विनाशयन्ति इति भवदाः । ततः प्रमनसश्च ते भवदाश्चेति प्रमनोभवदाः । अथवा, १. श्रीहेमचन्द्राचार्यप्रणीतेऽनेकार्थसङ्ग्रहे द्वितीयकाण्डे भवशब्दः श्रेयः-इत्यर्थवाचकत्वेन निदिष्टोऽस्ति ।
"भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे० " ॥५३६॥ इति । तथाऽभिधानचिन्तामणौ देवाधिदेवकाण्डे 'श्रेयो निर्वाणं' इत्यपि निर्दिष्टम् ।
00:00
For Private Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
-
ये प्रमनसः - समनसः, कषाय-विषयाल्पत्वात् समतावलीना योगिनः Sप्रशस्तमनोवाग्वपुषः सन्ति, तेषां प्रमनसां भवं द्यन्तीति प्रमनोभवदाः ।
___ पुनस्त्रिशलाभिधाया मातुर्जायन्ते ये, ते त्रिशलाजा:-त्रिशलानन्दनाः । अतोऽभिधानमभिहितं स्तुत्यानां श्रीमतां वीरजिनेश्वराणामिति । ततो वरा:-श्रेष्ठा-विश्वेष्वाप्तप्रवराः । ततस्त्रिशलाजाश्च ते वराश्चेति त्रिशलाजवराः - वीरजिनेश्वरा इत्यर्थः । ते त्रिशलाजाता भूतजातहिताः सन्तु इति क्रियापदं गम्यम् । ते कीदृशाः सन्तु ? इत्यत्रोच्यते - त्रिशलाजवराः इति - त्रयाणां शानां-सुखानां-ज्ञानदर्शनचारित्राणां परमप्रशमात्मकानां
सुखानुभूतीनां - मनोवाक्कायातीतानां साद्यनन्तस्थितिकानां पूर्णात्मतापरमाणाम् । अतः, - त्रयाणां शानां समाहारस्त्रिशम्- अतीन्द्रियं सुखमिति । तद् लान्ति प्राप्नुवन्ति जीवा यत्रेति
त्रिशलम् - परमप्रशमसुषमानन्दप्रदमिति । पुनर्न विद्यते जः - पुनर्जन्म यस्माद् यत्र वा तद्-अजम् । “अपुणरावित्ति सिद्धिगइनामधेयं ठाण' मिति शक्रस्तववचनात् । अजम् - अपुनर्भवपदं - परमशिवं, मोक्षपदं वा । त्रिशलं च तदनं चेति त्रिशलाजम्, तस्य-परमसुखसंस्थानस्य मुक्तिपदस्य वरं-वरदानं सम्पद्यते यैस्ते त्रिशलाजवरा:शिवपददातार इत्यर्थः ।
अमृतत्वं विषं याति सदैवाऽमृतवेदनात् । शत्रुमित्रत्वमायाति मित्रसंवित्तिवेदनात् ।।
[ योगवाशिष्ठम् ]
For Private
Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
-
-
अन्तलब्धिनिधानश्रीलगौलामस्वामिगणाष्टकम् ।
आचार्यविजयहेमचन्द्रसूरिः
___C/o. श्रीजितेन्द्र कापडिया १२/बी, अजन्टा प्रिन्टर्स, सत्तर तालुका सोसा.
पो. नवजीवन, अहमदाबाद-३८००१४
(हरिणीवृत्तम्) जगति विदिता ये ये भावा यथेप्सितदायिनः,
__ सुरतरुमुखास्ते सर्वे यत्तुलां न च बिभ्रति । बुधसमुदया भक्त्या नित्यं यद िमुपासते,
भुवि स जयतात् काम पूज्यो गणीश्वरगौतमः ॥१॥ तव वरगुणाम्भोधेः पारं प्रयातुमभीप्सवः,
सुरगुरुसमाः प्रोद्यत्प्रज्ञा अपीश ! न चेशते । तदपि मम हृत् त्वय्यालीनं गुणस्तवनं विना
गणपवर ! ते स्थातुं नैव क्षणं ननु शक्नुते ॥२॥ चरमजिनपत्पद्मोपास्तिस्त्वयाऽविरतं कृता,
___ सकलमुनयो भिक्षाकाले जपन्त्यभिधां तव । तव नमनतो विघ्नवातं प्रयाति लघु क्षयं,
वितरतु मयि श्रीयोगीन्द्र ! प्रसद्य शुभाशिषः ॥३॥ तव करकजाद् दीक्षां प्राप्ताः समे शिवमैयरु
स्तवकसदृशो नो कोऽप्यन्यो क्षितौ खलु दृश्यते । अथ नहि भयं किञ्चिन्मात्रं भवाद् मम विद्यते,
प्रथमगणभृत् ! यत्ते प्राप्तं पदाम्बुजसेवनम् ॥४॥
For Priva
Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
तव पदयुगे श्रेयोभूते सदा मम जायतां,
नतिरविरतं पुण्यैर्लभ्ये सुलब्धिनिधानके । निखिलभुवने तद्धि स्यात्किं यत्तव नामतो,
भवति सफल कार्यं तृणां हृदा परिचिन्तितम् ॥५॥
सुकृतविटपी मेऽद्य स्वामिन् ! प्रभूतफलोऽभवत्
दुरितततयो दूर दूरं ममाऽद्य पलायिताः । हृदि निरवधिहर्षाम्भोधिः समुच्छलितोऽद्य मे,
विमलविमलं यत्ते जातं मुखाम्बुजदर्शनम् ॥६॥ तव निरुपम रूपं दृष्ट्वाऽक्षिणी मम नृत्यत
स्तव सुचरितं श्रावं श्रावं मनो मम हृष्यति । तव गुणगणं गायं गायं मुदं रसनैति मे,
तव सुवचनं पायं पायं कृतार्थमभूज्जनुः ॥७॥ गणधरमणे ! त्वत्पादाब्जे विनम्य निवेदये,
नहि नहि कदाप्यस्मत्स्वान्तात् क्षणं वियुतो भव । वितरति मतिं त्वत्सान्निध्यं व्यपोहति दुर्मतिं,
जनयति मनः सर्वाभीष्टं तनोति निरीहताम् ॥८॥
ललितहरिणी-छन्दोयोगादिदं हि गुणाष्टकं,
विरचितमिति स्फूर्जद्भक्त्या वरेण्यगणेशितुः । गुरुवरपदाम्भोजद्वन्द्वार्चनाप्तधिया मया,
प्रथमगणभूत्-मत्रध्यात्रा सुवर्णसुधांशुना ॥॥
For Private 88 sonal Use Only
Page #28
--------------------------------------------------------------------------
________________
श्रीशारदाऽष्टकम्.....
।
।
But
।
मैथिल पं. जगदीशः झा
[अश्वधाटीछन्दः] स्फीता समस्तबुधगीता तपोव्रजमतीता खमानसगृहे भीतार्तिहृत् कुमतिशीतापनोदसमुदीतारुणायिततरा । प्रीताऽस्तु सा सपदि पीताम्बरादिसुरगीता सिताम्बुजगता वीताऽखिलेहसमधीता सदा न विपरीता कदापि भवतु ॥१॥ वीणासुनिवणधुरीणा गिरा पृथुलवीणासुमण्डितकरा क्षीणा कटौ, विधृतचीनांशुका, प्रचुरपीना ह्युरोजयुगले । दीनातिनुन् मसूणमीनाक्षिका, दुरितहीना, प्रबोधविसृजा कीनाशमीति हृतिलीना सदा पमधीनाऽस्तु मे भगवती ॥२॥ साराश्रुतेः स्फटिक हारान्विता एमृतधाराधरायितकृपा मारारिमुख्यदिविजाराधिता बृहदुदारा हृदि स्फुरतु मे । स्वाराधकस्य भवभारापहृत् तरुणताराधिपद्युतिधरा स्फारामुपेत्य दृशमारात् किरन्त्यनिशमाराध्यपादयुगला ॥३॥ बाला तथा तरुणमालाग्रणीस्तरणिजालांशुसंजयिरुचिः शालामतेरुडुपमाला महागुणविशाला सदा विजयसे । व्यालावलीसमकरालाऽसतां वरमरालारुहा शुभकरी । कालानला रिपुषु पालावलम्बिरुचिजालाऽसि साधुनिचये ॥४॥
For Prival
Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
रक्षाकरी परमदक्षा कलासु सितपक्षाग्यवाहनवती सक्षान्तिका जितविपक्षा सदाऽमृतसुभक्षादिवन्दितपदा । यक्षाधिराडपि हि पक्षाश्रयेण तव दक्षाग्रणीर्वितरणे साक्षात्कृता त्वमिह दक्षा गिरे!ऽसि मुनिमोक्षादिसौख्यददने ॥५॥ भाताऽखिलस्य वरशातादिदा मनुजजातादिसर्जनकरी धाताऽपि ते नयनपाताश्रयात् सृजति दाता च भाग्यनिवहम् । पाता हरिः सकलमाता हरो भुवनधातादिकर्मनिपुणो माता त्वमेव सहजातादिकोऽसि मम तातादिकोऽपि च गिरे ! ॥६॥ ज्ञानी भवत्यपि च मानी सदा नृपतिधानी सुखाद्यनुभवी दानी गजाश्वरथयानी तथा त्वदतुगानी नरः खलु गिरे । कानीनसूत्रचयभानी तथा दधदिदानीन्तनं सुखभरं स्थानीभवत्यपि समानीभवन् मतिनिधानीभवद्गुरुगणैः ॥७॥ यस्याउसि भाग्यभरवश्या गिरे ! मुनिनमस्याङ्घिक अयुगले ! शस्या विराजति तपस्या बुधैर्जगति तस्याऽत्र जन्म सफलम् । न स्यात् कदापि विपदस्याऽवनौ च वरिवस्या प्रसर्पिततराम् तत् स्या मदीय हृदि वश्या सदैव सरहस्या समस्तजननि ! ॥८॥ वाग्देवी पूजाविधौ तस्या भक्तिवशेन । अष्टकमेतद् विरचितं मैथिलजगदीशेन ॥७॥
HAST
For Private personal Use Only
www.jainel
Page #30
--------------------------------------------------------------------------
________________
-
Opan हंसा हंसं प्रति
TTP
NA
प्रा. जगन्नाथपाठकः
3/44, MIG झूसी इलाहाबाद-२११०१९
G
उड्डीय व गता भवन्त इत इत्येते न जानीमहे यूयं मानसनाम्नि वा सरसि नाऽस्माकं दृशां गोचराः । किं त्यक्त्वैव वसुन्धरां श्रयथ वा लोकोत्तमं ब्रह्मणः ?
किं वा पादतले निलीय वचसा देव्याः समे तिष्ठथ ? ॥१॥ यद्यप्यत्र खगान् सुपक्षतिपुटान् सद्भिः स्वरैर्मण्डितान् प्रायो नित्यमितो नदीतटगताः पश्याम एते वयम् । युष्मान् किन्तु सकूत् ववचत् तरुतले द्रष्टुं सकामा भूशं दृष्टिर्नः समुपोषितेव सुतरां क्लान्तेव नोन्मीलति ॥२॥
धन्यास्ते तव खेलितं सुललितं ये पीतवन्तो दृशा धन्यारते ननु यैः क्षणं तव शुभारावाः श्रुतिं प्रापिताः । चढूंषि श्रुतयश्च हन्त तृषितास्तिष्ठन्ति येषां सदा
ते सर्व जगतीह जीवितमृता हंस ! त्वधन्या वयम् ॥३॥ आकाशाज्यमहासरोवरगतं धीरं तरन्तं मुहुः पश्यामो निशि चन्द्रमेक मुदितं तं पौर्णमास्यां तिथौ । त्वं दृष्टः खलु पूर्वजन्मसु तदाऽस्माभिः स्मृतौ कल्प्यसे साक्षात्कार इह त्वदीय इति स प्रीणाति नः स्वात्मनः ॥४॥
पूर्णं विग्रहवत् प्रतीयत इतस्त्वय्येव सद् ब्रह्म तत् त्वय्येव स्मृतिकल्पिते मन इदं पुष्णाति शुभ्रां स्थितिम् । नीरक्षीरविवेक इत्यतिशयं ख्यातो गुणाग्रेसरस्त्वय्यस्माज्जगतो गते स नु गतो दिव्यस्त्वदीयो गुणः ॥५॥
2TA
१७
Page #31
--------------------------------------------------------------------------
________________
RAKER
SNVR
कामं नाम कदर्थयन्तु बहुधा त्वां सन्ततं वायसाः कामं नाम बका भवन्तमथवा निन्दन्तु रात्रिन्दिवम् । उच्छिन्नेऽपि जगत्यहो तव निजेऽस्तित्वे त्वमेवैकको जातो व्योमविहारिणामिह कुले सदिर्हृदि स्थाप्यसे ॥६॥
निःश्रीकाणि सरोवराणि सुबहोः कालादरे त्वां विना मनन्त्येव महोत्पलानि कलभाः कृत्वा प्रवेशं ततः । शुष्यन्मानसमेव लक्ष्यत इतो मन्ये भृशं त्वां विना
त्वं कुत्र धियसे सुहंस ! चलितं पश्येम किं तावकम् ? ॥७॥ लेखन्या विषयं विधाय सुकविरत्वां कालिदासोऽभवत् त्वां संकीर्त्य यशोऽधिकः स भवभूतिः कीर्त्यते भूतले । श्रीहर्षस्य च नैषधीयचरितं त्वय्यर्पितं वर्तते हे हंस ! त्वदधीनमेतदधुना मन्मानसं तिष्ठति ॥८॥
शोभन्ते न सरोवराणि सुतरामेतानि रे त्वां विना तेष्वेतानि महोत्पलानि नितरां क्लिश्यन्ति रे त्वां विना । निर्गच्छ त्वमदृश्यकोटरगतस्त्वां द्रष्टुकामा वयं ।
साफल्यं सकृदप्यतीव गमयाऽस्माकं दृशां सम्भवम् ॥॥ पूर्वं यानि सरोवराणि सुधिया संसेवितानि त्वया हंस्या प्रत्यहमेव येषु विहिताः सार्धं त्वया केलयः । तेषां हन्त तटेषु वासमधुना कुर्वन्त्यही वायसास्तेषां जायत एव नित्यकलहः प्राप्तैर्बकैः साम्प्रतम् ॥१०॥
कीराः सन्ति सहस्रशोऽत्र ललिताः सन्त्येव ते केकिनः पारावातशतानि शान्तमधना तिष्ठन्त्यहो लक्षशः । सन्त्येवाऽन्यखगा इतश्च विविधैर्वणैः स्त्रैर्मण्डिता अस्मान् त्वं तु न हंस ! दृश्यस इयं दुःखाकरोति स्थितिः ॥११॥
-
For Private Cersonal Use Only
Page #32
--------------------------------------------------------------------------
________________
-
+ काश्चिदार्याः
विमलातनुस्त्वदीया विमलं रे तावकं मनोराज्यम् ।
किमपि मुनेरिव मन्ये मराल ! विमलं तवाऽस्तित्वम् ॥१२॥ स्वजनाः सर्वेऽपि गता आर्जवमवलम्बितं त्वयाऽजनम् । आसीमराल ! मन्ये कश्चिदये बोधिसत्त्वस्त्वम् ॥१३॥
त्वमजातशत्रुरासीस्तथाऽपि तव शत्रवोऽभवन् बहवः ।
आगस्तव यदकाषीस्तीर्थध्वाक्षेषु विश्वासम् ॥१४॥ कस्मिन्नीडे शेषे ?, क्रीडसि कमिश्च साम्बुजे सरसि । कोऽपि न सुबहोः कालात् सन्देशहरस्तव प्राप्तः ॥१५॥
प्रकटीभवसि कदाचित् त्वं श्रीरामकृष्णरूपः सन् ।
श्रीरमणाख्यमहर्षिः संश्च कदाचित् स्फुटीभवसि ॥१६॥ धावल्यस्य पृथिव्यामसि त्वमेकः किमप्युदाहरणम् । शशिनः पूर्णस्य त्वं साम्यं बिभ्रत् क्वचिच्चरसि ॥१७॥
स्वपदं यत्र न्यस्येस्तत्रोत्पद्येत तीर्थमिति मन्ये । धर्मो मेघो वर्षेत् प्रवहेदपि पुण्यसलिला च ॥१८॥
For Private Sersonal Use Only
Page #33
--------------------------------------------------------------------------
________________
वर्षावाग्वधूटीविलास
नवघनाचगुण्ठितो भानुरिव धूम्रो दुर्मुखोऽपि सुमुखः । सरस्वती सिग्धाम्बा भद्रा स्थाणुस्तात ॐ ते पान्तु वर्षावाग्वधूटीतट्टीकामाटीकते विलासधिया । सार्वभौमोऽनवद्यः श्रीकण्ठवासी कविः पथिकः
गतार्या साss गताऽऽयेयमृत्यङ्गना प्रत्यभिजाने । दृष्टपूर्वाऽप्यपूर्वाऽभिनव-नवल-वासना- वरिवः
डॉ. सुरेन्द्रमोहन मिश्रः D- 97, कुरुक्षेत्रविश्वविद्यालयः, कुरुक्षेत्रम् (हरियाणा)
136119
रोमसु रोमसु श्यामा ललामभूताऽभिषिच्यमानाऽपि । रम्या लावण्यमयी धरावधूः सुवासा धारैः
"
રો
n
ક
॥५॥
स्खलन्त्यः प्रस्खलन्त्यो नगापगा अनग्नशिखरिभ्यो नवाः । अपि प्राच्यः प्रगल्भाः शिखरिणस्तु संयमोऽनवद्यः बाल्ये वेलोपनिषद् बालुकागृहनगरपटलखेलमयी । सा स्मृतौ पथिकीभूता वर्षया यया साssसीन्निहता अरण्यानीश्रीः शुचिना दवाशुशुक्षणिक्षतक्षामाङ्गी । योषित्सतीव वृष्ट्या नवतनुमयी पार्वती वाऽपि सरस्वत्यदभ्रधाराः स्मारयन्ति सरांसि प्लावितानि । चीता वीतकथा किं वृद्धश्रवाः श्रुतिं मण्डयति ? वर्षासिक्तोऽभिषिक्तः शतशः सहस्रशोऽपि विजने विपिने । नार्द्रीभवत्यात्मा मे किमाकल्पशोषप्रतिज्ञः ?
૫)
usu
દા
j
Page #34
--------------------------------------------------------------------------
________________
गेहाङ्गनाज्जलधारानालीषु तरङ्गिलाश्चपला बालाः । नदनदीसर:सागरांस्तत्रोत्प्रेक्ष्य नावा रमन्ते
રોગો दुर्वारलालसाकुरं प्ररोहयन्सहकारतरुमाश्लिष्टः । तरुणरतपस्वी सोढाडसूर्यंपश्यां स घननुतः शृङ्गः पृच्छति शृङ्गं शृङ्गारोऽयमसह्यानन्दच्छविः । सकलेन्द्रियभूतिधन्या मानवाः कथमिमं सोढारः વીરો प्रियङ्गुर्मदिरासखं वेष्टयत्युदानभुजपाशैः सान्द्रम् । दयिता फलिनी रोमसु स्पृशन्भाति दिग्विजयी रामः ॥१३॥ रामारामोऽधिकमिति भङ्गास्वनानुभवं भारतोक्तम् । दीप्त्या भञ्जयन्भाति मयूरः स्वपुच्छवैभवेन
॥१४॥ पथिकः पृच्छति सखायं कदाचित् त्वं सख्यभविष्यः स्वप्ने । पन्थाः पन्था न च स्यात्सत्यस्य स्यात्क्षणिको रोधः ॥१५॥ हलधरयोषा प्रीता प्रीतिमालभ्य केदारश्यामे । पतिमावेदयति मुग्धाऽलमधुना बीजवपनश्रमः ।
૨૬ો विद्याशालाभ्यः किल गच्छन्तस्ते बटवः स्यूतपृष्ठाः । जलभीतावष्यभीका खेलन्तोऽटन्तीय ग्राम्याः
॥१७॥ परम्परासश्रद्धा धौतासूचीविद्धवासःसिताः । आर्चिजीनगृहशालामनूचाना नवा उपनीताः नग्रोपकण्ठविपणिषु वर्षाजस्रधारातो रक्षन्तः । विचित्राभेद्यारतरणैर्वणिजः सम्पन्ने सुरेन्द्रभीः देवालयेषु भक्ता आर्द्रतलेषु चतुरङ्गं नाऽष्टाङ्गम् ।। विनियोज्याऽऽशु नमन्ति न कस्य च दारिदस्त्वराय ? ॥२०॥
૬૮
१. आनुशासनिके पर्वणि ।
For Private
Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
जरदष्टिर्विनिवृत्तश्चन्द्रशालायां गेहिनीं स्वां पुनः । श्रावयितुं श्रावणकथामुपरुध्यन्निवाऽऽभाति चटुलः રો रुग्णालये दीनोऽदीनां नवोढामाह्वयंस्तरुणः । वातायनादम्बुदं दर्शयन्नेत्रे निमीलति
રરો वर्षाऽमर्षं जनयति प्रोषितभर्तृका ज्वलति वर्षाः । प्रतिवेशिनीप्रीतिभीः शारदान्दारिदान्प्रतीक्षते
તરફી नवप्रव्रजितो रहसि पूर्वाश्रमस्मृतिवृत्तिं प्रावृषि । अपरामष्टुंमत्यन्तं तपत्याद्यघनविनिर्गमाय
॥२४॥ दरिद्रन्पल्लीकोणे कृशकर्षकोऽर्धाङ्गिनीम् । ब्रूते साशं दीनां सुघनोऽयं सुशस्यदो भाति
રી प्रगल्भं नभसि नभसो पद्मिनीविनिहन्ति कार्मुकसाराः । कासारेषु विलग्ना दैवं वा सुजनघनो दोषी
ર૬ संप्लवः केदारेषु लालध्यन्ते सीमा अदम्युषा । पारिप्लवा भुजङ्गाः पल्वलेषु वामाः कामं पतिताः ॥२७॥ अयोध्या योध्या जाता कठिना भूमिः पेलवा मोदते । आत्तगन्धा सुगन्धा कमेव केलिप्रमदाजीर्या ॥२८॥ माकन्दः सूतसुफलः सुसुतेवाडम्बा खलु प्रसीदतितराम् । जनानां पुष्पार्चनां वर्षा वाऽऽसारैराचष्टे
॥२९॥ अकाण्डनिर्वाचनोत्यां सभा बोधयति तत्रगुप्तनेता । मेघविद्युद्वर्षेसु सत्सु सन्तः शृण्वन्त्यमोघम्
રૂપી चूली रोदित्यनग्नी रोदित्यबला नास्त्यद्य पत्यु: श्रमः । वर्षातो नास्त्यर्जनं जलदजलमेवाऽऽहार: किल રૂ विश्वविद्यालयेऽद्य पञ्चषांश्छात्रान्विगणय्याऽऽचार्ये । गते लीलां कुर्वते यून्यो युवभिर्वर्षामिग्धाः
રૂરી
For Private &
gonal Use Only
Page #36
--------------------------------------------------------------------------
________________
-
श्यामाभ्रमध्यतोऽर्कः झटिति निःसृत्य किञ्चिद्दुष्टतया । खण्डितायाः सीमन्ते दिग्वध्वाः सिन्दूरं क्षिपति
રો सायन्तनी वेलाऽऽशा मिहिरविरहिणी सुदुःखिता भाति । अन्तर्बाष्पा लिङ्ग यते वर्षाक्त पत्रपतबिन्दुभिः मध्याह्नो विपद्यति सम्पन्न नभो मेघाडम्बरैः । विद्युद्दीपैः ढक्कया वज्रजयाऽसौ दुर्दिनराजा ।
રૂડો ज्वस्य वैभवं गात्रे पिपास्वधर: कम्पते मुहुः किंस्वित् । किन्नरे वाऽनुसन्धत्ते दिवा घने नरत्वं किन्नरी
રૂદ્દો न्यगकुर्वन्दर्दूरास्तटाकाम्भसि रन्तुकामाः प्राकृताः । वेदाभ्यासविन्यासं निष्ठ्यूतलेहा इव सुधियः ॥३७॥ जीविता धारेदानी नद्याः पोता अपि जीविताः सहसा । दुःखे भावग्राही यथा भक्तस्य सदाऽऽसन्नः ।
રૂા . पल्ली देशस्य माता तत्र श्रीर्षणसुभगा रम्या । हा उद्योगग्रस्ते नये विषं वमति घने नभः
રૂ9) पिपीलिकाण्डसञ्चरणं श्रेणीबद्धमक्षिलक्षीकृत्य । स्मृतः पक्षिलस्वामी' लोहपथगामिनी च हंसाः ૪૦નો स्वपुच्छगरिमाणं श्वाऽवद्यमालक्ष्य शिखिपुच्छमहिम्ना । बुक्कत्यसहिष्णुः किं को नाम सोढाऽवमानस्य ॥४१॥ वन्यां नदीनां वीक्ष्य व्यवस्थाभङ्गं संप्लवञ्च तटानाम् । चूणे न्यायराद्धान्तं बौद्धदृष्टिषिता सद्यः
કરી पिपीलिका अपि दृष्टाः सञ्चिन्वत्यो खाद्यं दुर्दिनाय । अपरिग्रहप्रयोगे नञर्थमीषत्परं विन्दे
કરૂ
१. न्यायभाष्यकारो वात्स्यायन: पूर्ववदनुमानव्याख्याने । २. प्रमाणव्यवस्थावादः ।
For Privaga Personal Use Only
--
Page #37
--------------------------------------------------------------------------
________________
नदीपूरे भूनागो बाढवाहितवृक्षगतो मूषकैः । न तांस्तु हिंसति हिंसा स्वमृत्युत्रस्ते कथं नाम ॥४४॥ चातकं तु प्रेक्षस्व वर्षं तपतो व्याप्तौ द्वितीयेयम् । तस्य तृतीयापवर्गे वर्षणाऽध्येति नभःसलिलम्
॥४५॥ गोग्रामः सरसोऽधुना सुरभिस्वच्छघासग्रासजिष्णुः । स जिष्णुरिव द्वितीयो ग्रामं क्रान्तो बने चरिष्णुः ॥४६॥ कपिकुलं क्लिन्नलोम कुञ्जकोटरे स्वमभिरक्षितुकामम् । किञ्चिन्निस्तब्धमिव वृत्तिमाजगरी बत तनुते
૪છો तडागान्ते शफरिका नवजलपूरसंहृष्टा नृत्यन्ति । नीचा यथा धनलाभे निपानभूमिषु प्रमाद्यन्ति ૧૪૮ अगाधजलभक्कुटेशः सकृदुदानीयाऽऽत्मानं पश्यति । स्वस्थानं पुनः प्रति गौरवं हि मानिनोऽनवद्यम् ॥४९॥ भक्त हृदि साऽऽह्लादिनी श्रीराधा कलिन्दतनयातटगा । मृदुमधुर्वेणुस्वनो वज्रनादेऽपि कर्षति चोरः वर्षाश्रीधरणीमिमां सहस्रधारायज्ञोपवीतिनीम् । धत्तेव प्रमाणयितुं स्त्रीणामुपनीतिस्वाध्यायम्'
॥५१॥ वारिदवेलालभ्यं घनकृष्णं पयोधरं पामूश्य । संशयी पूच्छति हलामालिन्दे वर्षणनिश्चयम्
॥५२॥ नभोगर्जितजागृतः शिशुतुरुरजादिन्नः सचकितम् । बिभ्यन्नीक्षते तस्याः सान्त्वयन्मुखश्रियं निरीहः
શરૂ सद्योवर्षाधारञ्चाऽऽशङ्कय दिनकरादर्शनाद्गृहिणी । इन्धनमन्तरानीय स्वस्थाऽनिलेन्धनसुखं नाऽस्याः
॥५४॥ १. पुराकाले तु नारीणां मौजीबन्धनमिष्यत इति स्मृतिः ।
गैस-चूल्लीति भाषायाम् ।
For Private & R
onal Use Only
Page #38
--------------------------------------------------------------------------
________________
वर्षाद्या ऋतयो हि मदयन्त्यदीनमितरस्मिन्स्वप्नः । प्रजातन्त्रमुपहासः प्रकृतिः सीदति पक्षाघातात् ॥५५॥ ग्रामप्रान्ते सिक्ते मृगवने कुम्भिलः सन्धिधिया । स तमसि शर्बिलशास्त्री निर्भीर्यथा दिवा राजनयी કદ્દો ग्रीष्मारिदाहविहताः पोताः प्रतापिबालुकालग्नाः । सरसाष्यधुनोन्नीता नदीषु सुजनश्रीरिद समये वासरोऽपि न व्यतीतो मुग्धा नवोढा प्रतीक्षते कान्तम् । धीवरं नावा गतं वातत्रस्तसिन्धुं कल्ये द्यावापृथिव्योमिथुनं लोकलोचनान्निगुहितुमिव घनाः ।। गाढमाच्छाद्य दिशोऽन्धाः स्वयं न कस्य सम्भ्रमो रहसि ? ॥५९॥ निम्बे फलपाको गततिक्तोऽपयशो दूरीचिकीर्षुः । परिणामेऽमृतयोगां सात्त्विकतां वाऽऽत्मनो दिशति । દુનો इयमार्या दुर्वारा दुर्वेव मनोभुवमालिङ्गन्ती । गाढगूढाशयकुटिला कुशला स्वाशीःसम्पादने स्थण्डिलमण्डले विधुः साधुवधूः' सान्द्ररक्ताभरणाणुः । लघुलघुपदैर्जिगमिषुर्वर्षाविरामेऽम्बां पतिं वा
પાદરી नवजलावेशोत्फुल्लोद्गमनशीलमीनकुलदर्शनदीप्तः । बडिशहरतस्तटाकेऽहिंसस्य स्वार्थपूरः कथम् निर्मला दिशो विदिशो वर्षाप्रसादात्कलिन्दतनया तु । कलिकालीयकुलदोषविषजर्जराऽनुदिनं सीदति
૬૪ नग्ननागोऽद्य हरितः प्रतिदृष्टान्तः खलु खल्वाटस्य । भैषज्ययोगो व्यर्थोऽव्यर्थं तु रसायनं दिविजम्
દુકો
T
१. तदाख्यया लोके प्रसिद्धा वर्षाकाले शष्पसूता कीटी ।
For Priva
Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
धनिनां क्रीडावाप्यः सद्यःसुलभपल्वलैरद्य विजिताः । सभेकडिण्डिमघोषं निर्धनार्भकानन्दोऽमन्दः
૬૬ો शाकावमूल्यसुखितो दिनश्रमिकोऽप्यद्य शाकापणेषु । कृशकण्ठवलयिवस्त्रं प्रसार्य बध्नाति द्रव्याणि
૬૦ अजावियूथ इदानीं हरिततॄणाशो न नगाग्रवनयायी । क्लेशोऽपगतोऽद्य दायी यदेन्द्रस्तदाऽक्केऽपि सम्पत्तिः । ૬૮ી भूधरेषु भूचालो वृष्टिदष्टेषु तु पथिक पथरोधः । नीलकण्ठो हि शरणमुद्दिधीर्षुर्दासं करुणः
૬૬ો गभस्तिहस्तेऽपदस्थे मेघवूत्रग्रस्ते जगति त्रस्ते । अराजकतन्त्रे बत दुर्वृत्त इव भाति खद्योतः ॥७०॥ दर्दूरदुर्दान्तरवात्कोकिलकाकलिर्लीना लोक्यताम् । ननु दुष्टभयात्सुजनः स्वजनप्रणयं न प्रकटयति गर्भाधानक्षणोऽयं हरवूषस्य गेहे गेहेऽन्वेषा । वर्षा मूषलधारा गौस्तु रज्जु छित्त्वा याता
૭૨ माता शिशुं कथयति गृहान्तरे शाययितुं कथां सहजाम् । गहनकानने कृष्णो गोवर्धनं दाधार शैलम्
કરો मध्येग्राम मन्दिरे भागवतघरे' पाठभजनध्वनिम् । भअन्निव भाति वजं हानौचित्यं रसभङ्गहेतुः
॥७४॥ दिननिशाकरग्रहणं मेघाच्छन्नं न साम्प्रतं दृश्यम् । दुर्दिनदुष्टोऽपि चरितं निजगृहजं कुशलं गोपयति ॥७५॥ उदग्रं महिलाङ्गुलं' शाकवाटिकायामवाप्तगन्धम् ।
अवाप्तपदपुरुषखरे नासा न कस्याऽवमत्री सा ? ॥६॥ काशकृत्सीये धातुपाठे Vघू निवासे इति धातोः निवासार्थे 'घर:' सिध्यति अशोकावदाने च घरिणीति प्रयोगादपि तच्छब्दसिद्धेः । भाषायां भिण्डीति कथितः आंग्ले च लेडीज़फिंगर इति शाकविशेषः ।
ASIRE
२.
For Private Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
कुष्माण्डकारुमित्रेऽलाबूकं वदतः स्फीतं वाक्यम् । पनसस्य कालो गतो वयं मुख्य-गृह-रक्षाऽमात्याः ॥७७॥ रासभोऽपि रसिकवरः सति रसे प्राकृतजनग्रहणीये । रण्डाभुग्भोगीव रजकः पयोधरेषु स्तिमितः
૭૮ द्वारिकामालोक्य कविः कृष्णरोषं प्रेक्षते शतधारम् । राधाऽदर्शनविषण्णं प्रावृषेण्यं हृतवृन्दावनम्
॥७९॥ श्रीजगन्नाथोऽधिपतिर्नीलशैलवसतिः किं पुनस्तस्य ।। वन्याहतजनतायां स खलु नूतनकल्पारम्भी
૮૦ની आसिन्धुप्राप्तिं किल व्याप्तिं शिखरिशिखरबिन्दुर्जलदजः । तित्यक्षति न कदाचिन्निःशेषश्रमाद्धि वस्तुगतिः
૮ वन्यावात्याव्याहत-व्यामोहाः सधना निर्धना अधुना । सर्वकारदत्तभुजः सुखदुःखे कस्य पुनः स्थिरे ? ॥२॥ वर्षानदीपूरे स गोबालको गोमहिषपुच्छकरः । नदी तर्ता पृष्ठेव राजाऽयति शास्तुं चरर्णभुवम् ॥३॥ शेषा मासाः काल्या दासस्य कठिना अकठिनहृदयस्य । विरहिणो वर्षारोधे कमठायन्ते त आनिर्देशम्
૮૪ો हरिहरयुगलस्येह हरितपदलक्ष्माऽऽभाति निर्वचनात् । अनिर्वचनीयजनुषौ मन्ये श्यामघनकालोऽजनि
૮૬ો पदपथप्रान्ते मिथुनं निशोपगूढं वृक्षाश्रयबद्धम् । सद्यो विद्युद्वर्षाहतं हा दरिद्रमनोवल्ली
૮૬ો तथाऽपि माता तुलसी वर्षासु सिञ्चति धर्मकामाढ्या । पुत्रा भवन्तु योग्याः पतिश्च सुखी कीर्त्याउनवद्यः ॥७॥
१. गोचारणभूमिः ।
For Private
Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
अपूपपायसभोजि तैलाक्तशृङ्गं वनमालाशोभि । गोकुलमद्य पूज्यं हि बलभद्रजन्माऽद्य पूर्णिमा ર૮૮ી वर्षावाताच्चूलिगृहान्तरगतेदानीं सत्रस्ता । दंशन्ती शुनीव वत पामरकुटीरकूटं दहति
૮૭ भूकीटिका सर्पिला कृषिसखी सर्पति स्वैरं बालः ।। भीतोऽपदं तु दृष्ट्वाऽजातभीतिर्हि स्वाभाविकी
॥९ ॥ विमानवातायनतो व्योमपथिकः समुत्सुकः प्रेक्षते । इन्द्रभिदुरभियेवाऽऽयं श्यामं जम्बुद्वीपमखण्डम्
॥९१॥ जिगमिषवो हि मानसं तुषारसारक्रौञ्चरन्धगताः । जलदसविराजहंसास्तपस्तापं हि मानी सहते
રો गेहदेहलीलीना जाने यक्षपुरन्धी प्रतीक्षेत । विगणयन्ती नु दुःखं दिनं गणयन्ती धन्याऽऽशा રૂ कविता विस्मारयति जीवनाटवीदवदाहं भीष्मम् । वर्षाऽपि नेषत्करी दुष्प्रतीकारोऽप्रतिषिद्धः
||९४|| तवतन्तुपरिवृत्तौ राजालिन्ददक्षवामपक्षधराः । पणमुष्टिक्रेतव्याः कूशकाका इव घनसुन्दराः वर्षर्तुः शृङ्गार: श्रुतिशस्यः सलिलालङ्कारिपुंसः । अपि स वसन्तः प्रथमः प्रथमां मन्ये वर्षां सुरसाम् ॥६॥ वंसनिकुञ्ज मोदः क्रोडेष्वभिनवा अङ्कुरा दृप्ताः । सहज़ोष्णीशा रामोऽभिजातो हि सलक्ष्मणः किं न ? ॥७॥ वर्षा सामर्षाऽद्य गृहाभावखिन्ना भामा सरुषा । विगलदश्रुधारा सा वन्या पतिमानतळं हरति । क्षपातमोऽकाण्डेऽभिसारिणी तडिता ताडिताश्चेव । कशा येनाऽदर्शिता भित्तिनद्धा ह्रिया तु गृहीता ॥७९॥
Page #42
--------------------------------------------------------------------------
________________
रूप्यकमात्रग्राही ग्राहभीतेस्तारयति नद्याश्च । अधनः सन्तरन्याति विपदां पदं खलु दारिद्यम् ॥१००॥ पुरुषः संसारसार इति मात्रं वचः प्रतीयते मेऽद्य । द्यौः सूते पाति धारा कोऽवान्तर्गडुः पुंस्कर्ता ॥१०१॥ मूकः पिकोऽद्य सत्यं जाते भेककुल-राज्ये किं कार्यम् ? । धूर्ते सदसरपती हि पण्डितोऽनुपलब्धिप्रमेयः
॥१०२॥ सायं जम्बूककुलं ग्रामशुनो वर्षातमोगूढान् । जल्पन्ति संस्कृतमिव प्राकृतेन गुरवो मोघाः । विन्ध्याटवी तु सान्द्रा शडुरजटाभिरिव दिक्षु न्यस्तैः । विस्तारैर्यमयतीव जाह्नवीमिव धाराधारम्
॥१०४॥ निदाघेऽभावनमिता वर्षाविभवेऽधुना विभुतां गताः । मक्षिमशका खला इव पदपदार्थार्थिचाटुकाराः
॥१०५॥ वारिदस्फोटोऽचले प्रलयमापाद्य जीवनानां शतम् । विभीषिकावतारोऽपि पतिसम्पत्सु विषमः पाकः ॥१०६॥ पर्वपर्वोपगूढाः पर्वतेषु विशेषशोभना जलदाः । कालिदासं मृगयन्तो दौत्ये नियोक्तारं वामाः वर्षानष्टा कमलिनी स्थाणोः प्रभातचर्चा कथं भातु ? । दिनकरोलकरैर्विकचं जलजमुपहरन्ति सप्तर्षयः
૨૦૮ आद्वापरान्तं महिता महार्णा सरस्वती शरीरवतीय । सजला सुखिता तनुतां हित्वा जिजीविषतीव कुरुषु ॥१०९॥ वर्षाऽमर्षोऽत्युग्रः शालयो जलजम्भाकुलिताऽदृश्याः । शिरोहितकरौ दम्पती कृषकावतिसम्पद्धि हिनस्ति ॥१०॥
१. देशजभाषामाध्यमेन संस्कृतशाखाध्यापनं सदोषमिति कटाक्षः ।
For Prive
Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
WOR
FFER
दर्दूर: स्फुटवक्ताऽवञ्चको वीतमनुमानं तनुते । वाचा लिङ्यन्वर्षामव्याप्तिधीः कथं नु लोके ! ॥१११॥ कुणपभोजनी शकुनः सकलजलमयकाले कवलविकलः । गर्हितोऽधुना ग्रामे श्रव्यमश्रव्यं हि तुन्देन
॥११२॥ शीतरश्मिर्वर्षाक्तो नक्तं मेघावगुण्ठनवतीय । भामिनी वेवाऽश्रूणि मुञ्चन्भाति खण्डिता वाऽपि
રૂ आषाढोऽपगतो गतः श्रावणार्थोऽर्धपक्तिरपि नाऽऽयाता । देहलीन्यस्तहस्ता सवाष्पवातं दिदृक्षतेऽन्या
॥११४॥ . वर्षामुखरे गगने भास्कररश्मिजाले झटिति फलिता । कालिङ्गग्रामभणितिर्जम्बूकोद्वाहो दिवाऽयमिति
॥११५॥ वर्षावासं श्रमणो मुनिः कुरुतेऽपि वीरसुगतशिष्टः । सनलश्चातुर्मास्यं वेदान्तविज्ञानी भिक्षुः पावनोपाकाहि नानाश्रुतिशाखाध्यायिनां सुसुताः । सावित्र्या पूयन्ते शिवासूत्रदण्डकमण्डलुभिः
॥११७॥ मेघोदयतोऽकाण्डेऽप्युदितमपि परोक्षं भारकरविम्बम् । धूमध्वजो ध्वजयाऽपि यज्ञशालाषु हिन्वन्दृष्ट: वङ्गकलिङ्गान्ध्रासमा वर्षे वर्षे वन्याऽऽतद्रुताः । प्रातिकूल्ये हि विधेः श्रीः प्रकृतेः कथं प्रकृतं बन्धुः ॥११९॥ अम्बा जरती ग्रामे गृहकोणगा घने दूरगं पुत्रम् । स्मरत्यवितथं भद्रा सेहः खलु मातृजः प्रथमः ॥१२०॥ अभिजातवृत्तिग्रहे नीचानां हानिर्भवति नोत्थानम् । जातपक्षाः कीटानां नोदयाय गगने, नाशाय
॥१२१॥ मेघालोकेऽश्वोऽलसः श्व इति संस्तुतिं स्वामिनो रोचयति । अनद्यतनगन्तारमजिहासुः कामुकाहीः
MAVARANA
For Private &Bersonal use Only
Page #44
--------------------------------------------------------------------------
________________
पततिपतितपतितव्या नागसेनोक्तौ न भिद्यन्तां ते । प्रावृषि सलिलपिच्छिले कामं तेषां भेदः क्षणिकः पशुपतिभीत्या रात्रौ मृगा यथा भवन्ति ग्रामाभिमुखाः । अतिवृष्टिवातत्रस्तास्तथा कैवर्ता महासिन्धोः
अत्यन्तं सावधानं व्रजन्तीनां व्रजयोषितां मार्गे । व्रजसुन्दराभावेऽपि पिच्छिलता स्वधर्माऽविरहिणी
स्राता वसुमती स्निग्धा चाssसप्ताहं हलधरा विश्रान्ताः । धन्या भारती दृष्टिः पृथिव्यपि जननी मानवीव आम्रपनसोर्वाका विरलतरा ग्रीष्मतापानुमापकाः । सद्योजातो मरीचः सुतीक्ष्णः शाकवाटीराजा वर्षातमिस्राभिन्ना राजसरणिरपि सरसपिच्छिला । अहरहो यानदानवैस्तर्जिता त्रियामोत्तरकाण्डे स्वस्था कान्ता सदाश्यामाऽपि श्यामाम्बुदसखायमाख्यातुं मनः । रम्भो श्वसन्त्यपि तापकन्दलति भवति शान्ता हलामाख्यात्यनूढा तव हालः किल हलाहलोल्लेखी । यौवनं तु विषजर्जरं पुनरिह नवजलकालो हन्ता व्योम्नि विमानविहारी विलोक्याऽधो विलोलमेघमालाः । मरालमालामाल्या लोलाक्षीं स्मरन्मुहुमनी
त्रिलोचनीयति सूर्यो घनद्वयकीर्णवपुरासारान्ते । बलमनुचिकीर्षुर्वापि नीलोत्तरीयभिन्नोरस्कम्
धराधरो हि दविष्ठो न च्यवते पदमपि मनाकु स्थानतः । घनघोरदुर्दिनान्धे नयचक्षुर्विवेकीवाऽचलः
१. प्रचुरम् ।
For Private Personal Use Only
३१
loરી
॥१२४॥
॥१२५॥
॥१२६॥
॥१२७॥
॥१२५॥
॥१२९॥
॥१३०॥
॥१३१॥
॥१३२॥
"કૈશો
wwwww
Page #45
--------------------------------------------------------------------------
________________
सर: साधुः सुखाशी निदाघतापजशोषस्मृतिशीलः । सङ्कल्पयति सञ्चेतुं पडकोशे जीवनं भूरि
તારૂકો अन्तर्बहिः सर्वत्र समुत्था माकन्दशिशवः करमिताः । दिशन्त्यपि प्रत्यक्षं जनसंख्यावृद्धिदूरूपम्
॥१३५॥ अब्दलीनोऽपि कलमस्तटासीमासामन्तीयति । कलम्बगाढगूढोऽपि गुणीव दृढार्जवं न जहाति
૩૩૬ો शकुनो डिनोऽपि गगने जलप्लवशवदृष्टिर्दूरदृष्टिः । न्यूनं विनाशं शपति जारजदुर्जन इब जीर्णधीः
॥१३७॥ दर्दूरविप्लव इव प्रावृषि सर्वत्राऽवलोक्य भुजगाः । अराजका इव प्रजा रिपुग्रसिष्णवो हि परीताः आकाशेऽधुना घनाः सन्निकटा निदाघे खलु विपरीताः । सम्पन्नो दित्सुरिव पुरतोऽभावे विप्रकृष्टः ।
રૂછો स महाम्भोधौ द्वीपो धनवर्षावात्याभिरनाहतो दृढः । श्रेष्ठाश्रय इवाऽभीकोऽवधूतवृक्षाग्रकपिस्तु शङ्कितः ॥१४०॥ पुष्करावर्तककुलजा ईश्वरोद्दिष्टा जगद्धिता मेघाः । वसन्त इव मलयानिलोऽभिजातो हि लोकहितञ्चरति ॥१४॥ उत्सारयितुमतिवृष्टिं प्रसृतसप्ताहयागविघातकरीम् । दिशति रोद्धं ब्रह्मा गोवर्धनमर्नु' शमीसमिधः ॥१४२॥ विश्वप्रकृतेर्वर्षा दूती सन्देशमलौकिकं वक्तुकामा । पञ्चसु भूतेषु रमा श्रावणसुभगं स्वरं तनोति
॥१४३॥ कामकलाडा कान्तं कथं तब स वसन्तः सहचरोऽस्ति । पुरुष इति मात्रं किन्तु वर्षा तु मां नार्यपि रमयति ॥१४४॥
१. स्मार्तेषु प्रसिद्धो वर्षारोधको मत्रविशेषः । २. रतिः ।
For Private Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
PANESHAANANEMAIN TIH
वर्षातवा ऋतवश्चत्वारोऽद्धा ग्रीष्मः सामग्री । वर्षाविवर्ता जगती नवनयो नाम वर्षाद्वैतम्
॥१४५॥ उदारात्मा तालोऽद्य सर्वैरुपगम्योऽमृतकुल्येव । आजम्बूकमनुष्यं कोऽत्र न कृष्णपक्चफलाशी ? ॥१४६॥ वर्षाशोभितशिखरा बहुप्रजा हि रम्या नारिकेलाः । समुद्रतटप्रसन्ना औदिच्ये तदभावो दैवः
૧૪છો खर्जूरः कण्टक्यपि मधुरफलभारै विकं वदतीव । अभिशप्तमनुजवार्ता शुभगुणैर्यः समाजपूज्यः
૪૮ तरङ्गं ब्रूते तटः सख्खे ! दुर्दिने किं लङ्गितुं मां यतसे । वदति स सामुद्रोऽहं मर्यादा मे तातानुगुणम् ॥१४९॥ अपूर्वा हि कविदृष्टिः क्षणाद्गर्भमाधाय क्षणात्सूते । सन्तानी सुगत इव धारासु तु कविः स्वलक्षणः । ॥१५०॥ प्रोषिते कान्तेऽकरुणे करुणा स्मृतिमन्थनमासादयति । दयिता दीर्घिकाकच्छ-घन-हरित-तमाल-तले हन्त ॥१५१॥ धीवर: कौपीनहरो जालगतमत्स्यहस्तः सर्वाः । पर्णशालाद्वारगो लक्ष्यते विद्युता लोलाक्ष्या
॥१५२॥ रागारुणिता नवला नभोबिन्दुसंसर्गहृष्टलोमा ।। पौलोमीय दीव्यति वज्रालोके तिलोत्तमाढ्या
॥१५३॥ अचतुर्मुखोऽजनिष्ट ब्रह्मा व्यासः कल्पान्तरस्थायी । पूर्णिमायां जयन्त्यां भारतीकविसन्ध्या ध्वनति
॥१५४॥ कृष्णजन्माऽभिलक्ष्य ग्रीष्मकृशास्तुलस्यो वनायन्ते । प्राग्राधाजन्मनो मन्ये प्रथमप्रणयतृष्णाः
॥१५५॥ श्रवणश्रावणजुष्ट: संस्कृतसप्ताहो नभोऽन्तदृप्तः । प्रत्यभिज्ञापयन् भुवि राष्ट्रसंस्कृति संस्कृतस्थाम् Rઉદ્દો
३३
Page #47
--------------------------------------------------------------------------
________________
॥१५७॥
खर्जूरतालपत्रनिर्मितचित्रच्छत्रमस्तकाः कृषकाः । केदारेषु गान्धिनः स्वदेशनयं शिक्षयन्तीव इन्द्रो वृत्रं जघान पुराणी वार्तेतिहासो नित्यः । घनघ्ने वजे वृष्टि रुक्तस्तु प्रकूतवादी
॥१५८॥ हूदनदीनदझरसराः सोलासा इदानीं सरसरम्याः । यौवनागमे व नवे लावण्यधाराऽवार्येव ।
॥१५९॥ प्रभुः शयानोऽनन्ते चाऽऽदेवोत्थानमकरुणो भाति । शापसमयोऽनपगतो यक्षः पुनरपि दूतं हरति ॥१६०॥ सा सैव सैव मात्रं दिशि दिशि दिशि दिशि चाऽन्तराले शबला । स स एव स एव पुनस्तस्या खलु विरमृता वर्षा ॥१६१॥ प्रकृतावप्यद्वैतं कथं न मन्यतेऽद्वैतीति तर्कः । सा स्वातव्यं शिवस्य वर्षेवेन्द्रस्य न द्वैतम्
॥१६२॥ प्रकृतिरेव किं नेश्वरो भागवतकार:' समर्थो भाति । बृहस्पतिस्त्वपि हृष्टो वर्षासवो मोहयत्यखिलम्
દુરૂ शरदि रिरंसुः कृष्णः कथमिति तर्कये घनाघनक्षोभात् । त्रस्ता एणीरिवाऽङ्गनाः सौन्दर्यमीमांसाहेतुनेति
॥१६४॥ द्वारवतीद्वारान्ते कान्तमालक्ष्य मेघाभिनिविष्टम् । वदति जरती रुक्मिणी बाल्यकौतुकं स्मर्यते किम् દુકો पली केतकाभरणाऽमन्दगन्धमयी मोदते स्नाता ।। गन्धवती पृथ्वीति काणभुजसमयोदाहृतिरिव
૩૬૬ો. चिलिकासन्ध्या दिग्वधूः सीमन्तिनी तु सा न भाति । न हि, सा सद्यःस्राता तमो वाञ्छन्ती स्वतन्त्रेव ॥१६७॥
१. स्वयं प्रकृतिरीश्वर इति भागवतम् । २. कालिङ्गसमुद्रतटे महाहूदः ।
For Private
Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
पान्थः सर्वमालोक्य कुतूहलाद्घनोदयं स्वमिव पथिकम् । मेने सम्भ्रान्तदृष्टिगतेऽस्मिन्पथिकः पथिकृदिति
૬૮ वर्षावाग्वधूटीयं पान्थपथो विनोदयत्वनिशम् । आधारासारशमञ्चाऽऽगेहदेहलीरामोदयम्
૪૬s कविता तु वनितेव कविमातुरीययाममाकांक्षतेऽबला । सा पुनः कविपुत्रीति सहृदयभणितिर्न कविसत्यम् ॥१७॥ कविताङ्गनाद्यभोक्ता कवी रसिकस्तूच्छिष्टमात्रसेवी । अविद्वान् कथं सरसं शबरीकवी रामरसिकं हरतु ? ॥१७१॥ सुरेन्द्रधनुरैश्वर्यं मोहनं दिगङ्गना-गगनसेतुः । सप्तवर्णवर्षमिश्रं हर्षो न कस्य सचेतसस्तु ? ।
૭૨ वर्षा वधूटी रमतां कविमन आशतवत्सरान्पुनरपि । भावमभिव्यनक्त्वग्रे यातु न विरतिमुशती कामम् विचित्रत्रिदिनकविताऽदिनमेघदर्शननिर्वृत्ता । विद्यालयाऽनध्यायवलिता स्मृतिकल्पनानपोढा
॥१७४। सहृदयसन्देशोऽयं सुरेन्द्रसूरिणा काव्यविनोदाय ।। पान्थेन व्यरचि कुरुषु मनाक् तेन प्रसन्नः स्थाणुः ॥१७५॥ काली दासे दिशति कविताझङ्कृति मुग्धबोधां कालीदासो विहरति रसेऽलौकिके लोकमुक्तः । भावोऽभावी भवति च भवोऽभाववानर्थभेदो वाणी स्वार्थं हरति कुशला स्वाञ्च वाणी नतोऽर्थः ॥१७६॥ देवो वर्षत्वभीक्ष्णं प्रकृतिरनुपमा दिव्यशोभा धरित्री ब्रह्मण्या वेदविप्रा गुरुचरितधिया पावयन्तो मनीषा । राजन्या राष्ट्ररक्षाव्रतवरविभवा वैश्यशूद्राश्च कामं सम्पत्त्युद्योगधन्या दधतु च जगतां सौख्यमास्तां समेषाम् ॥१७७॥
For Private Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
-
बाणनिर्वाणशीतांशुबाणाख्ये कलिजेडयने । सिद्धार्थबुद्धजन्मक्षे पूर्णिमावासरे शुभे । धर्मक्षेत्रे कुरुक्षेत्रे कविपण्डितसन्नतः । भरद्वाजान्वयः काण्वाध्यायी याजुषभूसुरः । मिश्रोपाह्वः स पथिकः सुरेन्द्रमोहनः सुधीः । वर्षार्चितगीस्तेन भद्रास्थाणू प्रसीदताम् ॥
सखे ! साहजिकसेहो दूरादपि विराजते । चकोरीनयनद्वन्द्वमानन्दयति चन्द्रमाः ॥
३६
Page #50
--------------------------------------------------------------------------
________________
- -
- सुभाषितानि
शास्त्री व्रजलाल उपाध्यायः
नीतिर्नूलाऽपि कल्प्येत, रक्षणे शस्त्र-शास्त्रयोः । नाऽस्ति चैक विधः कालो, रक्ष्यं तु द्वितयं नरैः ॥१॥
मङ्गलं राजपुण्येन, ज्ञानमाचार्यपुण्यतः । ___ तीने पुण्यद्वये शुद्धे, पृथ्वीभाग्योदयो भवेत् ॥२॥ शस्त्रं नीत्या च संत्यक्तं, प्रामाण्येन च पुस्तकम् । तत्क्षुरं तद् बुक्कमिति तत्तत् तत्त्वविदो विदुः ॥३॥ __ यत्र कुत्रापि भोजोऽस्ति, कालिदासोऽपि कुत्र वा ।
सारस्वतरसास्वाद-लम्पटस्तत्र नन्दतु ॥४॥ यत्र कुत्रापि देवोऽस्तु, तद्गुणाः सन्तु मे हृदि । हृद्यगन्धे समालब्धे, किं पुष्पं दूरमुच्यते ॥५॥
आन्दोलयन्ति महतां, शिरांसि श्रुतिगोचराः ।
श्रूयन्ते ते गुणा नूनं, क्याचिद् भाग्यसम्पदा ॥६॥ ब्राह्मणानां मुख्ने लक्ष्मी-र्बाहौ क्षत्रकुलस्य च । वैश्यजात उरौ लक्ष्मी-श्चमस्य च पादयोः ॥७॥
राजा तु पितरं शास्ति, पिता शास्ति च बालकान् ।
आचार्यस्वितयं शास्ति, धर्मो लक्ष्मीः स्थिरा यतः ॥८॥ अन्यथा देशधर्माणां, कुलधर्मस्य संक्षये । तेजोहीनं मानुषत्वं, पशुतासमतामियात् ॥९॥
क्षत्रियाणां महाभाग्यं, प्रजाभाग्यनिरीक्षणम् । प्रजानां तन्महाभाग्यं, राजभाग्यनिरीक्षणम् ॥१०॥
For Privateşlersonal Use Only
Page #51
--------------------------------------------------------------------------
________________
-
आचार्याणां महाभाग्य-मुभयोर्भाग्यदर्शनम् । उभयोस्तन्महाभाग्य-माचार्यैश्चर्यदर्शनम् ॥११॥
जगता विजितो लोके, जगत्सत्यं प्रवक्ति हि ।
जगज्जितं येन पुंसा, स तुच्छं वक्ति मायिकम् ॥१२॥ यदि ते ब्रह्मजिज्ञासा, प्रज्ञानं ब्रह्म संस्मर । यदि ते स्वात्मजिज्ञासा, ब्रह्मैवाऽहमिति स्मर ॥१३॥
मनुष्यत्वं प्रमाणं चेत्, शास्त्रं समनुधावति ।
आचार्यश्च तदा राजा, मिथी मैत्री समाप्तुतः ॥१४॥ शस्त्रं बुद्धिपराधीनं, शास्त्रं सहजसंस्थितम् । तत्परावृत्तियलस्तु, धर्मोपप्लव उच्यते ॥१५॥
यथा कालो यथा शत्रु-र्यथैव स्वबलं भवेत् । तथा निर्मीयते शस्त्रं, न शास्त्रं केनचित् क्वचित् ॥१६॥
For Privateersonal Use Only
Page #52
--------------------------------------------------------------------------
________________
-
भाभावकजगन्नाथ
एस्. जगन्नाथः
2925, शाण्डिल्य: 1st Main 5th Cross
सरस्वतीपुरम्, मैसुरु-५७०००९ सूत्रप्राया प्रासरम्या स-दादा सोत्प्रासोक्तिं कन्नडाभाणकीया । शैली नीतिस्फोरणायात्तजन्मा नूत्लग्रन्थोत्पादने देशिका मे ॥ १ आभाणकजगन्नाथे चाकचिक्येन चारुणि । प्राचीनैर्वचनैः पूर्णे प्रत्यग्रोऽध्या परीक्ष्यताम् ॥ २ .
4
१. अइउणमविज्ञाय पाणिनिमाकारयति नियुद्धाय ।
।
२. अकरणादसंबद्धकरणं व्रम् !
o
३. अकारणवैरिणः स्वका एव बन्धवः ।
४. अगोचरा मूलिका भेषजम् ।।
५. अगुलीदघ्नस्य कलविङ्गस्य भङ्गलीला गृधैः ! ६. अजस्य किं गजस्योलत्या ?
-
For Privalgg Personal Use Only
www.jainelibrary.
Page #53
--------------------------------------------------------------------------
________________
२.
७.
अजस्य रोदनेन गजस्य किम् ? A
P g
potos
* M
AP
'८. अञ्चले बद्धश्चञ्चल: कपिः ।
९. अटनमकूत्वा स्टति ।।
, १०. अटवीसिंह नगरकुक्कुरः स्वाहाकरोति । .
११. अतिकरणान्मतिभ्रंशः ।।
र १२. अतिथीनां शिशवः आतिथेयानां पशवः ।
१३.
१३. अतिनाट्ये मतिधूर्तता ।
।
१४. अतिपठनं गतिहीनम् ।
___
१५. अतिपरिचयेन बन्धुरन्धुः संवृत्तः ।
9-9-4
- १६. अतिभुग्नं भग्नम् ।
R
१७. अतिमैत्री धर्मसंकटाय ।
For Private Yoersonal Use Only
Page #54
--------------------------------------------------------------------------
________________
१८. अतिशुद्धम् असंबद्धम् ।. . .
n १९. अदृष्टहिमालयस्य भस्मराशिरेव पर्वतराजः ।
A
२०. अधिकारे दत्ते बधिराय, सर्वेषां कर्णं छेदयामास ।
IYA २१. अधिकृतो रासभः प्रतिजनं पाडयति
ना (= पादाभ्यां ताडयति ।)
।
२२. अनभीष्टाय देवाय समर्प्यताम् अपक्चो गोधूमः ।
२३. अनभीष्टोऽतिथिः पायसान्नगतं लवणम् ।
२४. अनुदिनं कुम्भीपाकेऽप्यायुः शतानां शतम् ।
२५. अन्विष्यमाणा वल्ली पादयोः संलग्ना ।
SHA २६. अन्विष्यमाणा शिला शिरसि निपतिता ।
२७. अपकीर्तिरेव दुर्जनस्य स्फूर्तिः।
OD
For Privat & Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
२८. अपश्यति नयने किं बुद्धिर्न पश्यति ? ..
ra.. २९. अपिपीलिकाप्रवेशे सूचीरन्थे महिषः सिष्यासति । ३०. अबद्धमतिः सन् बुद्धमुपन्यस्यति । .
३१. अभिनयपटूनाम् आरभट्येव जीविका ।
O ३२. अमितालापः शून्यकलापः ।।
३३. अयोग्यानां सन्निधानं सौभाग्यलक्ष्मी रोचयते ।
6 ३४. अरण्यमेव विरक्तानां हिरण्यम् ।
३५. अ-रसिकैः सरस्वत्याः करपादभङ्गः ।
३६. अर्धबोधो बाधः ।
___३७. अलंकारविद्यार्थिनो बलं वदनपिधानम् ।
३८. अलं वाचाटाय वावदूकः ।
For Private
Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
३९. अलाभादल्पो वरीयान् ।
४०. अवीक्षमाणेऽपि नयने पश्यति प्रज्ञा ।
४१. अल्पारम्भैरनल्पा सिद्धिः ।
४२. अव्यवस्थितचित्तानाम् अविवेको महान् ।
O ४३. अशेषे भाग्ये विशेषो नास्ति ।
४४. असंबद्धरय गृध्रस्य यद्वा तद्वा बुद्धिः ।
४५. असति ज्ञाने मौनेन मानः ।
४६. अस्थि दशतो शुनो गृहम् अमृतेच्छुर्गरुड आगतः ।
४७. अहंयुर्गोमायुर्गिरिमाज्ञापयति ।
४८. अहमपि वीर: किन्तु गेहेशूरः ।
४९. आकार: सुवर्णः, आचार: आयसः ।
For Prival 3ersonal Use Only
Page #57
--------------------------------------------------------------------------
________________
.
५०. आकाशात् पतिता देवता आक्रोशाद् रोदिति ।
मा
५१. आक्रोशो युक्तिहीनानाम् आयुधम् ।
900
whe
५२. आखूनां रक्षणाय आख्नुभुङ् नियुक्तः । (
er
PORNO
- S
T
५३. आघाटेऽनतिक्रान्ते पश्यतोमारोऽपि प्राणसखः
[आघाट: सीमा । पश्यतोमार:=bandit]
५४. आघोणलागूलं कृपणाग्रेसरचक्रवर्ती ।
५५. आचारे शुद्धे विश्वं तव पादं लेढि ।
५६. आचार्योपदेशो वा नीचा वाचो वा ?
५७. आटोपभट्टस्यारभटीं पश्य ।
५८. आटोपवतो मर्कटस्य लागृले पुष्पगुच्छम् ।
५९. आडम्बरम् आटोपं गिलति ।
For Privatpersonal Use Only
Page #58
--------------------------------------------------------------------------
________________
NAL
६०. आत्मश्लाघा, कुहचिदमोघा ।
६१. आशया राजानं दृष्ट्वा मापं पारितोषिकत्वेनानिनाय ।
६२. इतः शुण्डापि नास्ति ततो लागूलमपि नास्ति ।
।
६३. इतो न लग्नम्, अतो न भग्नम् ।
६४.
इति-ह-स्माय इति-ह-रम ।
६५. इभं भक्षयताम् इन्द्रगोपः कियान् ?
६६. इष्टदेवतास्मरणं कष्टकाले ।
६७. इष्टा बन्धवः कष्टा च धान्यहानिः ।
६८. उत्कोचतिमिङ्गिले लब्धे किं वेतनशफर्या बकासुरस्य ?
६९. उत्तरकुमारस्य महत्तरं माहात्म्यं बन्दिनां पुरस्तात् ।।
७०. उत्पाटितदन्तम् अजगरं मण्डूको मुसलेन ताडयति । ॐ
Page #59
--------------------------------------------------------------------------
________________
RUAE
16-800
७१. उदरार्थमुदारा वाचः ।।
७२.
ऊढो वा गाढ-मूढो वा ?
७३. एकमलीकं सर्वं गप्पम् ।।
७४. एकस्य पटच्चस्य धारणाय चतस्रः मिथश्छुरिकां
दर्शयन्ते ।
" ७५. एकस्मिन् पद्माकरे नैके पद्मिनो नानापकाः ।
65
७६. एका छुरिका द्वे शकले ।
8.
।
७७. एडमूकः पित्रोः पीडनाय ।
७८.
ओङ्कारापेक्षया घीङ्कारो भयङ्करः ।
र ७९. ओदनः क्षुतः, ओतुः क्षुधितः ।
-86
८०. कच्चपरीवाह एव पङ्गो रासभस्य भागीरथी । ॐ
ANS
For Private yersonal Use Only
Page #60
--------------------------------------------------------------------------
________________
८१. कण्ठबलमेवाकुण्ठबलं जनारण्ये ।
८२. कथं ब्राह्ममुहूर्तं कुम्भकर्णो वर्णयतु ?
८३. कथां कृत्वा व्यथां विस्तारयति ।
८४. कथायाः पुच्छमपि नास्ति, शृङ्गमपि नास्ति ।
८५. कनकं विक्रीय कच्चरं क्रीणाति ।
८६. कनकाय सनकोsपि स्पृहयते ।
८७. कन्यां गृहीत्वा पन्थानं गच्छ ।
८८. कपर्दिकाधीश्वरस्य कनकाधीश्वर इति संज्ञा ।
८९. कपर्दिकाविहीनस्य करयोः प्रतिसप्ताहं नूतनी सन्ततिः ।
९०. कपिना साकं क्रीडा वा व्रीडा वा ?
For Private Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
९१. करगतं कवलं मुखगतं नाभूत् ।
९२. करिणं कबलीकुर्वाणानां हरिणः कियान् ?
3 ९३. करिणाऽनुद्धरणीयं वृक्षं हरिणः कथमुद्धरति ?
९४. करी मृदुवचनः कबलितः काकेन ।
ET ९५. कर्मपापिष्ठा धर्मदेवेन शपन्ते ।
९६. कर्णयोर्माणकध्वनौ पतिते कृपणस्य नृत्यम् ।
९७. कर्णाकर्णिकया मलं पतितं श्रुत्वा भल्लेशपुर्याम् उल्लोलकल्लोलाः ।
___ ९८. कलुषितमतेः कनकधाराऽपि कच्चपरीवाहः ।।
५ ९९. कविना काव्ये कूते कपिना कापेयं कृतम् ।।
१००. काकिणीरहितानां स्वप्ने
कुबेरकोशः ।
For Private
Eersonal Use Only
Page #62
--------------------------------------------------------------------------
________________
र १०१. काकिणीहीनस्य श्मश्रुणि चम्पकप्रसाधनाय किङ्करपञ्चकम् ।
__ १०२. काकिण्यजनरहितः पात्रेसमितः ।
" १०३. काकिण्या कौशल्यं कार्षापणे दौर्बल्यम् ।
१०४. काकदन्तान् गणयित्रा सह घूकशृङ्गं
मापयितुः सख्यम् ।
- १०५. काको रटतीति कृत्वा घूकं बलवत् प्राहरन् ।
१०६. कानने कोलाहले कृते कर्तर्या
नासिकाछेदः ।
।
१०७. कापेये शक्तिशून्यः कपिवृक्षमाक्षिपति ।
१०८. कार्यशून्याः कार्पासपुरे कोलाहलं कुर्वन्ति ।
र १०९. कार्यार्थिना करीषमपि कबलीकरणीयम् ।।
११०. कार्षापणं विक्रीय करीषं क्रीणाति ।।
19
For Private 8 personal Use Only
Page #63
--------------------------------------------------------------------------
________________
१११. काशी गत्वा क्लेशान् आनिनाय ।
* ११२. किङ्कार्यमूढो लङ्गेश्वरकैर्येण सङ्कटमनुभवति ।
LETE ११३. किलस्य खलुः सदृशः ।
११४. कुक्कुटो यावन्न लङ्घयति तावच्छिखा लङ्घिता ।
२
११५. कुअराणां दर्शनं कमलानां रोदनाय ।।
११६. कुटुम्बे बन्धनं कर्मणा पापानाम् ।
कुबेरस्य पुरस्तात् करीषं प्रार्थयते ।
११८. कुम्भकर्णस्योदराय कथमलं पिपीलिका ?
5 ११९. करणं मधुपानं, कत्थनमाकाशगानम् ।
१२०. कुलित्थाजीवस्य कीनाशमांसेन किम् ?
...
SSS १२१. कृपासिन्धुरेव बन्धुः ।
५०
Page #64
--------------------------------------------------------------------------
________________
1 १२२. कृशां देवतां कुहनाभक्तो दृशा भाययति । A NVE१२३. केनापि कारणेन कौन्तेयाः कानने कष्टमवश्यमनुभवन्ति ।
1
१२४. केशान् पत्युर्लुञ्चति कार्यहीना भार्या ।
# १२५. क्रमेण व्यानो वानरोऽभवत् ।
.
.
१२६. क्रुद्धता वृद्धलक्षणम् ।
१२७. क्रुद्धो भोजराजो दग्धं बीजं खादति ।।
१२८. क्रोधो योधं ममार ।
नास्ति, कुशलं नास्ति । ..
१३०. क्षवथुरोगवते श्वयथुभैषज्यम् ।
- १३१. क्षिप्तमस्तिष्केषु उत्क्षिप्तवदाचरेत् ।।
१३२. क्षुद्रबुद्धेः क्षौद्रमपि प्राप्तम् ।।
[अनुवर्तते]
Page #65
--------------------------------------------------------------------------
________________
yamam FHMIRIKANRNMEnimamimg
अनुयोगाधिकारी मुनिरत्नकीर्तिविजयः ।
अधिकारित्वं तु प्रत्येक क्षेत्रेषु, व्यवहारेषु, कार्येषु चाऽनिवार्यमस्ति । प्रथम LS तावदधिकारिशब्दस्याऽर्थश्चिन्तनीयः, यतो वर्तमानकालेऽधिकारिशब्दस्य सत्ताधीशः पदस्थो
वाऽर्थः क्रियते । किन्तु नैष वास्तविकोऽर्थः । अत्र त्वधिकारी नाम योग्यो गुणवान् । न क्षमतावान् वेत्येव समुचितोऽर्थः । वास्तवमधिकारित्वं तु न पदेन सत्तया वैव ज्ञायते,
तत्तु कार्येण व्यवहारेण गुणगणेनैव च ज्ञायते । यस्मिन् यावती यादृशी च योग्यता क्षमता वा, यावन्तो यादृशाश्च गुणास्तदनुरूपे एव कार्ये स नियोक्तव्यः । ततोऽधिके यदि नियुज्यते तदा तत् कार्यं तज्जनस्य हितं चोभयोरपि हानिर्भवति । किञ्च स्वयमपि । स्वयोग्यता परीक्षणीया, तदनुरूपे एव च कार्ये प्रवर्तनीयम् । अन्यथा स्वपरोभयोरप्यहितमेव । A स्यात् । एवं च सामान्यव्यवहारेऽप्यधिकारित्वमपेक्षितं तर्हि शास्त्र-धर्मादीनां विषये
त्वधिकारित्वं प्रतिपदमपेक्ष्येतैवेत्यत्र नाऽस्ति काचिद् विप्रतिपत्तिः । अत्र तु यथा गुरुपदाय योग्यताऽनिवार्या तथा शिष्यत्वमपि न योग्यतामन्तरेण सिद्ध्यति, यथाऽध्यापनेऽधिकारित्वमपेक्षितं तथाऽध्ययनेऽपि । यतस्तत्र स्वपरयोरुभयोरपि हिताहिते सन्निहिते स्तः । लघ्व्यप्यनधिकारचेष्टाऽनर्थानां जननी भवति ।
अत्र तु, अनुयोगस्याऽधिकारिणं विषयीकृत्य किञ्चिद् वक्तव्यमस्ति । जैनागमशास्त्राणां टीकासु 'कोऽनुयोगस्याऽधिकारी' ? - इति कृत्वा तदर्थं निरूपणं कृतमस्ति । अनुयोगो नाम सिद्धान्तस्य तदर्थस्य च प्रतिपादनं-प्रवचनं वा ।
आगमादिशास्त्रसापेक्षं तथाऽऽत्महितमनुलक्ष्यैव यत्र कथनं भवति तदेव प्रवचनमित्यनेन PE सूच्यते । प्रवचनं न मनोरञ्जनसाधनम्, तत्त्वात्मकल्याणसाधनमस्ति । तत्र किंरूपं My गाम्भीर्यमधिकारित्वं चाऽऽवश्यकमित्यनुयोगस्याऽधिकारिणः प्ररूपणया ज्ञायते । शास्त्रेषु तु तावत्पर्यन्तमुक्तमस्ति यत्
सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं । वोत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं ? ।।
For Private Rersonal Use Only
Page #66
--------------------------------------------------------------------------
________________
CREA
" किंरूपं वचनं सावद्यं (सदोषम् ) किंरूपं वा वचनं निरवद्यं (निर्दोषम् ) - इति सावद्यानवद्ययोर्वचनयोर्विशेषं यो न जानाति स वक्तुमपि न समर्थः (नाऽधिकारी "त्यर्थः) । तर्हि कथं स देशनां प्रवचनं वा कर्तुं क्षमो भवेत् ? अर्थात् कथं तस्य प्रवचनायाऽनुज्ञा दीयेत ? - इति । एषाऽस्ति मर्यादा जिनशासनस्य । तत्र सदा यत्नवता भाव्यं येन स्वपरहितं स्यात् ।
अथ,
'कोऽनुयोगस्याऽधिकारी ?' इति विषयमधिकृत्य यन्निर्दिष्टं तत् सावधानं
“”देसकुलजाइरूवी, 'संघयणधिइजुओ 'अणासंसी । * अविकत्थणो 'अमाई, थिरपरिवाडी गहियवक्को ॥१॥
पश्येम
'जियपरिसो जियनिद्दो, "मज्झत्थो देसकालभवन्नू । १९आसन्नलद्धपइभो, १३ णाणाविहदेस भासन्नू ॥२॥
१४पंचविहे आयारे, जुत्तो १५ सुत्तत्थतदुभयविहिन्नू । १६आहरणहेउकारण-णयणिउणो गाहणाकुसलो ||३||
१८ससमयपरसमयविऊ, गंभीरो २०दित्तिमं २१ सिवं सोमो | २३ गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥४॥" (१) देशकुलजातिरूपी आर्यदेशोत्पन्नः स स्यात्, यतस्तादृशस्य वचांसि सुखेनाऽवबुध्यानि भवन्ति । अतोऽत्र देशग्रहणं कृतम् । कुलं च पैतृकं भवतिईक्ष्वाकुकुलज्ञातकुलादि । एतादृशः कुलीनश्च यथोत्क्षिप्तभारवहने न कदापि श्राम्यति । अर्थात् व्रतादीनां भारं स सुखेन, विना खेदेन च निर्वहति । तथा जातिस्तु मातृकी भवति । जात्या सम्पन्नो विनयादिगुणैर्युक्तो भवति । " यत्राऽऽकृतिस्तत्र गुणाः" इत्युक्तिमनुसृत्याऽत्र च रूपग्रहणं कृतम् । तेन रूपवानपि स भवेत्, इति ।
-
(२) संहननधृतियुतः संहननं नाम शरीरगतोऽस्थिबन्धः । एतेन स दृढसंहननः स्यादिति निर्दिष्टम् । तथा धैर्यगुणयुतोऽपि स स्यात् येन व्याख्यानादिकार्येषु कदापि खेदं न प्राप्नुयात् ।
For Private Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
(३) अनाशंसी - ‘एतेनोपदेशदानादिना श्रोतृभ्यः सकाशात् मम वस्त्रपात्रादीनां लाभो ।
भविष्यती'त्यादिरूपाऽऽशंसा तस्य नैव स्यात् । A (४) अविकत्थनः - हितं मितं पथ्यं च यो भाषते सोऽविकत्थनः ।
अमायी - परवञ्चनादिबुद्धिरहितः सन् यः सर्वत्र विश्वासभाजनं भवति सोऽमायी। एतादृशः स स्यान्न तु 'मनस्यन्यद् वचस्यन्यद्' इत्यादिस्वरूपः । स्थिरपरिपाटि:-यं ग्रन्थमाश्रित्य व्याख्यानं क्रियमाणं स्यात् तस्य ग्रन्थस्य
सूत्रार्थादीनामपलापं यो न करोति स स्थिरपरिपाटिः ।। (७) ग्राह्यवाक्यः-यस्याऽऽज्ञा विना विकल्पं सर्वत्र सर्वेषां च ग्रहणीया स्यात् स
ग्राह्यवाक्यः । (८) जितपर्षद् - राजसभादिषु प्रवचनादौ यः क्षोभं नाऽनुभवेत् सः । (९) जितनिद्रः - निद्रा तु प्रमादोऽस्ति । तां विजित्य सोऽप्रमत्तो भवेत् । एतादृशोऽप्रमत्त
एव स्वशिष्यादीन् प्रमादादिनिवारणाय प्रबोधयितुं प्रभवति । * (१०) मध्यस्थः - आश्रितेषु शिष्यादिषु स समदृष्टिर्भवेत् । अर्थात् पक्षपातं न
कदाप्याचरेत् । 4 (११) देशकालभावज्ञः - देशकालादिकमभिज्ञाय तदनुरूपं गुणवद्देशादावेव विहरेत् । । (१२) आसन्नलब्धप्रतिभः - यः प्रतिभासम्पन्नो भवति स परवादिनां शीघ्रमुत्तरदाने
समर्थो भवति । (१३) नानाविधदेशभाषाज्ञः - भिन्न-भिन्नदेशीया मुमुक्षव आचार्यस्य शिष्यत्वमङ्गी
कुर्वन्ति । एतद्गुणयुक्त एव तेभ्यः शास्त्रगतपदार्थानां बोधं सुखेन दातुमलं भवति । । ११ (१४) पञ्चविधाचारयुक्तः - य आचारवान् स एव श्रद्धेयवचनो भवति । । (१५) सूत्रार्थोभयविधिज्ञः - एतादृश एवोत्सर्गमार्गमपवादमार्ग वा सम्यगभिजानाति ।
सम्यक् चाऽवबोधयति ।
For Private Xersonal Use Only
Page #68
--------------------------------------------------------------------------
________________
* (१६) उदाहरणहेतुकारणनयनिपुणः - ईदृशस्तु हेत्वादिपुरस्सरं स्वकथनं स्वमतं च
पुष्टं दृढं वा स्थापयितुं क्षमो भवति । 4 (१७) ग्राहणाकुशलः - अध्यापनकाले क्लिष्टानप्यागमादीनां गम्भीरपदार्थान् युक्त्या
प्रयुक्त्या च शिष्याणां कुशलतया ग्राहयेत् । Y (१८) स्वसमय-परसमयविद् - उभयविदेव स्वमतस्थापने परमतव्युदासे च समर्थो ।
भवति । (१९) गम्भीरः - श्रमादिजन्यखेदसहो भवेत् । (२०) दीप्तिमान् - परैरधृष्यः स्यात् । (२१) शिवः - शिवस्य-कल्याणस्य हेतुत्वात् स एव शिवः । यतः स यत्र वासं
कुर्यात् तत्र मार्याद्युपद्रवा उपशान्ता भवेयुः । (२२) सौम्यः - सर्वजनानामाह्लादकारि तस्य दर्शनं स्यात् । | (२३) गुणशतकलितः - प्रश्रयाद्यनेकैर्गुणैः परिवृतः स्यात् ।
एतादृशो गुणगणकलित आचार्य एव प्रवचनस्य-सिद्धान्तस्याऽनुयोगेऽर्थकथने * योग्यो भवति, नान्यः ।
एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । 'गतानुगतिको लोको न लोकः पारमार्थिकः ॥
APPAL
For Privala
Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
-
नमिप्रव्रज्या
मुनिकल्याणकीर्तिविजयः
[ नमिराजर्षेः सकाशात् तदीयमान्तरिकयुद्धवृत्तं श्रुत्वा प्रसन्नमना इन्द्रः प्राह-] इन्द्रः नूनमीदृशं युद्धं तु भवानेव कर्तुं शक्नोति । अथैका विज्ञप्तिरस्ति यत्-यदि
भवान् भवतो नगरेऽभ्रंलिहान् प्रासादान् महतो महालयान् रम्याणि वर्धमानगृहाणि च विरचय्य प्रव्रजेत् तर्हि शोभनं स्यात् । यतस्तेन भवतः स्वजनाः परिजनाश्च
तत्र सुखं निवसेयुः, भवानपि च निःशङ्कमसंशयं च साधनां कर्तुं शक्नुयात् । ५ नमिः सत्यमुक्तं भवता । किन्तु शङ्का संशयो वा तस्यैव भवति यो मध्येमागं गृहं 5
विरचयेत् । अहं तु ममाऽन्तिमे शाश्वते च गन्तव्य एव गृहं विरचयितुमिच्छामि,
ततश्च निःशङ्को निस्सन्देहश्चैव तिष्ठामि । इन्द्रः अत्युत्तमा भवतो भावना । परन्तु एकं कार्यं तु भवताऽवश्यंकर्तव्यतया विद्यते।
भवतो राज्ये बहवश्चौरा लुण्टाका ग्रन्थिभेदकास्तस्कराश्च सन्ति । तान् सर्वान गृहीत्वा दण्डयित्वा च नगरस्य क्षेमं कुशलं च कार्यं भवत एव कर्तव्यम् ।
अतस्तत् कृत्वा पश्चात् प्रव्रजतु भवान् । नमिः सत्यम् । तथाऽपि चिरकालीनेनाऽनुभवेनाऽहं सम्यग् जानामि यद् बहुशोऽत्र
निर्दोषा जना एव दण्ड्यन्ते । अपराधिनस्तु यथाकथमपि मुच्यन्ते । अतोऽत्र
मौनमेव श्रेयस्करम् । इन्द्रः भवतु । अलं तेन । किन्तु भवतो राज्यस्य द्वेषिणो वैरिणश्च बहवो राजानः
सन्ति । ते यदा तदा भवद्राज्यं स्वायत्तीकर्तुं प्रयत्नशीलाः सन्तोऽवसरं प्रतीक्षमाणास्तिष्ठन्ति । तान् सर्वान् युद्धे विजित्य स्ववशांश्च कृत्वैव प्रव्रजितुमर्हति भवान् । येन भवतः प्रजाजना निश्चिन्ततया जीवेयुः ।
For Private Eersonal Use Only
Page #70
--------------------------------------------------------------------------
________________
नमिः भो ! यः सङ्ग्रामे सहस्राणां सहस्त्रं दुर्जेयान् भटान् राज्ञश्च जित्वा जगति अजेयतया विश्रुतो भवेत्, ततोऽपि यदि स स्वीयमात्मानं जयेत् तदा स एव तस्य परमः प्रधानश्च जयः । यत आत्मजय एव जगति परमदुष्करः । अपि च पञ्चेन्द्रियाणि क्रोध-मान- माया - लोभादयश्च बहवो दुर्जया आन्तरवैरिणः सन्ति जीवस्य । तान् जेतुं वशीकर्तुं च एक एवोपायोऽस्ति आत्मजयः । यद्यात्मा जीयेत तर्हि सर्वेऽपि शत्रव एते स्वत एव वशीभवन्ति । अत आत्मनैव सार्धं युद्धं कर्तव्यम् । बाह्येन युद्धेन किम् ? अतोऽहमप्यात्मनैवाऽऽत्मानं जित्वा शाश्वतं कालं ससुखं स्थास्यामि ।
इन्द्रः
अद्भुतम् !! अथाऽद्याऽप्येकं पुण्यकार्यं कर्तव्यशेषतया विद्यते । तथा हि- भवान् विपुलान् यज्ञान् याजयित्वा, भिक्षून् याचकांश्च भोजयित्वा अर्थिभ्यश्च यथाभिलषितं दत्त्वा दापयित्वा च पुण्यप्राग्भारमुपार्ण्य पश्चात् प्रव्रज्यां स्वीकरोतु ।
नमिः भोः ! यज्ञान् कारयित्वा जनान् भोजयित्वा प्रतिमासं च लक्षशो गो- सुवर्णादिकं दत्त्वाऽपि यच्छुभमुपार्ज्येत ततोऽपि केवलमहिंसामयस्य विशुद्धसंयमस्य पालनमेव एतत्सर्वमप्यकुर्वाणस्याऽपि श्रेयस्तरं श्रेयस्करं चाऽपि । अतो ममाऽन्तःकरणं तु नितान्तं संयमे एव लीनम् ।
इन्द्रः किन्तु राजन् ! शास्त्रेषु गृहस्थाश्रम एव प्रधानतया वर्णितोऽस्ति । भवन् प्राप्तमपि तं त्यक्त्वाऽन्यमाश्रममिच्छति । एतत् तु नैव योग्यम् । यद्यपि भवतो मतिः संयम एव लीनेति जानाम्यहम् । तथाऽपि भवान् गृहस्थाश्रम एव स्थित्वा 'पौषधरतः तपःकर्मनिरतश्च भूत्वा संयमं पालयितुं शक्नोत्येव ।
नमिः
भवतः कथनं विचारणीयम् । किन्तु भवतैतत् तु न कदाचित् श्रुतं स्यात् यद्यदि कश्चिदज्ञानतपस्वी प्रतिमासमुपोष्य पारणके च केवलं कुशाग्रमितमाहारं गृहीत्वा तपः करोति सोऽपि सुविहितधर्मस्य षोडशीमपि कलां नैवाऽर्हति । इन्द्रः नूनमश्रुतपूर्वं श्रावितवान् भवान् । अथ च भवतो राज्ये यः कोषोऽस्ति तस्य
१. जैनपरम्परानुसारि सर्वसांसारिकव्यापाराणां त्यागरूपमनुष्ठानमेकं यत्र गृहस्था आदिनं आरात्रं अहोरात्रं वा साधुवत् धर्माचरणनिरता भवन्ति ।
For Privateersonal Use Only
Page #71
--------------------------------------------------------------------------
________________
नमिः
वर्धनं तु भवत एव कर्तव्यम् । अतो भवान् सुवर्ण-रूप्यादिभिर्मणि-मुक्तारत्नादिभिरन्यैश्च सारस्वापतेयै राज्यकोषं पूरयित्वा वस्त्र-वाहन-भाण्ड-भाजनादीनां च संवर्धनं कृत्वा गृहत्यागं करोतु । भोः ! सुवर्ण-रजतादीनां सङ्ख्यातीताः कैलाससमाकाराः पर्वता अपि कदाचित् केनचित् प्राप्येरन् । तथाऽपि लोभाकुलचित्तस्य नरस्य तैरपि तृप्ति व भवेत् । यत इच्छानामन्त एव नाऽस्ति । तास्त्वाकाशसमा निःसीमाः । अपि च यदि कश्चिन्मनुष्यः सम्पूर्णां पृथ्वीमपि धन-धान्य-पशुभिः पूरितां प्राप्नुयात् तथाऽपि साऽपि तस्य सन्तुष्टये समर्था नैव भवेत् । अतः सन्तोष: संयमस्तपश्चैव श्रेयस्कराणीति मां प्रतिभाति । अस्तु । किन्तु भवत आचरणं ममाऽश्चर्यकरं प्रतिभाति । यतो भवान् इहलोके स्वयमेव प्राप्तानभ्युदितांश्च भोगान् त्यक्त्वाऽसतः सन्दिग्धांश्च पारलौकिकान ८ कामभोगान् प्राप्तुकाम इव यत्नवान् दृश्यते । एतेन सङ्कल्पेन भवान् दुःखमेव, यदि परं, प्राप्स्यति, नाऽन्यत् किञ्चित् । महाशय ! कामा भोगाश्च शल्यतुल्या अथवा विषतुल्याः सन्ति । अथवा किं बहुना? ते हि साक्षात् दृष्टिविषसर्पतुल्या आशीविषसर्पतुल्याश्च सन्ति । कामभोगान् प्रार्थयमानास्तत्प्राप्तये यत्नवन्तो वा जीवाः, दृष्टिविषसर्पस्य दृग्गोचरा जना मरणमिव, दुःखमेव प्राप्याऽतृप्ता एव दुर्गतिं प्रयान्ति । अन्यच्च, कामभोगान् प्राप्तुं, रक्षितुं, सेवितुं च क्रोधादयः कषाया अप्यादरणीया भवन्ति । क्रोधो हि दुर्गतेर्मुख्यं कारणम् । मानोऽधमां गतिं नयति । माया तु सुगतरर्गलायते । लोभाच्चेहाऽमुत्र चेत्युभयत्राऽपि भयम् । अत एतेभ्यो कामभोगेभ्यः कषायेभ्यश्च दूरे एव स्थातव्यम् । [ नमिराजर्षि दृढवैराग्ययुतं प्रव्रज्यायां स्थिरसत्त्वं च दृष्ट्वा तथा स्वीयप्रश्नानां तात्त्विकं समाधानं मोक्षसाधनायाश्च रहस्यमुपलभ्याऽत्यन्तं प्रसन्न इन्द्रो ब्राह्मणवेषं परित्यज्येन्द्रत्वेन च प्रकटीभूय तं वन्दते स्तौति च ।]
नमिः
For Private &
Conal Use Only
Page #72
--------------------------------------------------------------------------
________________
इन्द्रः
अहो मुने ! भवानेव यथार्थं संयमं पालयति । भवानेव याथार्थ्येन विजयी, यतो भवता क्रोधादय आन्तररिपवो लीलया जिता: । तथा भवानेव गुणानामाधारः, यतः क्षमा-मार्दवार्जव - सन्तोषादयो गुणा भवन्तमेवाऽऽश्रिताः । भवानिहाऽप्युत्तमः सच्चरितश्चाऽस्त्येव, प्रेत्याऽपि कर्मकलङ्कमपनीय नीरजीभूय च सिद्ध्यभिधं लोकोत्तमं स्थानं संप्राप्य शाश्वतं कालं सुखी भविष्यति ।
[ एवं मधुराभिर्वाणीभी राजर्षि संस्तुत्य प्रदक्षिणां च कृत्वा श्रद्धावनतः शक्श्चक्राङ्कुशादिवरलक्षणै राजमानं मुनेश्चरणयुगलं वन्दते स्म । ततोऽनुमति याचित्वा स आकाशमार्गेण निजस्थानं जगाम । मुनिरपि श्रामण्ये स्थिरप्रतिष्ठः सन् पृथिव्यामप्रतिबद्धतया विजहार । ]
[ उत्तराध्ययनसूत्रस्य नवमाध्ययनस्याऽऽधारेण सङ्कलितम् । ]
दीनानां कल्पवृक्षः स्वगुणफलनतः सज्जनानां कुटुम्बी आदर्श शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः । सत्कर्ता नाऽवमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो
एकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्वसन्तीव चाऽन्ये ॥
(मृच्छकटिकम्)
For Private Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
आस्वादः शान्तिः
आ.राजयशसूरिः
अस्मिन् जगति प्रायः सर्वेऽपि जीवाः शान्तिप्रियाः सन्ति । किन्तु शान्तिमनभिजानन्तस्ते तत्प्राप्त्यर्थं बाह्येषु भौतिकपदार्थेषु धावन्ति । अन्ततश्च नैराश्यमशान्तिमेव चाऽनुभूय दुःखीभवन्ति । अतोऽत्र चिन्तनीयं यत् वास्तविकी शान्ति का ? कथं च प्राप्यते ? इति ।
___ किं शब्दशून्ये स्थाने या नीरवता सा शान्तिः ? नैव, सा तु भ्रान्तिरेव । यतः ।। शान्तिप्रिया अपि जना धनप्राप्त्यर्थं वाणिज्यं कर्तुं यत्र कुत्रचिद् कोलाहलमयेषु स्थानेषु गच्छन्ति एव । तत्र च पूर्वोक्ता शान्ति व भवति । तथाऽपि तत्र धनप्राप्तिस्तु भवति । अतस्तादृशेऽशान्तियुते स्थानेऽपि तैः शान्तिरनुभूयते । अनेन ज्ञायते यत् यत्र स्वार्थसिद्धिर्भवेत् तत्र सर्वमपि शान्तिमयमनुभूयते । यत्र तु सा न भवति तत्र शान्तिरप्यशान्तीयते । अन्ततस्तु यस्य जीवस्य यत्र रुचिर्भवेत् तत्र तस्य शान्तिरेव । विपरीते त्वशान्तिरेव ।
एकदा मुम्बाईनगरे स्थितस्य मम पार्वे कश्चिज्जन आगतः । मया पृष्टं-कुत्र वसति भवान् ? तेनोक्तं - अहं वालुकेश्वरपरिसरे निवसामि । यतस्तत्र कदाऽपि शब्दलेशोऽपि न श्रूयते । नीरवा शान्तिरेव सदा वर्तते । अहं च नितान्तं शान्तिप्रियोऽस्मि ।
मया पृष्टं - तर्हि वाणिज्यमपि तत्रैव करोति ननु ? तेनोक्तं - नैव गुरवः । तत्तु मुम्बाईनगरस्य श्रेष्ठविपणौ गत्वा करोमि । ममाऽऽपणस्तत्रैव विद्यते ।
ननु तत्र तु सदाऽप्यशान्तिः कोलाहलश्चैव वर्तते । तर्हि कथं तत् भवतेऽनुकूलं स्यात् ? इति पृष्टे तेनोक्तं - प्रभो ! तत्र तु धनं प्राप्यतेऽतः कोलाहलोऽपि शान्तीयते। - एतच्छ्रुत्वा मया चिन्तितं यत् साधनशान्तिरेषा । सुखसाधनप्राप्तौ जनाः शान्ति6 मनुभवन्ति । किन्तु सा तु भ्रान्तिः । यतः सा नितरां पराधीना अन्ततो गत्वा च सा - दुःखेऽशान्तावेव च पर्यवस्यति ।
For Private e orsonal Use Only
Page #74
--------------------------------------------------------------------------
________________
वास्तविकी शान्तिस्तु निर्विकल्पे निराग्रहे च मनस्येवोद्भूयते । यदा यदाऽस्माकं । मनः विकल्परहितं निश्चिन्तमाग्रहमुक्तं च भवति तदा तदा तद् निर्मलां निरुपाधिकां च । शान्तिमनुभवत्येव । एषैव स्वाधीना शान्तिः । यद्यपि मनो निर्विकल्पमल्पविकल्पं वा । कर्तुं बहवः प्रयत्ना आवश्यकाः। प्रारम्भे च तत् कठिनमपि भवति । तथाऽपि, यथा नवीनं पादत्राणं धृतवन्तं प्रारम्भे पीडयति पश्चाच्चाऽभ्यासे जातेऽनुकूलीभवति तथा K शान्तिप्राप्तये क्रियमाणा साधनाऽपि प्रारम्भे कठिना भवति । अभ्यस्यमाना च हस्तगता भवति । तत्र चाऽभ्यासे मुख्यं सोपानं समतैव । सर्वपरिस्थितीनां स्वाभाविकः स्वीकारः,' अदैन्यं, परिस्थितेरनुकूला मनःस्थितिश्च तत्र सहकारिकारणानि । एतत् सर्वं प्रयुज्य : सकृत् शान्तिपथेऽवतारो यदा भवेत् तदा भौतिकी सर्वाऽपि शान्तिर्दुःखदा एव भासेत। त
- C/o. S.R.Bhansali 10, Anand Darshan - A, 5th Floor, Peddar Road,
Mumbai-400026
धर्मार्थकाममोक्षाणामारोग्यं साधनं मतम् । तस्मादारोग्यदानेन तद्दत्तं स्याच्चतुष्टयम् ||
-
For Price
& Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
आस्वादः
अहिंसा
मुनिविश्रुतयशविजयः
अहिंसाप्रियेऽस्माकं देशेऽप्यधुना हिंसायास्ताण्डवं प्रचलति । सामान्यजनास्त्वहिंसामधिकृत्य केवलं महावीरजन्मकल्याणकदिने बर्करी - ईददिने वा एवं विचारयन्ति यत्कया रीत्या कस्मिश्च स्थानेऽहिंसाप्रचारसभाऽऽयोजनीया, तथा जीवानां रक्षणाय मन्त्रिणामधिकारिणां च कथं वार्ता करणीया कस्मै वाऽऽवेदनपत्रं देयम् - इत्यादि । किन्तु तद्दिने व्यतीते तु सर्वमप्येतत् विस्मृतमेव भवति । अतीव शोचनीया परिस्थितिरेषा । अतो हिंसायाः प्रवर्धनमेव जायते ।
इह जगति यः कोऽपि जीवितधारी मनुष्यः पशुर्वा स्यात्, जन्मत आरभ्य तस्य लालन-पालनादि तु शाकाहारित्वेनैव भवति । यतः सिंही अपि स्वपोतं दुग्धपानेनैव पोषयति, तर्हि मनुष्याणां तु का कथा ? ये केऽपि जना मांसाहारस्याऽऽग्रहं कुर्वन्ति तेषामपि जीवनारम्भे तु शाकाहार एव भवति । पश्चादपि यदा ते मांसं खादन्ति तदाऽपि विना शाकाहारेण तेषां जीवनं स्वल्पेनैव कालेन समाप्तं भवेत् । अतो विश्वस्य सर्वेऽपि जीवाः शाकाहारिण एव ।
किञ्च, शाकाहारिणो जीवा मांसाहारिणो भवेयुरेवेत्येषा व्याप्तिस्तु नाऽस्ति । परन्तु मांसाहारिणो जीवास्तु शाकाहारिणो भवन्त्येव । यथा धूमसत्त्वे वह्निः स्यादेव यथा महानसे, परन्तु वह्निसत्त्वे धूमो भवेद् वा न वा, यथाऽयोगोलके । अतो विधायकदृष्ट्या तु सम्पूर्णं विश्वं शाकाहारि एव ।
“Diet for New America" इत्येतस्मिन् पुस्तके अमेरिकीयो धनपतिः होन्-रोबिन्स्-महाशयोऽतीव धनाढ्यः सन्नपि शाकाहारं प्रति अत्यन्तमादरवान् कथयति यत्-मांसाहारेणाऽस्माकं शरीरस्य जलस्रोतोऽल्पीभवति कुत्थितं च भवति ।
अन्यच्च, पयगम्बर- खलीफादीनां नैकेषां सूफीसाधूनां जीवने व्यवहारे चाऽहिंसाया एव प्राधान्यं दृग्गोचरीभवति । ते कथयन्ति यत् मनुष्य एवाऽत्र जगति सर्वजीवेषु
For Private Personal Use Only
စာဖွဲ့ခဲ့ သော
Page #76
--------------------------------------------------------------------------
________________
श्रेष्ठः । अतः शेषा जीवास्तमेवाऽऽश्रिताः सन्ति । अतो दयया प्रेम्णा चैव तेषां समेषां पालनं कर्तव्यम् । तथाऽऽवश्यकेषु स्थानेषु कार्यार्थं ते नियोक्तव्या अपि, परन्तु * निजभोगविलासार्थं ते न प्रयोजनीयाः । अत एवोष्ट्राणां कपोतानां कुक्कुटानां तथा- *
ऽन्येषामपि प्राणिनां हिंसा न केवलं कुरानेऽपि तु तेषां बहुषु धर्मग्रन्थेषु निषिद्धाऽस्ति, स्वयं पयगम्बर्-इत्यनेन स्वस्य पूर्वावस्थायां पशु-पक्षिणामुपरि या क्रूरताऽऽचरिताऽऽसीत् साऽपि तेन निन्दिताऽऽसीत् ।
तथोष्ट्राणां पृष्ठभागे विद्यमानः ककुद उपवेशने प्रातिकूल्यं जनयति स्मेति कृत्वा । 8 तत्कालीना जनास्तं छिन्दन्ति स्म । एषोऽपि कुत्सितो व्यवहारः महता परिश्रमेण बहूनां :
प्रभूतं विरोधं सम्मुखीकृत्याऽपि तेन निवारित आसीत् । तथाऽजानां पुच्छच्छेदनमपि
निवारितम् । किं बहुना ? एतादृशं कृत्यं तेन 'हराम्' इति शब्देनोद्घोषितम् । (यदीश्वराय 8 न रोचते तत् - 'हराम्' इति कथ्यते ।) चटकानामण्डानां भोक्तृन् प्रत्यपि स कुपित आसीत् इति श्रूयते ।
एवं स्थिते ये वस्तुतः पयगम्बर-इत्यस्याऽनुयायिनः सन्ति ते कथं हिंसका भवितुमर्हन्ति ?
अलं विस्तरेण । शास्त्रेष्वहिंसायाः फलं बहु प्रकारैर्वणितमस्ति । यथा
दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता ।। अहिंसायाः फलं सर्वं किमन्यत् कामदैव सा ॥
. (श्रीहेमचन्द्राचार्यविरचिते योगशास्त्रे ।) अतः सर्वेऽपि अहिंसायां यत्नवन्तो भवेयुरित्याशया विरमामि ।
..-00-...०.
..
RON
.
.
सेवितव्यो महावृक्षः फलच्छायासमन्वितः । यदि दैवात फलं नाऽस्ति छाया केन निवार्यते ? ||
.
KOA
For Private personal Use Only
www.jainelibrar
Page #77
--------------------------------------------------------------------------
________________
आस्वादः
चिन्तनधारा
"You only live once, live it right"
विहरन्तो गच्छन्त आस्म वयम् । एकत्र फलके दृष्टिः पतिता । तत्र चोपर्युक्तं वाक्यमेतल्लिखितमासीत् । पठनमात्रेणैवाऽऽत्मनि आनन्दस्पन्दनानि समुद्भूतानि ।
मनः सततमेषणापूर्त्तो व्यग्रं प्रवृतं चाऽस्ति परं आत्मा तु सत्यं प्रतीक्षमाण एव स्थितोऽस्ति । अत एव च यदा यदैतादृशस्य कस्यचिदपि सत्यमुद्घाटयतो दर्शनं ज्ञानं श्रवणं वा भवति तदा तदा तद् दृष्टं ज्ञातं श्रुतं वा मनः प्रदेशमुल्लङ्घ्याऽऽत्मप्रदेशं संस्पृशति - प्रविशति च । ततश्चाऽऽत्मन्यान्दानुभूतिर्भवति । अतः स्वाभाविक एवाऽयमात्मन्यानन्दस्य समुद्भवः । प्रथमदृष्ट्या त्वेतद्वाक्यम् 'एकमेव लघ्वपि च' इति प्रतिभाति । किन्तु 'परिमाणं हि शक्तेर्द्योतकम्' इति तु न सर्वदा सर्वत्र वा सत्यम् । एकस्याऽणोरूर्जायां कियती शक्तिर्विद्यते ? एतत्कथनं त्वत्राऽपि समानम् । अस्मिन् वाक्ये जीवनस्य सत्यं सन्निहितमस्ति । सत्यं त्वाणविक्या ऊर्जायाः पुञ्जरूपं भवति । तस्यां चोर्जायां परिवर्तनस्य सामर्थ्यं विद्यते । एकेनैव वाक्येन समग्रमपि जीवनं परिवर्तितं जातम् - इत्यस्याऽनेकान्युदाहरणानीतिहासपृष्ठेषु दृश्यन्त एव । परिवर्तनस्यैतादृशी शक्तिर्न केवलं वाक्यानां शब्दानां वाऽस्ति किन्तु तत्र सन्निहितस्य सत्यस्याऽस्ति । सत्यं सर्वदा शक्तिसम्पन्नमेव भवति । केवलं तां शक्तिमुपलक्षितुं ग्रहीतुं चाऽस्माकं संवेदनं जागृतं तीक्ष्णं च स्यादित्यावश्यकम् ।
-
मुनिरत्नकीर्तिविजयः
-
विज्ञानप्रधाने भौतिकेऽस्मिन् युगेऽपि 'जीवनतत्त्वमेव सर्वोपरित्वं भजते ' इति सत्यं त्वेवंरूपेणाऽत्र तत्र यदा कदाचिच्च प्रकटीभवदनुभूयते । किमपि कुर्वाणस्य चित्ते तत्करणकाले तदनु च प्रश्ना उद्भवन्ति – उद्भवनीया वा यत् अतः किम् ? अतः परं किम् ? अनेन वा कार्येण जीवने को लाभविशेषो भविष्यति ? इत्यादयः । एत एवाऽऽर्यप्रश्ना आर्षप्रश्नाश्च । एते एव जीवनं प्रति सावधानतां जनयन्ति, जीवनलक्षितां च प्रकटयन्ति । तदेवाऽध्यात्ममस्ति । अध्यात्मं प्रति च यस्य रुचिर्नास्ति स कथं नामाऽऽर्यः स्यात् ?
-
उपर्युक्तं वाक्यं जीवनलक्षितामुज्जागरयद् वाक्यमस्ति । "जीवनमेकवारमेव जीवितुं शक्यम्, तत् सम्यक् -शोभनं जीवतु " - कियत् सुन्दरमेतत् वचनम् ! जीवनं सुखेन जीव्येत
६४
Page #78
--------------------------------------------------------------------------
________________
सम्यग् जीव्येत चेत्यत्र महदन्तरमस्ति । सुखस्य सम्बन्धो भौतिकोपलब्ध्या सहाऽस्ति किन्तु सम्यक्त्वस्य सम्बन्धस्त्वात्मिकोपलब्ध्या सहाऽस्ति । सुखि जीवनं पुण्याधीनं चाऽस्ति परं सम्यग् जीवनं तु पुरुषार्थाधीनमस्ति ।
यस्य कस्याऽपि जीवनं यदस्माभिः सुखित्वेन कल्प्यते तत् सम्यग् भवत्येवेत्यत्र नाऽस्ति नियमः किन्तु यज्जीवनं सम्यगस्ति तत् सुख्येव भवतीति दार्त्स्न्येन वक्तुं शक्यते । अद्य वयं सम्यग् जीवनमुपेक्ष्य सुखि जीवनमेव कामयामहे, तत्रैव च प्रयत्नरताः स्मः । किन्तु यो जीवने सम्यक्त्वं साधयति सुखं तु तत्सन्निधौ स्वत एवोपस्थितं भवति । सुखं तु सम्यक्त्वस्य प्रतिच्छायाऽस्ति । मूलं वस्तु परित्यज्य यस्तत्प्रतिच्छायं ग्रहीतुं यतते तस्योभयमपि विनष्टं भवति । यश्च मूलं वस्तु गृह्णाति स उभयमपि प्राप्नोति । जीवने सम्यक्त्वमेव मूलं वस्तु, न सुखम् ।
1
कथं स्यादिदं जीवनं सम्यक् ? किं महता वैभवेन ? उत कयाचित् प्रतिष्ठया ? उच्चैः पदेन वा ? बृहता परिवारेण खलु ? नैव नैव नैव, नैतानि सम्यक्त्वस्य साधनानि । 'सुखस्य साधनानि ' इति कदाचिद् वक्तुं शक्यते । किन्त्वेतत्सर्वमपि तदैव सुखायते यदैतदस्मदधीनं वर्तेत । यदि वयं तदधीनास्तत्प्रतिबद्धा वा स्याम तर्हि तदेव दुःखायते । 'आत्मसामर्थ्यं विना नैतानि स्वाधीनानि कर्तुं शक्यते । आत्मसामर्थ्यं च गुणोत्कर्षेण विना न सम्भवति । गुणवांश्चैवाऽऽत्मा सामर्थ्यं भजति । यदि नाम वयं न तृप्तास्तर्हि वैभवः सुखं दातुं न समर्थ:, यदि नास्ति धैर्यमस्मासु तर्ह्यच्चैरपि पदं प्रतिष्ठा वा न तुष्टिं ददाति, यदि च वयमसहिष्णवोऽनुदाराश्च तर्हि परिवारोऽपि शल्यायते ।
वैभवपदप्रतिष्ठाद्युपलब्धावेवाऽस्माभिर्जीवनस्य साफल्यं परिगणितम् । किन्त्वेतेषामुपलब्धिरपि गुणानां सद्भाव एव सफला भवति, नाऽन्यथा, तर्हि जीवनस्य तु का कथा ? तत्तु गुणोत्कर्षं विना कथं सफलं सम्यग् वा भवेदेव ? एते तृप्तिधैर्यसहिष्णुतौदार्यादयस्तु गुणाः सन्ति । एतेषां गुणानामुत्कर्ष एव जीवने सम्यक्त्वमापादयति । एष गुणोत्कर्ष एव सम्यग्जीवनस्य मानदण्डोऽस्ति । अध्यात्मं नामाऽप्येष एव गुणानामुत्कर्षो दोषाणां चाऽपकर्षः, नाऽन्यत् किमपि । यच्च जीवनमेतेनाऽध्यात्मेन पल्लवितं भवति तदेव सम्यग् जीवनमस्ति । यदि नाम वयं सुखि प्रसन्नं च जीवनमभिलषेमहि तर्हि वाक्यमेतत् सततं संस्मृत्य गुणोत्कर्षरूपं सम्यक्त्वं जीवनेऽवश्यं साधनीयमस्माभिः ।
६५
Page #79
--------------------------------------------------------------------------
________________
आस्वादः
आर्यधर्मः - अहिंसा
- मुनिधर्मकीर्तिविजयः
नद्याः स्रोतस इव संस्कृतेः स्रोतोऽस्ति । यथोद्गमस्थानादारभ्य पर्यवसानान्तं नद्याः तत् स्रोतोऽन्यैरनेकैर्जलप्रवाहैर्युक्तं भवति । तत्र च कदाचिद् जलप्रवाहस्य वेगो वर्धते, कुत्रचिच्च स वेगो मन्दो भवति, तथा कदाचित्तु प्रवाहो मूलत एव परिवर्ततेऽपि । तथाऽपि सा नद्येव कथ्यते । तथैव द्रव्यक्षेत्रकालभावानुरूपं संस्कृतेरपि परावर्तनं भवत्येव, किन्तु तत्परिवर्तनमात्रेण 'संस्कृतिर्नष्टाऽभूत्' इति न वक्तव्यम् । सत्यमेतद् यत्, कदाचित्तस्याः संस्कृतेर्बाह्यस्वरूपम् अन्यदेव स्यात्, तथाऽपि तन्मूलं तु तदेव भवति, न कदाचिदपि तत् परावर्तते ।
बाह्यस्रोत आभ्यन्तरस्रोतश्चेति द्वैधं संस्कृतिस्रोतो विद्यते । तत्र भाषा - शास्त्रस्थापत्य-उपासनाविधि - मूर्तिविधान- उपकरण - सामाजिकव्यवहार-आचार - आहारविहारादिकं सर्वमपि कस्या अपि संस्कृतेर्विशिष्टं वर्तते । एतदेव संस्कृतेर्बाह्यस्रोतः (बाह्यस्वरूपम्) इत्युपलक्ष्यते । तथा समत्व - परोपकारवृत्ति - दया- शील-दान-औदार्यदाक्षिण्य-विनय-करुणादिगुणाः संस्कृतेराभ्यन्तरस्वरूपत्वेन निरूप्यन्ते । अत्र भारतेऽधुनाऽपि साऽऽर्यसंस्कृतिरुभयरूपा दृश्यते ।
अद्यपर्यन्तमेतस्या महत्या आर्यसंस्कृतेर्नाशार्थं नैकशोऽनेकैर्विधर्मिभिः प्रयत्नः कृतः । तैः विधर्मिभिः शिल्पस्थापत्यादिका बाह्यसंस्कृतिस्तु खण्डितैव, एवं तेन सहाऽऽभ्यन्तरसंस्कृतेर्विनाशार्थं चाऽपि प्रयासाः कृताः । पूर्वं यवनैर्बलादार्यजनानां धर्मान्तरं कारितम्, तथा यवनसंस्कृतिः स्वीकारिता । तत्पश्चात् कियत्कालात् पाश्चात्यैरार्यसंस्कृतेर्नाशार्थं प्रारम्भो विहितः, साम्प्रतमपि स प्रयत्नः प्रवर्तत एव । तैः पाश्चात्यैरतीव संपन्नदृष्ट्या बुद्धिपूर्वकं च स्वसंस्कृतेः प्रसारः क्रियते । अद्य भार सर्वत्र पाश्चात्यसंस्कृतेः पादप्रसारणमस्ति । तत्राऽपि दक्षिणभारते तु विशेषतोऽनुभूयते । दक्षिणभारते त्वास्तां बृहन्नगरेषु, अपि तु लघुषु ग्रामेष्वपि पाश्चात्यसंस्कृतिर्दृग्गोचरी भवति । “सर्वेऽपि भारतीयजना: क्रैस्तमतीयाः करणीयाः इति कृतप्रतिज्ञैः तैः
६६
Page #80
--------------------------------------------------------------------------
________________
- पाश्चात्यैर्भारते कैस्तधर्मप्रसारणस्य कृत एव बृहद्धनराशिनियोजितः । ततश्च ते पाश्चात्या * ग्रामेषु शालानिर्माणं धनगृहादिसाहाय्यं चैवं सामान्यजनोपयोगीनि कार्याणि कुर्वन्ति, * तेन सह तत्र तत्र क्रैस्तदेवालयम् (Church) ऊस्तधर्मप्रचारकसंस्था (Mission
ary) च निर्मान्ति । एवं साहाय्यस्य व्याजेन स्वधर्ममतान्धा अतृप्ताश्च ते मुग्धजनान् वञ्चयित्वा कैस्तधर्ममभ्याकर्षन्ति । एतेन माध्यमेन कुशलरीत्या शनैः शनैः आर्यजनानां हृदये तैः स्वसंस्कृतेर्बीजमारोपितमस्ति । कालान्त एकदाऽऽर्यजना अपि पाश्चात्यसंस्कृतेः संस्कारवशात् पाश्चात्यसंस्कृतिं स्वीकुर्युरिति मत्वा तैरपि निरन्तरमार्यसंस्कृतेः विनाशार्थं प्रयत्नः क्रियते । एवं विविधास्वापत्सु सतीष्वपि भारतीयजनैः ससन्मानं सगौरवं चाऽद्यावधि साऽऽर्यसंस्कृती रक्षिताऽस्ति । किञ्च, हन्त ! अधुना कियत्कालात् सा
संस्कृतिर्मन्दत्वं गता, शनैः हासमपि प्राप्ता । तथाऽपि तत्संस्कृतेर्हादं तु भारतीयजनानां र चित्ते प्रदीप्तमस्त्येव । तत एव मनसि निश्चितमस्ति यत्, एकदा साऽऽर्यसंस्कृतिः * पुनरुज्जीविष्यत्येव।
अथाऽत्र संस्कृतेर्मूले नैकान्यङ्गानि सन्ति । परहितचिन्तनं परपीडानिवारणं - * परार्थकरणं चैवाऽऽर्यसंस्कृतेः प्रमाणभूतान्यङ्गानि । यत्र परपीडां द्रष्टुमपि न कश्चित् । * पारयति तर्हि तद्दातुं तु कः पारयेत् ? अद्याऽऽर्यसंस्कृतेः प्राणभूताया अहिंसायाश्चर्चा * करणीया ।
अहिंसा त्वार्यसंस्कृतेर्जननी प्राणश्चाऽस्ति, तत एव भारतोऽहिंसाप्रेमी देश उच्यते । विश्वस्मिन् विश्वे भारत एवैकमात्रदेशो विद्यते, यत्र हिंसा पापमधर्मश्च तथाऽहिंसा पुण्यं धर्मश्चेति मन्यते । आस्तां हिंसया, अपि तु जीवानां पीडाकरणेऽपि पापमधर्मश्च भवति । एतादृशी परमाऽऽदरणीया श्लाघनीया चाऽऽर्यसंस्कृतिमें भारत एव प्रवर्तते, नाऽन्यत्र कुत्रचिदपि । भारतेऽस्मिन् जैन-बौद्ध-श्रौत-साङ्ख्य-योगन्याय-वैशेषिक-पाशुपत(शैव)-शाक्त-वैष्णव-मीमांसा-वेदान्तिन इति ये केचिदपि
धर्मसंप्रदायिनो दार्शनिकाश्च विद्यमानास्सन्ति ते सर्वेऽप्यहिंसामङ्गीकुर्वन्ति प्रमाणीकुर्वन्ति - चैव । तेषां शास्त्रेषु साम्प्रतमप्यहिंसां पुरस्कुर्वाणास्सन्दर्भाः (Reference) उपलभ्यन्त
एव ।
"
.
३
Mk
For Private
ersonal Use Only
Page #81
--------------------------------------------------------------------------
________________
यथा
तथा
तथा
न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ॥
इति महाभारतानुशासनपर्वणि ।
अहिंसा सर्वजीवानां सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः || १ || यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनः । इति मत्वा प्रयत्नेन त्याज्यः प्राणिवधो बुधैः ॥२॥
इति महाभारतशान्तिपर्वणि ।
भो ! भोः ! प्रजापते ! राजन् ! पशून् पश्य त्वयाऽध्वरे । संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥१॥
एते त्वां संप्रतीक्षन्तः स्मरन्तो वैशसं तव । संपरेतमयःकूटैः छिन्दन्त्युत्कटमन्यवः ॥२॥
इति भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने । एवं शिवपुराणादिषु हिन्दुशास्त्रेष्वन्येष्वपि हिंसाया निषेधः प्राप्यते । किञ्चाऽनार्यजनानां शास्त्रेष्वपि कुत्र कुत्रचिज्जीवहिंसाया निषेधः प्रतिपाद्यते ।
यथा - " नीस्त झंद खुरोने जानवरजू, चनीन अस्तदीने झरदूस्तनेक" । अस्याऽर्थः - अस्माकं जरथोस्तिधर्म एवं पावन: (नेक) यत्, पशून् हत्वा न तद्भक्षणं विधेयम्, न च तन्मृगया कर्तव्या ।
इति जरथोस्तिधर्ममान्ये शाहनामाग्रन्थे । तथा - "मजदाओ अकामरो दईओ गेओइ । मरेंदान ओरु ओखश ओखती जीओ तुम । अएरीअ मनश् च । नदेंनतो गेओश् चा वाशतराद् अवेशतम | मन तू ईअशते वीशपे म जेशतेम शराशेम जवीआ अउ अंबानो" ।
अर्थः- ये चतुष्पदानां पशूनां मारणे सन्तुष्टं जीवनं मन्यन्ते, ये वा तान् छित्वा भक्षणायाऽऽदिशन्ति ते होरमजदेनाम्ना पारसिकपरमेश्वरेण वध्याः । यद्वा ते दुष्टा
For Privateersonal Use Only
Page #82
--------------------------------------------------------------------------
________________
दूरीकर्तव्या: । ये जनाः पवित्रनिर्देशानवगणय्य 'पशून् छित्वा भक्षणं विधास्यामः' इति दुष्ट विचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुम् अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते ।
इति पारसिकधर्ममान्ये इस्त्रेनामकग्रन्थे ।
I
तथा - रावजीवोरा जातीया ये प्रसिद्ध्या लोटीयावोरा उच्यन्ते । तेषां ग्रन्थे गदितम्
“फला तज अलू बुतून कुम मकावरल हयवानात" ।
अर्थः- पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्याः । अर्थात् पशुपक्षिणो हत्वा नाऽत्स्यतीति ।
तथा - "व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजक - कुमुल्लहो" । अर्थः- अल्लानामेश्वरेण चतुष्पदेषु कतिचिद् भारोद्वहनाय सृष्टाः । भक्षणाय च भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद् यूयमद्यातं ।
इति महम्मदीयधर्मे कुरानेशरीफनामग्रन्थे । एवं कुरानेशरीफनामग्रन्थ एव स्पष्टतया रुधिरमांसभक्षणनिषेध उक्तः । तथा च बकरीईद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः कथितोऽस्तीति ।
तथा "Thou Shalt not kill (Advice to moses)" ||
अर्थः- त्वं न कमपि जीवं हन्याः ।
-
इति बाइबलनामकग्रन्थे । एवं सर्वेषु ग्रन्थेषु हिंसानिषेधोऽस्त्येव । सत्यमेतद्, किन्तु तत्राऽहिंसायाः स्वरूपनिरूपणे तारतम्यं वर्तते । तत्र
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा |
इति बौद्धा आहुः ।
For Private Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
-
केषाञ्चिन्मते पृथिव्यादीनां जीवानां वधे न पापम्, अन्येषां मते वनस्पतीनां हिंसायां न पापम्, अपरेषां मते द्वीन्द्रियादीनां जीवानां घाते न पापम्, केषाञ्चिन्मते स्वधर्मानङ्गीकृतमानवानां वधे न पापम्, इति ब्रुवन्ते ते। जैनानां मतेऽहिंसायाः सर्वोत्कृष्टं निरूपणं दर्शितम् । अत्र तु जीवमात्रस्य हनने पापं वर्णितम् । अतिसूक्ष्मजीवानामपि प्राणेभ्यो वियोगो नाम हिंसेति कथ्यते । कथितं च - पञ्चेन्द्रियाणि त्रिविधं बलं चो-च्छ्वासनिःश्वासमथान्यदायुः ।
प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ।। वाचकश्रीउमास्वातिमहाराज आह___'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' । (तत्त्वार्थसूत्रम्- ७/८)
एषा तु स्थूलहिंसा प्ररूपिता । एवं च सूक्ष्महिंसाऽपि वर्णिता । केषाञ्चिदपि जीवानां दुष्टचिन्तनमशुभचिन्तनं नाम हिंसा, तेषां जीवानामवमाननं दुःखोत्पादनं चाऽपि हिंसा । एतादृश्या अहिंसायाः प्ररूपणं केवलं जिनमत एवोपलभ्यते, नाऽन्यत्र कुत्रचिदपि। जिनमते त्वहिंसायाः प्राधान्यमतीव वर्तते । अत्र तु महाव्रत-अणुव्रतनियमादिषु प्रथमाऽहिंसा प्रोक्ता, तत्पश्चादेवाऽन्यत् सर्वं व्रतादिकम् । अहिंसाव्यतिरेकेण न किमपि व्रतं, न काऽपि क्रिया यथार्था-चरितार्था वा भवति । तत एव जिनवरैर्भाषितं यत्, अहिंसैवैकं व्रतम्, अन्यानि सर्वाणि व्रतानि तस्याऽहिंसाव्रतस्य रक्षणार्थं सन्तीति । उक्तं च- इक्कं च्चिय इत्थ वयं निद्दिटुं जिणवरेहिं सव्वेहिं ।।
पाणाइवायविरमणं अवसेसा तस्स रक्खट्ठा ॥१ एवं भारतदेशेऽहिंसा तु सर्वमान्यो निखिलदर्शनप्रणीतश्च धर्मोऽस्ति, अत आर्यधर्मोऽहिंसेति कथने न कोऽपि संशयावकाशः । तेनाऽहिंसाबलेनैव विश्वे वर्तमानायाः समस्ताया अपि संस्कृतेः सर्वोपरित्वं प्राप्तमार्यसंस्कृत्या । एतदृष्ट्यैवाऽन्येषां देशानां तुलनायां भारतो महान् श्रेष्ठश्च देशो मन्यते ।
___ अथेदानीमत्र तत्र सर्वत्र हिंसैव दरीदृश्यते, तथाऽपि हिंसायुगेऽप्येतस्मिन् १. एकमेवाऽत्र व्रतं निर्दिष्टं जिनवरैः सर्वैः ।
प्राणातिपातविरमणमवशेषाः तस्य रक्षार्थम् ॥
-
*
For Private Versonal Use Only
Page #84
--------------------------------------------------------------------------
________________
"
"
ACAAAALAatabaca
.
.
१
.
.
* भारतेऽहिंसायाः प्राधान्यं दृग्गोचरीभवति । अत्रत्यानामार्यजनानां हृदये दया कारुण्यं -
चाऽपि विद्यते । तदा च तत् कथं कुतः केन कारणेन चेत्यादयो नैके प्रश्नाश्चित्त , उद्भवन्ति । तेषां प्रश्नानां प्रत्युत्तरमितिहास एव ददाति, तथाऽपि तदितिहासमनुसृत्य मयैतदेवोच्यते यद्, भारते दृश्यमानाया एतादृश्या अहिंसाया: परम्पराया रक्षणे मुख्यप्रदानं जैनानामस्ति । तद् दृष्ट्वैव च भारतीयजनपदस्य नेत्रा श्रीलोकमान्यतिलकमहोदयेन "गूर्जरदेशे दृश्यमानाया एतादृश्या अहिंसाभावनाया मूलं जैना" इत्युक्तमासीत् ।।
जिनमतेऽहिंसायाः प्रतिपादनं सर्वकालिकमस्ति । सर्वैरपि तीर्थकृद्भिरहिंसैव निरूपिता। गदितं च - जे जिणवरा अईया जे संपइ जे अणागए काले । __सव्वेवि ते अहिंसं वदिसु वदिहिति विवदिति ॥१
(श्रीआचाराङ्गसूत्रस्य नियुक्तौ-२२६) * तथैव चतुर्विंशतितीर्थकरैरार्यदेशेऽहिंसायाः परम्परा रक्षिता, एवमार्यजनानां - * हृदयेऽहिंसाया बीजं स्थापितम् । पश्चाच्च क्रमशः प्रतिशतकं बहवस्समर्था जैनाचार्या *
आर्यभूमौ सञ्जाताः, यैरहिंसायाः सा प्रणालिका ससन्मानं रक्षिता । अत्र तेषां सर्वेषां वर्णनं कर्तुं न प्रस्तुतम्, तथाऽपि किञ्चिद् लिखामि, येन ज्ञायते यद्, जैनाः कीदृश्यां कठिनस्थितावपि कया रीत्याऽहिंसापरम्परां पालयाञ्चक्रुरिति ।
एकादशे शताब्दे 'कलिकालसर्वज्ञ' बिरुदविभूषितः पूज्यपादश्रीहेमचन्द्रसूरीश्वरो - बभूव । येन गूर्जरपतिः सिद्धराजजयसिंहः प्रतिबोधितः । तस्योत्तराधिकारी कुमारपालो गूर्जरनरेश्वरोऽभूत्। आचरणपूर्वकेण सदुपदेशदानेन तेन सूरिणा विबोध्य स जैनः श्रावकोऽकारि । तद्द्वारेणाऽहिंसाया भावना यादृशी पुष्टीकृता यादृशश्च प्रचारः कृतः,
तत्त्वनन्यमेव । तस्मिन् काले चौलुक्यवंशस्य कुलदेवी कण्टकेश्वरी आसीत् । तस्या - देव्याः समक्षं नवरात्रमहोत्सवेऽनेकेषां पशूनां बलिर्दीयते स्म । तथा तत्रत्याजना - मन्यन्ते स्म यद्, यदि न बलिर्दीयेत तदा चौलुक्यवंशो नश्येते'ति । ततश्च सर्वैर्वंशजै
१. ये जिनवरा अतीता ये सम्प्रति येऽनागते काले । * सर्वेऽपि ते अहिंसामवदन् वदिष्यन्ति विवदन्ति ।
"
MALoan
J
.
For Private७१rsonal use only
Page #85
--------------------------------------------------------------------------
________________
- राजभिश्च तां परम्परामनुसृत्य बलिरदीयत । किन्तु श्रीहेमचन्द्रसूरीश्वरस्योपदेशात् । * श्रीकुमारपालेनाऽनन्यश्रद्धयाऽऽत्मनिष्ठया चैषा प्रणालिकाऽवरुद्धा, तथा चाऽसङ्ख्येभ्यो **
जीवेभ्योऽभयदानं दत्तम् । एवं तस्मिन् काले महोत्सवादिकार्यक्रमेषु प्रवर्तमाना * देवबलिरूपा मांसादिभोजनस्य प्रणालिका च निषिद्धा । तथाऽष्टादशसु राज्येषु 'अमारिघोषणा' उद्घोषिता। बहवः सूनकपरिवाराः सूनागृहव्यापाराद् विमोच्याऽन्यव्यापारेषु नियोजिताः । तदा सूक्ष्मजीवस्य हिंसाऽपि राज्यापराधत्वेन परिगण्यन्ते स्म, तान्यप्राणिनां मनुष्याणां च हिंसायाः का वार्ता ? एतादृशी नीतिस्तदा प्रावर्तत । एवमाचार्येण कुमारपालोऽहिंसायां प्रवर्तितः । ततश्च ग्रन्थेषु श्रीहेमचन्द्रसूरिणः प्रशस्ति: कृताऽस्ति । प्रोक्तं च- सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा न हि मृगी मृगयोः सकाशात् । नि
जीयादसौ चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥
पश्चात् षोडश्यां शताब्दयां 'जगद्गुरु'बिरुदालङ्कृतः पूज्यः श्रीहीरसूरीश्वरोऽस्मिन् जगत्यवातरत् । अस्मादृशानां निःसत्त्वजीवानां कृते तेन गुरुणाऽहिंसाया माहात्म्यं भारते यथा प्रस्थापितं तस्य वर्णनं तु दूरे, कल्पनाऽप्यशक्याऽस्ति । यदा देशस्य राजा मुसलमीनो भवेत्, सोऽपि हिन्दूनामात्यन्तिको विरोधी स्यात्, तत्कालीना राज्यस्थितिश्चाऽपि हिन्दुत्वस्य प्रतिपक्षिणी स्यात्, यस्मिन् काले हिन्दूनां पवित्रस्थानानां खण्डनस्य परम्परा दृश्यमाना स्यात्, सदा विधर्मिभिर्धर्मान्तरं क्रियमाणं स्यात्, एवं सर्वत्र हिंसायाः ताण्डवमेव दृश्यमानं स्यात्, तादृशे कालेऽहिंसायाः प्रतिष्ठा त्वतीव दुष्करा । तथाऽपि तेन श्रीहीरसूरिगुरुणा परमधर्मनिष्ठयाऽपूर्वसत्त्वबलेन चाऽतिक्रूरहिंसक-मुसलमीनसम्राजोऽकब्बरस्य द्वारैवाऽऽर्यदेशेऽस्मिनहिंसायाः पालनं कारितम् । ' एतत्तु कलियुगस्याऽस्यैकं महदाश्चर्यमस्ति ।
अकब्बरराज्ञः शासने हिंसायाः प्रामाण्यमुत्कृष्टतया प्रवर्तते स्म । स हिंसाप्रेमी निष्करुणः क्रूरो निष्ठुरश्चाऽऽसीत् । ततः केषाञ्चिदपि जीवानां पीडने तस्य राजश्चित्ते. महानानन्दो जायते स्म, तृप्ति चाऽनुभवति स्म सः । यदा स मृगयार्थं वनं गच्छेत्तदा स लक्षाधिकप्रमाणान् जीवान् हन्ति स्म । तेन 'डाबरे'त्यभिधानं सरः कारितम्, तत्राऽनेकेषां मत्स्यादिजीवानां प्रतिदिनं हिंसा प्रवर्तमानाऽऽसीत् । स प्रतिदिनं केवलं
For Private 19?rsanal Use Only
Page #86
--------------------------------------------------------------------------
________________
.
.
JERI
- प्रातरशन एव पञ्चशतप्रमितानां चटकानां जिह्वाया उपसेचनं (चटनी) विधायाऽभक्षयत्। -
एवं विविधरीत्या स प्रतिदिनं नैकान् जीवानहिनत् । तादृशं हिंसकमकब्बरराजं - प्रतिबोध्य तेन सूरिणा स हिंसाया निवर्तितः, तथा तस्य राज्येऽपि स्थापिताऽहिंसा । * गुरोरुपदेशात्तेन राज्ञा 'पर्युषणा'महापर्वादिदिनेषु स्वकीये शासित प्रदेश 'अमारिघोषणो'- *
द्घोषिता । तथा गुरोर्वाण्या स राजाऽतीव प्रसन्नो बभूव । तेन च स्वयमेव स्वजन्मदिने में पुत्रपौत्रादिजन्मदिनेषु तथा 'बकरीईद'दिनेऽपि निखिले शासितप्रदेशे 'अमारिघोषणा' प्रसाधिता । एवमेकस्मिन् वर्षेऽशीत्यधिकशतदिनप्रमाणा 'अमारिघोषणो'द्घोषिता तेन राज्ञा । श्रीहीरसूरिभगवत एतादृशं परं सत्त्वं निर्मलतां चारित्रनिष्ठां निःस्पृहतां च निरीक्ष्य प्रभावितेन तेन राज्ञा तस्मै गुरवे 'जगद्गुरुः' इति बिरुदं प्रदत्तम् । तस्मिन् र
काले सर्वधर्मसंप्रदायानां बहवस्समर्था विद्वांसो गुरव आसन्, तथाऽनेके मुसलमीन- - * साधवः(फकीर) आसन्नेव । तथाऽपि न कस्मैचिदपि, अपि तु जैनगुरव एवैतादृशं * बिरुदं दत्तं, तदेव तद्गुरोर्महत्तां प्रतिष्ठां च दर्शयति । एवमेकेन जैनगुरुणा मुसलमीनराजस्य और शासनेऽप्यहिंसायाः प्रणालिका रक्षिता ।
इदानीमेकोनविंशतिशताब्देऽपि जिनमतप्रभावकस्समर्थः शासनसम्राट श्रीनेमि- र सूरीश्वरगुरुः बभूव । तेन गुरुणा गूर्जरसत्कस्य सौराष्ट्रान्तर्गतेषु ग्रामेषु समुद्रतटे च **
विहत्याऽनेके क्रूरा हिंसकजना हिंसायाः प्रतिनिवर्तिताः । तद्रूपेण चाऽऽर्यदेशेऽहिंसा - * प्रस्थापिता ।
एवं पूर्वतनकालादारभ्याऽद्यावधि जैना अहिंसायाः परम्पराया रक्षणमकुर्वन् । * साम्प्रतमपि विशेषतो जैना एव प्रवर्तमानां हिंसां निरोद्धं सततं प्रयतन्ते । अतो * जैनानामेतादृगहिंसानिष्ठावशादेव अद्याऽपि भारते निराधाराणां मूकानां प्राणिनां रक्षणार्थं - नैकेषु स्थलेषु पशुरक्षाशालाः ( पाञ्जरापोल) प्रचलन्ति । भारते प्रवर्तमानाभ्यस्ता- Y भ्योऽशीतिः प्रतिशतं पशुरक्षाशालानां निर्वहणं जैना एव कुर्वन्ति, न काऽप्यतिशयोक्तिरत्र। तेषां जीवानां रक्षार्थं जैनैरेव पुष्कलं धनमपि व्ययीक्रियते। इतिहास एतादृशान्युदाहरणान्यपि दृश्यन्ते यद्, दुर्भिक्षसमये केवलमेकेनैव जैनश्रेष्ठिना समस्तराज्यस्य पोषणं कृतमिति । एवं जैनानामेतादृशदृढनिष्ठावशादन्येषां जनानां चेतस्यप्यहिंसाया
JA-C
MJJAMAJMAJJAJAN
TERRERAKERS
For Priv 9
Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
माहात्म्यं सञ्जातम्, तथाऽहिंसां प्रत्यनुरागोऽपि तन्मानसे जातः । अधुनाऽपि यत्र यत्र - * जैना वसन्ति तत्र तत्राऽन्ये जना अप्यहिंसां प्रत्याकृष्टा दृश्यन्ते । एवं यथा ** * जगद्गुरुश्रीशङ्कराचार्येण भारते सर्वत्र ब्रह्माद्वैतस्य विजयस्तम्भः प्रस्थापितः तथैव र
भारते सर्वत्र जैनैरहिंसाद्वैतस्य भावना दृढीकृता । एवं भारतेऽहिंसायाः प्रतिष्ठायां * जैनानां प्रदानममूल्यमस्ति ।
वस्तुतो भारते प्रवर्तमानेषु सर्वेष्वपि धर्मसंप्रदायेषु धर्ममतेषु चाऽहिंसायाः प्राधान्यं न्यूनाधिक्ये नाऽस्त्येव । तत एव चाऽऽर्यजनानां कृते जीवदया तु रक्तगतेवाऽस्ति। अत एव हिंसा पापं मन्यते, तथा यदा प्रमादेनाऽपि जीववधो भवति तदा मनसि ग्लानिः खेदश्च सञ्जायते । एतादृशी श्रेष्ठा संस्कृतिर्मे भारतस्याऽस्ति । एतस्या आर्यसंस्कृतेः / केवलं भारत एव रोगिणां मूकानां निराधाराणां च जीवानां निर्वाहार्थं सर्वत्र व्यवस्था कृता दरीदृश्यते, तथा च तत्रैव तेषां प्राणिनां सवात्सल्यं सादरं च पालनमपि भवति, एतदेवाऽऽर्यदेशस्य गौरवमस्ति । विश्वे नैतादृशी संस्कृतिः कुत्राऽपि निरीक्ष्यते । अन्यत्र त्वेते प्राणिनो देशस्य भाररूपा इति मत्वा तान् घातयन्ति । कुत्रचित् प्राणिनो रोगिणस्स्युस्तदा सर्वकार एव तेषां हत्यां कारयति । सांप्रतमेव कर्णपथमागतं यत्, अमेरिकादेशे गवां शरीरे कश्चिद् रोगः प्रादुर्भूतः । तं रोगसङ्क्रमणम् (Infection) अन्यत्र न स्यादिति कारणमात्रमवलम्ब्य श्रीकारादेशेन सप्तलक्षमिता गा घातिताः । चीनदेशे मार्जाराणां देहे 'सार्स' नामको रोगोऽजनिष्ट । ततस्सर्वकारेणाऽनेकेषां मार्जाराणां हत्या कारिता । एतादृशी निघृणता निष्ठुरता चाऽनार्यदेशेष्वेव संभवति । स्वसुखार्थं जीवनार्थं च दुर्बलानां प्राणिनां घातो दयनीयो जुगुप्सनीयो लज्जास्पदं चाऽस्ति । भारतदेशे यावदेषाऽऽर्यसंस्कृतिविद्यते तावन्न कदाऽपि भारतीयजना दुःखिनो भविष्यन्ति, तथा च विश्वसमक्षं सोन्नतशीर्षं सगौरवं च जीविष्यन्ति । कदाचित् परदेशीयजना:अनार्या भौतिकदृष्ट्या सुखिनस्स्युः, किन्त्याध्यात्मिकदृष्ट्या तु भारतीयाः-आर्या एव । तत एव भारतीयजनान् स्वसंस्कृतेर्विचालयितुं विश्वस्य न काऽपि शक्तिः समर्थाऽस्ति ।
हन्त ! अस्माकमार्यजनानामेष भूतकाल आसीत् । इदानीं तु परिस्थितिविपरीतैव - दृश्यते । आर्यसंस्कृतिः शनैः शनैहसिं गच्छति । तथा निःसत्त्वानामस्माकमुपेक्षा
वशादार्यसंस्कृतिः मृतप्राया वर्तते । भारते धर्मस्य प्रभावो विशेषतः प्रसृतः ।
"
"
"
"
"
C
JY
"
"
For Private 9%rsonal Use Only
Page #88
--------------------------------------------------------------------------
________________
Y
आर्यसंस्कृतिरक्षणस्य व्याजेन यत्र तत्र सर्वत्र बहूनि मन्दिराणि धर्मस्थानकानि च र निर्मीयन्ते । एवं च 'संस्कृतिरक्षकोऽहमिति विशेषणस्य भारं स्कन्धमारोप्याऽनेके *
सज्जनास्साधवश्च प्रतिदिनं संस्कृतिरक्षणस्य भाषणमपि ददति । किन्तु अत्यन्तदुःखदा । घटनाऽस्ति यत्, यावती धर्मवृद्धिर्भवति तावती हिंसाऽपि वृद्धिङ्गताऽवलोक्यते । अहो ! किमार्यजनानामेतद् वैचित्र्यमाहोस्वित् मूर्खत्वम् ? गौस्त्वार्यजनानां जननी कथ्यते । प्रतिदिनं तां सादरं पूजयन्ति नमस्कुर्वन्ति चाऽऽर्यजनाः । तथाऽप्यस्मिन् देश एव जनसमक्षं निराबाधं जननीरूपाणां गवां हत्या भवति, तथा च तासामेव मांसादिकं मांसान्वितभोज्यपदार्थं च वयं सानन्दं भोजयामः एवं तन्मांसनिर्मितानि जीवनोपयोगीनि वस्तूनि युमः । कुत्रचिद् नागदेवस्य पूजा क्रियते । दुग्ध-घृतशर्करादिद्वारेण बिलस्थितान् व्यालान् वयं पूजयामः । किन्तु यदि ते बहिरागच्छेयुस्तदा ते पूजका एव तान् घ्नन्ति । किमेषा पूजा प्रत्युताऽवहेलना ? यस्मिन् देशे हिंसा पापममन्यत तत्रैवाऽद्य निष्ठुरतयाऽनवरोधं प्रत्यक्षं हिंसा प्रचलति । न केवलं नगर एव, अपि तु प्रत्येकं ग्रामेष्वपि सूनागृहाणि प्रवर्तन्ते । अद्य भारत एव विश्वविख्यातानि सूनागृहाणि प्रचलन्ति । भारते कतिपया ग्रामास्सन्ति, यत्र केवलं हिन्दव एव वसन्ति, तादृशेषु ग्रामेष्वपि विनाऽवरोधं सूनागृहाणि प्रवर्तन्ते । भारते बकरीईददिने यावान् जीववधो भवति, ततोऽप्यधिकः पशुबलिर्देवदेवीभ्यो दीयते, इति श्रुतमस्ति । भारते कियती हिंसा भवति, तत्र भारतसर्वकारस्येयं गणना
ई.स. १९९०-९१ वर्षे ६३,५०२ टनमानस्य महिषमांसस्य तथा ८३३८ टनमानस्य छागमेषाणां मांसस्य निर्यातनं जातम् । ई.स. १९९४-९५ वर्षे निर्यातने वृद्धिः सञ्जाता । तस्मिन् वर्षे महिषमांसस्य १,१६,१३७ टनमानं छागमेषाणां च मांसस्य प्रमाणं १०,८१९ टनमानमासीत् । ई.स. १९९९-२००० तमे वर्षे १,६७,२९९
टनमानस्य महिषमांसस्य १२,४१९ टनमानस्य च छागमेषाणां मांसस्य निर्यातनं जातम् । - परन्तु एकविंशतितमशत्यां तु भारतश्रीकारेणैवमूहितं यद् "अधुनाऽपि कृशकायानां - पशूनां सूनाकार्ये न्यूनता दृश्यते । एतादृशेन सूनाकार्येण तु डोलराख्यधनराशेः पर्जन्यो र
- वर्षति तयौदार्यमाचरति विश्वेऽस्मिन् कथं नाम भारतदेशः पृष्ठे वर्तेत ?" इति । * * अतः ई.स. २००१-२००२ तमे वर्षे तु भारतश्रीकारेण २,८८,००० टनप्रमाणं का
. C
CCCC
ALLINAR
For Private
personal Use Only
Page #89
--------------------------------------------------------------------------
________________
महिषमांसस्य निर्यातनमादिष्ट अस्ति । मांसस्य समग्रस्याऽप्युत्पादनस्य प्रमाणं ७२,००,००० टनमानं भवति । एवं प्रतिदिनं मांसस्य निर्यातनं निरन्तरं वर्धते एव । न चैतावताऽपि ते तृप्यन्ति । ते तु यावत्प्रमाणाः पशवो विद्यन्ते तेषां समेषामपि सूनां कृत्वा तन्मांसस्य निर्यातनं कर्तुमभिलषन्ति । एतेन ज्ञायते यद्, भारते प्रतिवर्षं कियती हिंसा प्रवर्तते ।
"अहिंसाप्रिये भारतेऽपि कथमियती हिंसा वर्धते " इति विचार्यते तदा मनसि त्रीणि कारणान्युद्भवन्ति । १ - अधिकारिजनानामहिंसाया उपेक्षा । २ - धनिककुलेषु मांसादिभोजनस्याऽऽगमनम् । ३ - पाश्चात्यसंस्कृतीनामनुकरणम् ।
तत्राऽस्माकं राज्याधिकारिणो धनिकाः प्रसिद्ध श्रेष्ठिनश्चैवाऽहिंसामुपेक्ष्य हिंसामेवाऽङ्गीकुर्वन्ति । अस्मदीयो भारत श्रीकार एव परदेशीयडोलराद्याख्यधनलोभेन च प्रतिदिनमभिनवानां सूनागृहाणामुद्घाटनस्याऽनुमति हिंसकवस्तूनामुत्पादनार्थं विक्रयार्थं चाऽऽज्ञामपि ददाति । सर्वकारस्यैतद्दुष्टनीत्या वशादेवाऽहिंसाप्रेमिणि भारतजनपदे हिंसाया एतावदाधिक्यं दृश्यते । तथा च तद्वशादेव भारतीयानां पवित्रधर्ममन्दिराणि धर्मस्थानका नि चाऽपि भ्रष्टान्यमेध्यानि चाऽभवन् । जैनानां पवित्रतमं श्रीशत्रुञ्जयमहातीर्थमस्ति । तत्रैव न केवलमेकम् अपि तु श्रीकारेणाऽऽदिष्टान्यनेकानि सूनागृहाणि निराबाधं प्रवर्तन्ते, तथा श्रीकारेणाऽननुमतानि तु यानि सूनागृहाणि सन्ति, तेषां तु गणनाऽप्यशक्याऽस्ति । हिन्दुजनानां श्रीसोमनाथ - द्वारकादीनि पवित्रतीर्थस्थानानि विद्यन्ते तानि तु हिन्दूनां प्राणरूपाणि श्रद्धास्पदानि च सन्ति । तथाऽपि तेषु धर्मस्थानेष्वेव विशेषतो मत्स्यग्रहणवाणिज्यं भवति । हन्त ! एकतः प्रभुपूजा, अपरतस्सन्मुखमेवाऽनेकेषां जीवानां निष्ठुरतया संहारः । "अहो ! एतत् सर्वमपि हिन्दुजनानामेव श्रीकारस्याऽऽदेशतः प्रवर्तते" इत्येव महत्याश्चर्यकारिणी घटनाऽस्ति । अस्माकं दयनीया लज्जनीया च स्थितिः कथं वर्ण्येत ? एते खलु हिन्दुराष्ट्राधिपा देशनेतार एषु तीर्थस्थानेष्वेव श्रद्धापूर्वकं मनोवाञ्छापूर्त्यर्थं दर्शनार्थं च पुनः पुनरागच्छन्ति । स्वसत्तारक्षणार्थं काञ्चित् प्रतिज्ञामपि कुर्वन्ति । पश्चादत्रैव बृहत्या जनसभायाः समक्षं हिन्दुत्वं पुरस्कृत्य देशरक्षणस्य तीर्थस्थानरक्षणस्य चोच्चैरुच्चैर्भाषणं ददति । एवं च तानि स्थलानि 'पवित्रतीर्थानि ' (Holi city) इति प्रसिद्धयन्त्यपि ते । पश्चात् स्वस्थानं गत्वा तत्रैव तीर्थेषु सूनागृहाणां
७६
Page #90
--------------------------------------------------------------------------
________________
संमतिमपि यच्छन्ति त एव । अहो ! कीदृशं वैचित्र्यम् ? साम्प्रतं किञ्चित्कालात् पूर्वमेव भारतेऽहिंसोपदेशक श्रीमहावीरप्रभोः षड्विंशतितमशतजन्मशताब्दीमुपलक्ष्य “एष वर्षोऽहिंसावर्षः" इत्युद्घोषितं श्रीकारेण । पश्चात्तेनैव श्रीकारेणाऽनेकेषां सूनागृहाणामनुमतिरपि विहिता । कीदृशी स्वप्रजावञ्चनाऽऽत्मवञ्चना च खलु ! किं तैः निर्लज्जताया अवधिरप्युल्लङ्घिता ? । तदैतादृशीं निम्नां स्थितिं निरीक्ष्य " किमेषाऽऽर्यनीतिः प्रत्युताऽनार्यनीति: ? एते धर्मरक्षका आहोस्विद् धर्मभक्षका: ? राज्यप्रेमिण उत राज्यद्रोहिणः" इति मनः कल्पते ।
अस्माभिः पूर्वमेव ज्ञातं यद्, अस्मत्पूर्वजैः क्रूरान् हिंसकान् मुसलमीनराजानपि विबोध्य निखिलेऽपि भारतेऽहिंसायाः प्रवर्तनं कारितम् । इदानीं तु हिन्दू राजा हिन्दव प्रजाः, तथाऽपि सर्वत्र हिंसाया एव साम्राज्यं दृक्पथमायाति । हिन्दुजनानां साहाय्येनैवाऽधिकारिणो राज्यं शासति, किन्तु ते हिन्दवधिकारिण एव हिंसां समर्थयन्ति प्रोत्साहयन्ति च । एतत्त्वार्यसंस्कृतेर्हिन्दुत्वस्य च परमं कलङ्कमवमाननं चाऽस्ति । एवमस्माकं राज्याधिकारादीनामार्यसंस्कृतेरहिंसायाश्चोपेक्षावशादेव भारतदेशे एवंरीत्याऽनवरोधं हिंसा प्रचलति ।
किञ्च यदा सूक्ष्मदृष्ट्या निरीक्ष्यते तदा वयमप्यत्र दोषाधिकारिणस्स्म इति ज्ञायते । यतोऽद्याऽधिकारिकुलेषु प्रतिष्ठितकुलेषु श्रेष्ठगृहेषु चाऽभिरुचिपूर्वकं मांसादिभोजनं मांसान्वितवस्तूनि च विशेषत उपयुज्यन्ते । अतिथीनां सत्कारार्थं मांसादिभोजनदानं तु तेषां श्रेष्ठिनानां कृते प्रतिष्ठा ( Prestige issue ) विषयोऽस्ति, तथैवं करणेन च समाजे महत्ता वर्धत इति मन्यन्ते ते जनाः । तत एव लग्नजन्मादिविविधप्रसङ्गेषु मांसादिभोजनं दीयते । तत्रस्थितैरार्यजनैरपि सानन्दं तद् भुज्यते । हन्त ! परदेशीयनेतृभिस्साकं भारतीयराष्ट्राधिकारिणो विविधं वैशिष्ट्ययुतं मांसादिभोजनमेव कुर्वन्ति तथा तच्चित्रं समाचारपत्रिकास्वपि दर्श्यते । अहो ! कीदृशी निर्लज्जता । यथा तेषां सर्वमवर्णनीयमस्ति तथैव निर्लज्जताऽप्यवर्णनीयैव । किमार्यत्वस्य स्वाभिमान एव नाऽस्ति तेषाम् ? ।
अतोऽपि भारते हिंसायाः प्रामाण्यं वृद्धिङ्गतम् । अन्यथा यदि नाम हिन्दुजनैरेतादृशं मांसभोजनं मांसमिश्रितवस्तूनि च नोपभुज्येरन् तर्हि कथमियती हिंसा
For Privateersonal Use Only
Page #91
--------------------------------------------------------------------------
________________
asia
ALLAakatar
M
भवेत् ? ।
किञ्च-अस्माभिर्विशेषतः पाश्चात्यसंस्कृतिरनुस्रियते । यथाऽनार्यजनैनूतनवर्षारम्भदिने (New year) विनोदस्थली (Club) गत्वा नक्तन्दिवं निराबाधं मांसादिभोजनं मद्यपानं च क्रियते, द्यूतं क्रीड्यते, निर्लज्जतया नृत्यते । तथैव भारतेऽपि तद्दिने आर्यजना(?) मदोन्मत्तीभूय दिवारात्रमितस्ततोऽटन्ति । द्यूतगृहं (Cesino) गत्वा द्यूतं रम्यते, मद्यशालां (Bar) गत्वा सुरा पीयते, पञ्चतारकोपाहारगृहं
(Five star Hotel) संप्राप्याऽऽकण्ठं - मांसादिभोजनं विधाय नैशसङ्गीतके * व्रीडामपास्य नृत्यते आर्यजनैरपि । तथा केचिदुन्मत्ता युवानो वित्रपा युवत्यश्च प्रतिविपणि * संमील्याऽत्युच्चैर्हसन्ति, वदन्ति, उपहासयन्ति, तथा बीभत्सतया चेष्टन्ते च ।
कियत्कालात्पूर्वं 'तमिलनाडु राज्ये व्यहराम । एकदा तेषां नूतनवर्ष (युगादि) आगतः । तस्मिन् दिने परिवारान्वितास्तत्रत्या जनाः प्रातःकालादारभ्य रात्रिपर्यन्तं सानन्दं सोल्लासं नैकानां जीवानां हिंसां विधाय मांसादिभोजनं चक्रुः । कनीयान् / बालोऽपि हस्ते तं मांसादिकं गृहीत्वेतस्तत आटत् । न केषाञ्चिदपि वदने दया कोमलता चाऽदृश्यत । एवं ते जनाः परेषां जीवानां वधं विधाय वर्षारम्भस्य पैशाचिकं क्रूरं चाऽऽनन्दं मानयन्ते स्म । अस्माकं कृते तु कथं विहारः करणीयः? इति चिन्ता सञ्जाता । तस्मिन् काले मनसि शङ्का जाता “किमहमार्यदेशे-भारते विहरामि आहोस्वित् अनार्यदेशे ?" इति ।
इह तु किञ्चिदेव लिखितम् । किन्तु विविधरीत्या जीवनव्यवहारेऽस्माभिः * पाश्चात्यसंस्कृतिरनुसृता । अत: कारणादपि भारते हिंसायाः प्रामाण्यं वर्द्धितमस्ति ।
यत्र सूक्ष्मजीवानां हनने खिद्यते स्म तत्राऽद्य पाश्चात्यसंस्कृतिवशादेव मानवा अपि स्वबन्धुजनान् घ्नन्ति । जनकः पुत्रम्, सुतः पितरं जननी च, भ्राता भ्रातरं
भगिनीं चैवं मानवा एव परस्परं मारयन्ति । अद्य मानवा निष्ठुरतया जीवतो जनानेव * प्रज्वालयन्त्यपि । किं मानवहृदयतो दया करुणा कोमलता चैवाऽस्तङ्गता ! इत्याभाति । * एवमुपर्युक्तवर्णितैः त्रिभिः कारणैर्भारतदेशे प्रतिदिनं हिंसा प्रवर्धते ।
वस्तुतो भारतदेशे यादृक्रीत्या हिंसायाः ताण्डवं वर्तते तद्वीक्ष्य चित्ते एवं
...
(
Aar
For Private 90sonal Use Only
Page #92
--------------------------------------------------------------------------
________________
प्रतिभाति यद्, भारतदेश आर्यसंस्कृतेरार्यधर्मभावनायाश्च प्रायो दूरीभवन्नस्ति । भारतेन यदहिंसावशाद् विश्वस्मिन् विश्वे सर्वोपरित्वं स्थापितं तथा हिन्दुत्वस्य माहात्म्यं द्विगुणीकृतमासीत्, साऽहिंसैवाऽद्य भारते नष्टं गतेव दृश्यते तदा "आर्यत्वस्य किं भविष्यती 'ति ग्लानि: सञ्जायते ।
अन्ते नियतिमपाकर्तुं न कोऽपि प्रभुरस्ति । तथाऽपि सर्वैरप्यार्यजनैः संमील्याऽऽर्यत्वप्रतिपक्षिणीं हिंसामपाकृत्याऽऽर्यत्वसन्मानवर्द्धिकाया अहिंसायाः प्रतिष्ठार्थं प्रयत्नः क्रियते चेत्तदा चाऽस्माकं भारतदेशो मुहुः स्वकीयमार्यत्वं हिन्दुत्वं च प्राप्नुयादित्याशा
मम ।
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥
For Priv98 & Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
पत्रम्
- मुनिधर्मकीर्तिविजयः
0505050505050505
deedddddddddddddddde
नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
अद्य विहारयात्रायां प्राप्त आनन्दे त्वां सहभागिनं कर्तुमिदं पत्रं लिखामि । तुभ्यं यू - रोचिष्यत उत नेति न जानामि, तथाऽपि रोचिष्यत एवेत्याशया लिखामि ।
प्रकृत्यास्सहजया रम्यया च लीलया साकं दुष्टचेष्टां कुर्वाणैः प्राकृतजनैविमुक्ते 6 १ नितान्तं यानयातायातादिशब्दप्रदूषणशून्ये निर्जने निर्वासमये नैसर्गिकप्रदेश (Natural a Fild) एव प्रतिक्षणं भिन्नभिन्नरूपं धारयन्त्याः प्रकृत्या वास्तविकं निरुपमं च दर्शनं
भवति, तथा तस्यास्सहजा लीला दृश्यते । तदा चाऽनिर्वचनीया मनःप्रसत्तिरनुभूयते ।
न लभ्यते यत्सुखं चक्रवर्तिभी राजभिः श्रेष्ठिभिश्चाऽभ्रंलिहप्रासादवासेन देवाङ्गना१ समरूपसुन्दरीणां सङ्गमेन प्रेक्षणकादिदर्शनेन च ततोऽप्यधिकं सुखमेतस्या रमणीयप्रकृत्याः 4 सद्दर्शनेनाऽवाप्यते । एतादृशस्यैकस्याऽपि प्रकृतेस्सौन्दर्यदृश्यस्य (Natural Scene)
निरीक्षणमात्रेणैव चेतसो ग्लानिरशान्तिः परिश्रमश्च त्वरितं बाष्पीभूय दिवङ्गता भवन्ति । ११ तस्मिन् काले "अहो ! निसर्गस्यैतादृशी रमणीयता सौन्दर्यं च !" इत्याश्चर्येण सह १६ १ कौतुकमपि सञ्जायते ।
वयं चेन्नैनगरतो बेंग्लूरनगरं प्रत्यागच्छन्त आस्म । मार्गशीर्षस्य शुक्लैकादशीदिने य बेट्मंगलातः पटनाग्राममागतवन्तः । स लघुाम आसीत् । तत्र पञ्चविंशतिः त्रिंशद्वारा
5 गृहाण्यासन् । एका च शालाऽऽसीत्, तत्र स्थितवन्तो वयम् । द्वितीयदिन आवश्यकक्रियां १, समाप्य प्रातः सार्द्धपञ्चवादने प्रस्थितवन्तः । किञ्चिदग्रे गमनानन्तरं गगनं बाढं १ 5 मिहिकाच्छादितमनुभूयते, सर्वत्राऽन्धकारः प्रसृतश्चाऽऽसीत् । प्रालेयावेष्टितेऽम्बरे
dedeedededded
2050509501501505095015050850505050605050b0b0
1892989dEREDEOd98
Q.
For Privat
ersonal Use Only
Page #94
--------------------------------------------------------------------------
________________
17 सपगप ।
र सत्यस्माकमहिंसाप्रेमिणां जैनमुनीनां विहारकरणे संयमविराधना भवति । जैनमते a तमस्कायरूपमकायस्वरूपं च प्रालेयं मन्यते । अप्काय एकेन्द्रियजीव इति निरूपितमस्ति । ६
* अतो यदि विहारः क्रियेत तडॅकेन्द्रियजीवानां हिंसा स्यात्, अतः पुनः स्वस्थानं पर प्रत्यागतवन्तो वयं सर्वेऽपि ।
सार्धषड्वादनेऽन्तरिक्षेऽमलीमसे सति मुहुर्विजहम । समस्तेऽपि पृथिवीमण्डले १६ १ शान्तिदेव्याः साम्राज्यं प्रवृत्तमासीत् । “दिवाकरागमने सति प्रियजनवियोगो दुःखमशान्तिश्च
भविष्यन्ति, अस्माभिराहाराद्यन्वेषणार्थं बहिर्गन्तव्यं भविष्यति, पुनः कदा प्रियजनानां ॐ संयोगो भविष्यति, शान्तिः सुखं च प्राप्स्यतः," इत्याशयेनैवेव मातृ-पितृ-बन्धु-पुत्र38 पत्न्यादिप्रियजनैः सह प्राप्तं सुखं यथेष्टमनुभवन्तस्सर्वेऽपि पशुपक्षिमानवास्स्वस्थाने स्थितवन्त ११
आसन् । ततश्च न मानवानां, न पक्षिणां, न प्राणिनां, न कुक्कुराणां, न भ्रमरादीनामेवं र केषाञ्चिदारावलेशोऽपि न श्रूयते स्म। दीर्घमार्गोऽपि निर्जन इव भीतिदः प्रत्यभात् ।
गाढान्धकारे समीपतिनो महीरुहा अपि विकृतदन्तहस्तपादवदना आशरा इव भीत्युत्पादका पार १९ आसन् । प्रबलवेगेन वहमानस्य समीरस्य निहादोऽपि हृदयस्पन्दनानि स्थगितानीव कुर्वाणः
प्रावर्तत । मार्गस्य द्वयोः पार्श्वयोः सदन श्रेणिरिव बृहत्कायशिलाखण्डानां माला + दृश्यमानाऽऽसीत् । तानि शिलाखण्डान्यपि अस्तव्यस्तरूपेण स्थितान्यासन् । ततो"ऽधुनैपर वाध:पतेयुरधःपतेयुः" इति प्रतिक्षणं मनसि भयं जायमानमासीत् । न ज्ञायते यत्, तानि १९ कियद्भिर्वषैरेतादृश्यां स्थित्यामेव स्युः । तत्क्षण एव करामलकवद् येन दृष्टास्समस्त
त्रिलोकवतिसूक्ष्मासूक्ष्मभावास्तस्य श्रीतीर्थकरभगवतो वचनं स्मृतिपटलेऽङ्कितम्-"बावीसा पुढवीए (वाससहस्सा)"१ इति ।
एवं प्रकृतेस्सौन्दर्यं विगाहमानोऽहं गच्छन्नासम् । तावदेव पुनर्कोम्नि मिहिकया था १९ स्वसाम्राज्यं स्थापितम्, अन्धकारः प्रसृतः । क्षणमात्रेणैव गाढान्धकारयुते भूमिगृहे किं १६ १ प्रविष्टं मयेति प्रतिभातम् । पादद्वयदूरमपि न किञ्चिद् दृश्यते स्म । अत्र तत्र सर्वत्र पूरै मिहिकैव निरीक्ष्यते स्म। निर्जनं वनं, प्रकृत्या भयङ्करत्वं, प्रतिक्षणं हृत्स्पन्दानानां पर गतिर्वर्धमानाऽऽसीत् । तावति भीतिदेऽध्वनि न किमप्याश्रयस्थानं दृष्टिपथमायातम् । अथ
९ यदि नाम विहरेयं तदा संयमविराधनाऽऽत्मविराधना च स्यात्, यदि न गच्छेयं तर्हि किं ॐ १. द्वाविंशतिसहस्रवर्षाणि (आयुः) पृथिव्याः ।
For Priva& personal Use Only
Page #95
--------------------------------------------------------------------------
________________
34343434
कुर्यामिति धर्मसङ्कटमापतितमिति विमृशता मया तदैव दैवयोगादेकं स्थानं दृष्टम् । द्रुतमेव तत्र प्रविष्टोऽहम् । क्षणेन तत्रैव पूज्यश्रीरत्नकीर्तिमुनिना सह पूज्यपादश्रीशीलचन्द्रसूरिभगवन्तोऽप्यागतवन्तः ।
'किं करणीयम् ?' इति मया पृष्टम् ।
'अत्रैवोपविशाम' इति गुरुभगवद्भिर्व्याकृतम् ।
रत्नकीर्तिमुनिरुवाच
'प्रभो ! अद्य सप्तदशकिलोमीटरप्रमाणं गन्तव्यमस्ति' । 'गुरुजी' ! दीर्घो विहारमार्गोऽस्ति, अतो द्वादशात्मन आतापना सोढव्या भवेद्' इति मयोक्तम् ।
गुरुभगवन्त ऊचुः 'वयं साधव इति न विस्मर्तव्यं खलु । षड्जीवनिकायरक्षार्थं गृहादिकं सर्वमपि विहाय स्वेच्छया दीक्षाऽङ्गीकृता । अतो यत् किमपि स्यात् तत् सोढव्यमेव, न तु तथाऽऽचरणीयं येन संयमो विराधितः स्यात् । अतोऽत्रैवोपविशाम । सूर्योदये सति स्वत एव मिहिकाऽपसरिष्यति, पश्चाद्गमिष्यामः" इति ।
तथाऽस्त्विति विचार्याऽभ्रमवेक्षमाणा वयं सर्वे तत्रैव स्थितवन्तः ।
-
सर्वत्र मिहिकैव दृश्यमानाऽऽसीत् । किन्तु किञ्चित्कालगमनानन्तरं सहसैव दूरतो रक्तवर्णा स्वल्पप्रकाशस्याऽऽभा दृष्टा । यथा सङ्ग्रामे विपक्षसैन्यैस्स्वसेना यदा सर्वत आव्रियेत, बहिर्गमनस्य च न कोऽपि मार्गः स्यात्तदा तैस्साकं योद्धुं द्रुतमेव वीरसुभटो (प्रमुखसेनापतिः) यथा प्रविशेत्तथैव मिहिकाराजचमूभिर्निखिलगगने निरुद्धे व्याप्तसर्वाङ्गक्रोधाटोपादिव रक्तकायोऽरुणः प्रविष्टवान् । द्वयोस्सैन्ययोर्मध्ये भीषणं युद्धं प्रवृत्तम् । स्वबलेनाऽरुणोऽन्धकारं नाशितवान्, किन्तु न मिहिकाराजं पराजेतुमशक्नोत् । ततो मिहिकाराजसैन्यमवाप्तविजयस्याऽऽनन्देन नृत्यति स्म । तदैव विहितविपक्षचमूकिट्टीकरणप्रतिज्ञोऽपूर्वबलद्युतिसज्जीभूतसहस्रकिरणसहस्रमल्लालङ्कृतः सप्ताश्वान्वितरथारूढो रक्तकायस्सूर्यराज उदयाचलादागच्छत् संदृष्टः । उदयाचले हि प्रतिपलं तस्य सूर्यराजस्य कान्तिर्वृद्धिङ्गता दृश्यते स्म । सर्वदिक्षु स्वच्छायां प्रसारयन् देदीप्यमानस्सूर्यराजः प्रविष्टवान् । द्वयोः पार्श्वयोः स्थितान् परसैन्यान् घातयन् सम्राडिव मिहिकाच्छादितामभ्रसंहतिं प्रच्छेदयन्
For Private &sonal Use Only
Page #96
--------------------------------------------------------------------------
________________
विमलान्तरिक्षे विद्युत्वेगेन धावमानश्च सूर्यराजो मिहिकाराजस्य सन्मुखमेवाऽऽगतवान् । युद्धार्थं शत्रुराज आहूतस्तेन । आरावशून्ये शान्तिमये वातावरणे च निर्घोषमात्रेणैव भीतः प्रकम्पितश्च जन इव सर्वतः प्रसृतं स्वसैन्यमाच्छिद्य सहसैवाऽऽगतं वह्निवदनं सूर्यराजं निरीक्ष्य किञ्चित्क्षणं तु मिहिकाराजः कम्पितो दीनवदनश्चकितश्च बभूव । ततश्च किञ्चिदपसृतोऽपि मिहिकाराजः । किन्तु क्षणमात्रेण भीतिमपास्य मनसा सज्जीभूयाऽपूर्वधृतिबलयुतेन तेन मिहिकाराजेनाऽत्युच्चैस्सूर्यराजः प्रत्याहूतः । झटिति तौ द्वावपि राजानावभिमुखमागतौ । मिहिकाराजस्य सेना तु सर्वदिक्षु प्रसृताऽऽसीत् । ततो मध्ये सूर्यराजः, तस्य सन्मुखं चमूवेष्टितो मिहिकाराजः, अन्यत्र सर्वत्र प्रसृतेन मिहिकाराजसैन्येन सूर्यराजो निरुद्धः । तथाऽपि सहस्रमल्लवत् तेन सूर्यराजेन समस्तबलेन परसैन्यमाक्रम्य मिहिकाराजस्योपर्येवाऽऽक्रान्तम् । किन्तु चातुर्येणाऽपसृत्याऽनन्तरक्षणेनैव तेन मिहिकाराजेन सूर्यराजोऽमारि । सोऽपि कौशल्येनाऽपसृतः । एवं कदाचिद् मिहिकाराज: प्रतिनिवृत्तः, कदाचित् सूर्यराजोऽपसरति स्म । ततः क्षणमन्धकारः क्षणं प्रकाशश्च दृश्यते स्म । प्रायशोऽर्द्धघण्टापर्यन्तमेवमेव प्राचलत् ।
तदा किमहं गान्धर्वनगर्यां विहराम्युत स्वप्नलोके ? इति चेतसि विकल्पो जातः । अद्यापि तस्य दृश्यस्य स्मरणेन मनसि नितरां प्रमोदः सञ्जायतेतराम् ।
तावदेवाऽम्बरे “सूर्यराजो जयतु सूर्यराजो जयतु " इति गर्जारवं कुर्वतेव सूर्यराजसैन्येन संमील्य प्रसृतं परसैन्यमाक्रान्तम् । स्वसेनाया एतादृशमुत्साहं धैर्यं च संवीक्ष्य तेन सूर्यराजेन सर्वशक्त्या मिहिकाराज एवाऽऽक्रामि । तस्यैतादृशं प्रचण्डमधृष्यं चाऽऽक्रमणं संदृश्य मिहिकाराजो भीतः । अन्तेऽनन्यगतिकतया सः शनैः प्रतिजगाम । तदा प्रतिगच्छतस्तस्योपरि सैन्येन सह सूर्यराजेनाऽप्रतिकारी दृढप्रहारः कृतः । तत्प्रहारेण प्रतिहतस्स: मिहिकाराजो भुवि पतितः । पश्चात्तु यथा रणभूमौ राज्ञि हते सति सैन्यं स्वयमेवाऽपसरति तथैवाऽत्राऽपि जातम् । मिहिकाराजे मृते सति तत्सैन्यं द्रुतमेवेतस्ततो विद्रुतम् । एवं गगनं नितरां दर्शनीयं रमणीयं चाऽभूत् । त्वरितमेव मिहिकाराजस्य साम्राज्यस्याऽस्तित्वमात्रं नष्टम् । सर्वत्र प्रकाशः प्रदीप्तः, निर्मला कान्तिश्च प्रसृता । निखिले पृथिवीमण्डले सूर्यराजस्य सर्वोपरित्वं दृश्यमानमासीत् । तदैव निर्जीवो
For Privateersonal Use Only
Page #97
--------------------------------------------------------------------------
________________
PPPGTरवरवरवर CR5Q5CbQbab
Odd9829d29296
र मार्गोऽपि यातायातादिकेन चैतन्यवान् बभूव । पक्षिणां पशूनां चाऽऽनन्दकलरवेणाऽशेष a जगद् व्याप्तमभूत् । एवं जगतस्सर्वोऽपि व्यवहारो नियत्यनुरूपं चचाल । म . एतस्याः प्रकृतेरकल्पनीयं सौन्दर्यं निरीक्ष्य चेतस्यतीव प्रसन्नता प्रसृता, देहस्य - प्रतिरोमाऽमन्दानन्दस्याऽनुभूतिर्जाता । एतादृशं सौन्दर्यमानन्दश्च जीवने कदाचिदेवाऽनुभूयते ।
द विश्वविख्यातश्चित्रकारोऽपि यच्चित्रयितुं न समर्थो भवेत्, कविकुलशिरोमणिरपि यस्य 36 १ शब्ददेहमर्पयितुं न शक्नुयात्, तादृशं तदृश्यमासीत् ।। to अन्ते सूर्यराजस्य गगनमण्डले सर्वोपरित्वे सति पादोनाष्टवादने ततो निर्गत्य र रमणीयप्रकृत्या अपूर्वां लीलां स्मारं स्मारं पादोनैकादशवादने कोलारग्रामं प्राप्तवानहम् ।
बन्धो ! अद्य त्वस्माकं प्रकृत्या सह सम्बन्ध एव विनष्टप्रायोऽस्ति । तथा यस्या बलाद् वयं जीवामस्तामेव जन्मदात्री प्रकृतिं विनाशयितुमुधुक्ता वयम् । धनप्राणा लोभिनश्च १ मूढजीवा धनार्थं प्रतिदिनं नैकान् वृक्षानुच्छिन्दन्ति । कियन्ति नन्दनवनानुकारीणि
सुरभिगन्धान्वितपुष्पफलविविधतरुखचितानि रमणीयान्युद्यानानि वनानि चोषरभूमिसदृशानि र कृतानि; यदर्शनमात्रेण मनसः परिताप उद्वेगोऽशान्तिश्च स्वत एव परिगलन्ति, १६ तादृश्योऽन्तस्तृप्तिदायिन्यः कियत्यो रमणीया गिरिमाला अद्य श्मशानप्राया विहिता अस्माभिः ao क्रूरैः पापिभिश्च । वर्षद्वयात्पूर्वं दक्षिणदिशं प्रति प्रारब्धायां विहारयात्रायां प्रकृतेर्यत्
सौन्दर्यं रमणीयत्वं चाऽऽसीत्, तत् सर्वं साम्प्रतं नष्टं गतम्। अस्माकं सुखार्थं मार्गस्य घर बृहत्करणस्य व्याजेनाऽनेका नगा वृक्षाश्चोच्छिन्नाः, तेन सह नैकेषां पशुपक्षिणां घात:
छ कृतः । अधुना त्वेष मार्गः शुष्कः परितापजनकश्चेव दृश्यते । न केषाञ्चिदपि क्लान्तानां १ ॐ श्रान्तानां च पशूनां पक्षिणां मानवानां च. कृते किमप्याश्रयस्थानं दृष्टिगोचरं भवति ।
तन्निरीक्ष्य मनसि प्रतिक्षणं ग्लानिरनुभूयते । अस्मिन् जगत्यस्मादृशा घातकाः कृतघ्ना -
निष्ठुराश्च के स्युः ? यतोऽल्पधियः पशवोऽपि स्वोपकारिणं न कदाऽपि घ्नन्ति । अपि १, तु विश्वस्मिन् विश्वे केवलं मनुष्य एवैतादृशः प्राणी, यः स्वोपकारिणी प्रकृति हिनस्ति । है तदा मनः शङ्कते "अत्र को मनुष्यः कश्च पशु"रिति ।
बन्धो ! प्रकृत्यास्सहयोगमृते जीवनमेवाऽशक्यमस्ति । तर्खेतेन क्षणिकेन सुखेन च धनेन च किम् ? । कियानप्यद्यतनविकासः स्यात्, कियानपि धननिधिः -
1505050450450505095 29505050x50sbesbes5050505050
69dae
AddeddededEDALACE
98909999dde
Page #98
--------------------------------------------------------------------------
________________
सुवर्णनिधिश्चाऽवाप्येत, किन्तु तावत् तत्सर्वं निरर्थकं यावत्प्रकृतिरनाद्रियते, इत्यपि ज्ञेयम् ।
किञ्च-अद्य तु फलानां पुष्पाणां पक्षिणां पशूनां च नामाऽपि न जानीमो वयम्; एतादृशी दयनीया स्थितिरस्माकमस्ति । तत एवाऽस्माभिर्जीवने निर्दोषानन्दस्सहजमनःप्रसत्तिश्च नाऽनुभूयते । यावद्वयमेतस्याः प्रकृत्या दूरं भविष्यामस्तावद्जीवनस्य रमणीयतां यथार्थतां च नाऽनुभविष्यामः । भगवदनुग्रहेण वयं पादचारिणो जैनसाधवः प्रतिदिनं प्रकृते रमणीयतां तद्द्वारेण च सहजानन्दमप्यनुभवामः । अस्माकं जीवने तु द्वितीयोऽपि लाभोऽवाप्यते यद्, “निर्दोषसंयमजीवनस्य रमणता, सर्वतः षड्जीवनिकायस्याऽभयदानम्, गुरुभगवतामनुशासनम्, तीर्थकर भगवदाज्ञायाः पालनम्, तद्द्वारेण च प्रतिक्षणं प्रतिकार्यं वा निर्दोषानन्द" इति । अत्रैवाऽस्माकं कृते तु मोक्षसुखमस्ति खलु । यदि नाम त्वमप्येतादृशं सौन्दर्यं द्रष्टुं सहजानन्दं प्राप्तुं चेच्छे:, तर्ह्यद्यैवाऽस्माभिस्साकं विहारयात्रायामागच्छ | तथाऽद्यैव मनसा निश्चिनु, "येन केनाऽपि प्रकारेण प्रकृतेविनाशकार्यं न विधेयमिति ।
अन्ते, एतस्याः प्रकृतेः संरक्षणमेवाऽस्माकं तां प्रत्युत्तरदायित्वमस्ति इति ज्ञात्वा तस्याः प्रकृतेः संरक्षणे साहाय्यं विधाय सृष्टिलयशृङ्खलाया अङ्गं भवेत्याशासे ।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः यदि दैवात् फलं नाऽस्ति छाया केन निवार्यते ? ॥
For Private Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
लान्यासमीक्षा
ऑभिधानचिन्तामणिनाममाला
डॉ. रूपनारायणपाण्डेयः, एस् २/३३०, राज्यशिक्षासंस्थान कालोनी,
एलनगञ्जः, प्रयागः, उ.प्र. २११००२ सम्पादकः गणी श्रीश्रीचन्द्रविजयः । प्र.व. - २०५८ विक्रमी DOAS प्रकाशकः श्रीरांदेररोड जैनसंघ, श्रीशङ्केश्वरपार्श्वनाथ जैन देरासर पेढी, अडाजण पाटीया, रांदेर रोड,
सूरत-३८५००८ । (पृ.सं. १०५० + १२, मूल्यम् - ६००/-)
विद्यते सुरभारत्यां कोशप्रणयनस्य दीर्घतरा परम्परा । वैदिकाः शब्दाः 'निघण्टौ' संकलिता यास्केन निरुक्ते व्याख्याताः सन्ति । अमरकोशात् प्राग् ये कोशाः प्रणीता अभूवन्, तेषां नामान्येव प्रायो विविधग्रन्थेषु श्रूयन्ते । अमरकोशस्य प्रामाण्यं तस्य अमरकोशोद्घाटन-टीकासर्वस्व-कामधेनु-पदचन्द्रिका-रामाश्रमी-मुग्धबोधिनी-शिशुबोधिनीत्रिकाण्डचिन्तामणि-अमरविवेकादिभिः टीकाभिः पुष्यति । अमरकोशानन्तरम् अनेकार्थसमुच्चय-नाममाला-त्रिकाण्डशेष-हारावली-अभिधानरत्नमाला-नानार्थसंग्रहादयो ये कोशग्रन्था रचिताः, तेषु यादवप्रकाशस्य वैजयन्ती प्रामुख्यं भजति । अत्र शब्दसंख्या - अमरकोशस्य द्विगुणिताधिका शोभते । अस्य नानार्थभागे वर्णक्रमेणसंकलिताः शब्दा अभिनवकोशरचनाया आधारभूता इव सन्ति । अत्र वैदिकशब्दा अपि संगृहीताः सन्ति । वैजयन्त्याः पश्चात् कलिकालसर्वज्ञहेमचन्द्रेण 'अभिधानचिन्तामणिनाममाला' नाम कोशः ते प्राणायि । अस्य कोशस्यैका टीका 'व्युत्पत्तिरत्नाकरः' नाम देवसागरगणिना व्यरचि ।
व्युत्पत्तिरत्नाकरालङ्कृताया अभिधानचिन्तामणिनाममालायाः सम्पादनं विविधान् हस्तलेखान् 5 ग्रन्थांश्च सम्यक् समीक्ष्य गणिना श्रीश्रीचन्द्रविजयेन विहितम्।।
ग्रन्थेऽस्मिन् द्विचत्वारिंशदधिकपञ्चशताधिकसहस्रं श्लोकाः सन्ति, काण्डाश्च षट् । तर प्रथमे देवाधिकाण्डे ८६, द्वितीये देवकाण्डे २५०, तृतीये मर्त्यकाण्डे ५८८, चतुर्थे तर तिर्यक्काण्डे ५८८, पञ्चमे नरककाण्डे ७, षष्ठे च साधारणकाण्डे १७८ श्लोकाः ।
KVKC
ASAWAL
१
AND
.GRALA
८६
Page #100
--------------------------------------------------------------------------
________________
ग्रन्थात् प्राक् श्रीचन्द्रविजयस्य 'संशोधकीयं सम्पादकीयं च', विजयहेमचन्द्रसूरेः 'अनारतं प्रचलतु भवतः संशोधनयात्रा', विष्णुकान्तस्य 'शब्दः ' 'शक्तिः ' च, सोमचन्द्रविजयस्य च 'रत्नाकरोऽनुपमो व्युत्पत्तिरत्नाकरः' विलसन्ति । ग्रन्थान्ते 'सार्थशब्दानुक्रमणिका', 'गुजरातीशब्दानुक्रमणिका', 'व्युत्पत्तिरत्नाकरटीकान्तर्गतानां श्लोकानामकाराद्यनुक्रमणिका', 'व्युत्पत्तिरत्नाकरटीकायां प्रमाणरूपेण प्रोद्धृतानां ग्रन्थानां ग्रन्थकाराणां च पृष्ठाङ्कपङ्क्त्यङ्कपूर्वकनामानि', 'बहुश उपयुक्तानां ग्रन्थानां सूची', 'अस्मिन् ग्रन्थे उपयुक्त - हस्तलिखितप्रतीनां परिचयः' च विराजन्ते । अत्र प्रतिपृष्ठम् अधोभागे पाठभेदा अपि शोभन्ते । टीकायामुद्धृतग्रन्थांशानां सन्दर्भनिर्देशोऽपि सर्वत्र ग्रन्थस्य गरिमाणं संवर्धयति । अभिधानचिन्तमणिनाममालायां शब्दानां लिङ्गनिर्देशो न विद्यते । कोशकारेण स्वयं 'लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् । ' ( अभिधान० १८) इत्यभिधीयते । कोशेऽत्र जैनत्वरक्षणं वर्तते । तद् यथा
'ऋषभो वृषभः श्रेयान् श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तः मुनिसुव्रतसुव्रतौ तु ॥
अरिष्टनेमिस्तु नेमिः वीरश्चरमतीर्थकृत् ।
महावीरो वर्धमानो देवार्यो ज्ञातनन्दनः ॥' (अभिधान० २८-३०)
कोशेऽस्मिन् केचन दाडिमादयः शब्दाः, अमर - त्रिकाण्डशेष- वैजयन्ती - इत्यादिगता अपि न सन्ति, किन्तु कुमारपालादयोऽप्रसिद्धा अपि विद्यन्ते । (अभिधान. ७१२ - ७१३) शब्दानां सङ्ग्रहोऽत्र रूढयौगिकमिश्रक्रमेण विद्यते । श्रूयताम्
'प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः ।
रूढ - यौगिक- मिश्राणां नाम्ना मालां तनोम्यहम् ||' (अभिधान० १)
अस्य कोशस्य विविधाः टीका: सन्ति - (१) स्वोपज्ञवृत्ति: - श्रीहेमचन्द्रचार्यस्य, (२) टीका - कुशलसागररचिता, (३) सारोद्धारः - वल्लभगणे:, (४) टीका - साधुरत्नस्य, (५) व्युत्पत्तिरत्नाकरः- देवसागरगणे, (६) अवचूरि :- अज्ञातकर्तृका, (७) बीजकम् - हीरविजयसूरिशिष्यत्रयस्य, (८) रत्नप्रभा - वासुदेवरावस्य । ग्रन्थेऽस्मिन् सम्पादितायाः व्युत्पत्तिरत्नाकराभिधायाः टीकायाः कानिचिद् वैशिष्ट्यानि सन्ति
(१) पाणिनि
For Private Cersonal Use Only
-
Page #101
--------------------------------------------------------------------------
________________
व्याकरणानुसारिणी व्युत्पत्तिरत्र राजते । " विदेहस्य राज्ञोऽपत्यं वैदेही । 'जनपदशब्दात् क्षत्रियादञ्' ४|१|१६८ || 'टिड्डाणञ्०' ४|१|१५|| ङीष् (ङीप् ) ।" (अभिधान० ७०३, व्युत्पत्तिरत्नाकर०) (२) विविधग्रन्थानां ग्रन्थकाराणामुल्लेखः - "पुंस्ययम्, यद् वैजयन्ती 'नामशास्त्रे निघण्टुः' (वैजयन्तीकोष: ३ / ६ / ३१) | क्लीबेऽयम्, यद् व्याडि : - 'अर्थात् निघण्टयत्यस्मान्निघण्टुः परिकीर्तितः ॥ पुंनपुंसकयोः स स्यात् ।' इति ।" (अभिधान० २५८, व्युत्पत्तिरत्नाकर०) (३) शब्दानां नानार्थत्वम् । (४) जैनागमानाम् उल्लेखः । (५) अर्थसाधकश्लोकानाम् उद्धरणम् । "यन्मनुः - 'निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चाऽन्नेन स विप्रो गुरुरुच्यते ॥ (मनुस्मृतिः २ / १४२) । निषेको गर्भाधानविधि:।” (तत्रैव, ७७) (६) कोशानुक्तानामपि शब्दानां सङ्ग्रहणम् । " वरुणपाशोऽपि ।” (तत्रैव, १३५१) (७) भाषाशब्दानां प्रयोगः । " एकं 'दादा' इति ख्यातस्य ।" (तत्रैव, ५५७) (८) अनुक्तशब्दा अपि विशदीक्रियन्ते । "तन्त्रमपि । तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छेदे ॥" (तत्रैव, ८१३) (८) काव्यादीनामप्युदाहरणानि । “ संस्क्रियतेऽनेन संस्कारः । करणे घञ्, पुंस्ययम् । ‘निसर्गसंस्कारविनीत इत्यसौ' (रघुवंशम्, सर्ग : - ३, श्लो - ३५) इति रघुः । " (तत्रैव, १३७३) (१०) लिङ्गवचनादिनिर्देशश्च ।
इत्थं विविधवैशिष्ट्यविभूषितव्युत्पत्तिरत्नाकराख्या टीका मूलग्रन्थोपेता विद्वद्वरेण्यश्रीचन्द्रविजयेनाऽऽधुनिकग्रन्थसम्पादनविधिना सुसम्पादिता शोभतेतरामत्र । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैर्भाषाशास्त्रविद्भिश्च सर्वथा सङ्ग्राह्योऽस्ति । अतितरां भव्यतया भूरिपरिश्रमेण च मुद्रणादस्य ग्रन्थस्य मूल्यमपि समीचीनं वर्तते । अस्य ग्रन्थस्य प्रकाशनात् संस्कृतसमाजस्याऽपि महती सपर्या प्रकाशकमहोदयैर्विहिता । जयतु संस्कृतम्, संस्कृतिश्च । 'सूत्रैः पाणिनिसूत्रितैर्बहुविधग्रन्थांश्च संख्यावतः, साक्षीकृत्य यथामति व्यरचयं व्युत्पत्तिरत्नाकरम् । छाद्मस्थ्याल्लिखितं यदत्र वितथं स्यात् सूरिभिस्सूरतैः, संशोध्यं करुणां विधाय मयि तन्मात्सर्यमुत्सार्य च ॥"
(व्युत्पत्तिरत्नाकरकारस्य)
For PrivatPersonal Use Only
Page #102
--------------------------------------------------------------------------
________________
वन्थसमीक्षा
लेखक:
प्रकाशक:
स्वामिश्रीब्रह्मानन्देन्द्रसरस्वती
श्रीब्रह्मानन्दाश्रमः, योगवेदान्तमहाविद्यापीठम्, पो. कल्मने ता. सागरः जि. शिवमोग्गा, कर्णाटकराज्य
-
प्रकाशनवर्षम् ऐसवीयम् - २००३
पृष्ठानि
३३०
बाटकसुधावहिणी
-
५७७४०१
मूल्यम् : १५०/
"नाटकान्तं साहित्यम्" इति सूक्ति: साहित्ये नाटकं श्रेष्ठमिति वर्णयति । तथा
" त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ॥"
इति श्लोकार्थं च साहित्यप्रकारेषु नाटकानां श्रेष्ठतां प्रतिपादयत्, नवरसनिभृतं सत्त्वादिगुणविशिष्टं जनचरितं मनोज्ञतयाऽत्रैव निरूप्यतेऽतो नूनं समस्तरसिकजनरोचकं नाटकमेकं विशिष्टं समाराधनमिति ख्यापयति ।
कीर्तित्रयी
ग्रीक्- साहित्ये सोफोक्लीस्-यूरेपिडीस्-इत्यादिभिर्महाकविभिर्होमर्-विरचितयोः ईलियड्-ओडेस्सीमहाकाव्ययोराधारेण दुःखान्तानि नाटकानि (Tragedies) विरचितानि । तथा भारतेऽपि संस्कृतसाहित्ये रामायण-महाभारतादिमहाकाव्यप्रभावितानि सुखान्तप्रधानानि भावरूपकाणि भासकविप्रभृतिभिर्विरचितानि । एवमेवाग्रेऽपि बहूनि मृच्छकटिकं प्रबुद्धरौहिणेयं द्रौपदीस्वयंवरमित्यादीनि नाटकानि विविधकविभिर्विरचितानि विश्रुता बभूवुः ।
अस्यामेव नाट्यप्रणयनपरम्परायां स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीमहाभागः महाभारतमाश्रित्य प्रणीतानि विविधरूपकाणि, ऐतिहासिकप्रसङ्गानाधारीकृत्य प्रणीते द्वे रूपके, सोफोक्लीस् - शेक्स्पियप्रभृतिपाश्चात्यनाट्यकारविरचितनाटकानामाधारेण प्रणीते द्वे रूपके तथा अहिंसा - प्रेम-भक्ति-विवेक वैराग्य - नि:स्पृहता- कपट - स्वार्थादिभावानधिकृत्य
For Private Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
POSTE7
8511851185757185118512855725777
tagoodmasooto896OBabasabassponsooBeep काका-85851185118575 PospogspoBowoossooragwooswporegaoosepotatoo
* प्रणीतानि विविधरूपकाणि च नाटकसुधातरङ्गिण्यां प्रस्तौति । पुस्तकान्ते च स्वीयप्रौढ
विचारप्रवाहेण निबद्धान् दार्शनिक-धार्मिक-सामाजिक-साहित्यिकविचारपूर्णान् मनोज्ञान । प्रबन्धानपि विरचय्य विनिवेशितवानस्ति सः ।
तत्र- सत्यमेव जयते इति रूपके यक्षप्रश्नः पाण्डवानामज्ञातवासश्च निरूपितः, - गीतारूपके भगवद्गीतायाः प्रधानाः अंशाः निरूपिताः, कर्णरसायने कर्णस्य विद्याग्रहणशापप्राप्तिप्रमुखो वृत्तान्तो वर्णितः, गदायुद्धे भीम-दुर्योधनयोर्युद्धं तथा धन्यास्ते आर्तत्राणपरायणाः इति रूपके भीम-घटोत्कचयोर्मेलनं भीमकृतं च विप्ररक्षणमित्यादि
सरसतया निरूपितं वर्तते । एतानि सर्वाण्यपि रूपकाणि महाभारतमाश्रित्य विरचितानि - पी स्वामिवर्यस्य महाभारतं प्रति अनन्यमाकर्षणं द्योतयन्ति ।
___ मोहजित् अथवा प्रेमपरीक्षा-रूपकं विवेक-वैराग्य-निर्मोहतादीन् शाश्वतसुखप्राप्तये का आवश्यकान् गुणान् प्रकटीकरोति । पापं च प्रायश्चित्तं च अद्यतने समाजे प्रवर्तमानानां कुरीतीनां तथा स्वार्थिनां दम्भाधवगुणानां सुतरां द्योतकम् ।
___ अहो दुर्धर्षा दैवलीला सोफोक्लीस्-विरचितस्य ईडिपस्-नाटकस्य भावानुवादः ।
__ धनेन दानवो दयया मानवः शेस्पियर्-विरचितस्य द मर्चन्ट ऑफ वेनिस्यी नाटकस्य संस्कृतानुवादः ।।
चन्द्रहासचरितं हरिभक्तेः महिमानं स्तौति । नागानन्द-नवनीतं निर्वैरक्षमाऽहिंसादीन् गुणान् विशदीकरोति । निःस्पृहः सर्वकामेभ्यो मानवः सुखमेधते का निःस्पृहतां वर्णयति । चारुदत्तवैभवं धनकनकादीनि जडद्रव्याणि निःस्पृहानपि दुःखगर्ते पातयन्तीति कटुसत्यमावेदयति।।
छत्रपतिशिवाजीमहाराजः राक्षसमुद्रिका च ऐतिहासिकान् तथ्यान् सुचारुतया र द्योतयतः ।
एभिर्नाटकैः सह पुस्तकान्ते प्रबोधपारिजातं नाम निबन्धसमुच्चयः स्वामिवर्येणैव विरचितो विराजते । येषु आत्मगीता आत्मसाधनोपकारिणी वर्तते । आत्मसिद्ध्यै का प्रसिद्धानां प्रत्यक्षादिप्रमाणानां सक्षमता इति दार्शनिकी समीक्षाऽस्ति । अलङ्कार
For Privago Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
मुक्तावली भावापत्त्यलङ्कार-लक्षणोक्त्यलङ्कारयोऽनयोनिरूपणं करोति । अन्ये च सर्वेऽपि र प्रबन्धाः विविधसामाजिक-धार्मिक-मानवीयविचारान् रोचकतया प्रकटीकुर्वन्ति ।
सरलभाषया रोचकशैल्या च प्रौढविचारान् धाराबद्धप्रवाहेण प्रकटयन् स्वामिश्रीब्रह्मानन्देन्द्र-सरस्वतीमहाभागः विविधशास्त्रेषु परिणतबुद्धिरस्ति तथाऽपि मुख्यतया का योग-वेदान्तान् अध्यापयति । न केवलं संस्कृतभाषायामपि तु कन्नड-तेलुगुभाषयोरपि का बहून् ग्रन्थान् लिखितवान् स्वामिवर्यः सङ्गीतशास्त्रेऽपि परिणतः । स्वामिवर्यस्य बहुश्रुतत्वं प्रतिनाटकं प्रतिप्रबन्धं चाऽत्र पुस्तके संदृश्यते ।
रसिकसहृदयेभ्यः विद्वद्भयश्चाऽऽध्यात्मिकानि शीलसच्चारित्र्यसंवर्धकानि जीवन| मौल्यान्येकत्रोपहारीकुर्वन्ती प्रबोधपारिजातसहितां नाटकसुधातरङ्गिणी विरचितवान् स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीमहाभागः नूनमभिनन्दनार्हः ।
ग्रन्थाश्चाऽयं सर्वेषां संग्राह्यो वर्तते । तथाऽत्र निरूपितानि भावरूपकाण्यपि रङ्गमञ्चेऽभिनययोग्यानि सन्तीति शम् ।
a danmassadomo886gp ROIRSSIB85745855555778512851858785878775158511857 Dawoosempegpoegppegnponomopawoonawoongwooasponsentagesap
आरोग्यबुद्धिविनयोद्यमशास्त्ररागः
पञ्चाऽऽन्तराः पठनसिद्धिकरा नराणाम् । आचार्यपुस्तकनिवाससहायभिक्षाः
बाह्याश्च पञ्च पठनं परिवर्धयन्ति ॥
For Private
Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
कथा
(वास्तवं मित्रम्
मुनिरत्नकीर्तिविजयः ।
*
ला
मा
एकस्य श्रेष्ठिनस्त्रयो मित्राण्यासन् । तत्र द्वयोरुपरि तस्याऽतीव विश्वास आसीत् किन्तु तृतीयस्योपरि तु न तावान् विश्वास आसीत् ।
एकदा राज्यस्य कोपदृष्टिः श्रेष्ठिनि पतिता । कञ्चिदपराधं पुरस्कृत्य स तत्र न्यायालये आहूतो राज्ञा । एतादृशो दुःखस्याऽवसरे तौ द्वावपि मित्रे तस्य स्मृतिपथमायातौ । साहाय्यापेक्षया या - तौ निमन्त्रितावपि तेन । "तौ द्वावपि मया सार्द्धमागत्य राज्ञः समक्षं मम निर्दोषतां साधयिष्यतः" इति श्रेष्ठी मन्यमान आसीत् । किन्तु ताभ्यामेको मित्रं तु न्यायालयगमनं स्पष्टं निराकृतवान् । अन्यस्तु न्यायालयमागन्तुं सज्जोऽभवत् । परन्तु यावत् न्यायालयस्य द्वारमागतं तावत् स तं ना श्रेष्ठिनमनापृच्छ्य तत्रैव च मुक्त्वा स्वगृहमार्गेणाऽपसृतः ।
श्रेष्ठी तपस्वी एकाक्येव तत्र स्थित आसीत् । तावत्, यस्योपरि नाममात्रमेव तस्य । विश्वास आसीत्, यस्य च मूल्यमपि तस्य मनसि अत्यल्पमासीत् स मित्रं ततो निर्गतः । श्रेष्ठिनं । । तत्रैकाकिनं चिन्ताग्रस्तं च स्थितं दृष्ट्वा स आश्चर्यचकितोऽभूत् । श्रेष्ठिन: समीपं गत्वा ।
चिन्ताकारणं चाऽपृच्छत् । श्रेष्ठी यथाप्रवृत्तं सर्वमुक्तवान् । तच्छ्रुत्वा स अवदत्- 'अहो ! का नाम - नामाऽत्र महती वार्ताऽस्ति ? चलतु, अहं भवता सहाऽऽगच्छामि । 'भवान् निर्दोषोऽस्ति' - - इत्यत्राऽहं साक्षी भवामि' - इति । तस्यैवंरूपाणि वचनानि संश्रुत्य श्रेष्ठी समाश्वस्तोऽभूत् ।। - उभावप्यन्तः गतौ । तत्र च न्यायालये तावता कौशलेन तेन मित्रेण सर्वो व्यतिकरो निवेदितो पान येन स श्रेष्ठी निर्दोष उद्घोषितो मुक्तश्च जातः ।
बोध:- एवमेव च प्रत्येकं मनुष्यस्य त्रयो मित्राणि भवन्ति । यदा चेश्वरस्याऽऽमन्त्रणं प्राप्यते तदा तस्य प्रथमो मित्रं- तस्य धनं - तेन सह पदमेकमपि न चलति । अन्यश्च मित्रं - तस्य स्वजनादि - स्मशानपर्यन्तमेवाऽऽगच्छति । किन्त्वन्तः पर्यन्तं तु तस्य तृतीयमित्रं - - तत्सत्कर्मादि - एव तमनुसरति । स एव तं जन्ममृत्योश्चक्रात् मोचयति मुक्तिं च प्रापयति । तर
लोककथा 'थोडं सोनुं थोडं रू'' - पुस्तकतः 8
स
For Private &
Ronal Use Only
Page #106
--------------------------------------------------------------------------
________________
प्राधान्यं कस्य ? LaagarmaAAN -मुनिधर्मकीर्तिविजय: 30
यत्र साम्प्रतमपि 'श्रीसीमन्धरस्वामिन'स्स्वदेहेन मधुरसदुपदेशदानेन भवसंसार8 पतितानां भव्यजीवानामुद्धारं विधायिनो विराजमानास्सन्ति, तत्र महाविदेहक्षेत्रे 'पुष्कलावती'
५ विजयोऽस्ति । तत्र मधुरगन्धवहद्भिः पुण्डरीकैः परिवेष्टिताऽमरावतीव 'पुण्डरीका भिधाना IN नगरी विद्यते । तत्रैव नैकपुष्पफलविटपिवृन्दैरतीव रमणीयं 'नलिनीगुल्म'नामोद्यानं विराजते।
तस्या नगर्या आधिपत्यं कुर्वन् महापराक्रमी 'महापद्मो'नाम राजाऽऽसीत् । तस्य 'पद्मावती' नाम भार्या बभूव । तयो पुत्रौ 'पुण्डरीकः कण्डरीक'श्चेति । तौ द्वावपि - सुकोमलौ तेजस्विनौ बलिष्ठौ पुण्यभाजौ चाऽऽस्ताम् । यथोचिते काले स पुण्डरीको युवराजो बभूव ।
___अथैकदोद्याने स्थविरमुनिभगवन्तस्समवसृताः । धर्मस्य शुश्रूषुस्स महापद्मराजोऽपि * ससैन्यः परिवारयुतश्च तत्राऽऽजगाम । तान् मुनिवरान् प्रणम्य च देशनां श्रोतुं तत्रैव " My स्थितस्सः । संसारोदधितारिणी वैराग्यभृतां मधुरवाणी संश्रुत्य तस्य संवेगः सञ्जातः । * सत्वरमेव प्रविव्रजिषुस्सोऽभूत् । परिवारजनानामनुमतिमुररीकृत्य पुण्डरीकं राज्ये कण्डरीकं OE युवराजपदे च स्थापयित्वा साडम्बरं तेन प्रव्रज्याऽङ्गीकृता ।
स मुनिराजस्तीव्रमेधयाऽचिरं चतुर्दशपूर्वाण्यधीते स्म । बहुभिस्तपोभिराराधनैश्च । दीर्घकालमतिनिर्मलं श्रामण्यं पालयित्वा मासिक्या संलेखनया कालधर्मं प्राप्तो मुनिवरः ।
अथाऽन्यदा पुनस्त आनुपूर्व्या ग्रामानुग्रामं विहरन्तस्स्थविरपूज्यपादास्तस्यां पुण्डरीकिण्यामेव पुर्यां समवासरन् । तदा सपरिवारः पुण्डरीकराजः पूज्यपादानां प्रणिधानं * AM प्रचिकीर्षुराजगाम । तेषाममृततुल्यां गिरमाकर्ण्य सर्वेऽप्यमन्दमानन्दं प्रपेदिरे ।
पुण्डरीक आह- भो ! भो ! बन्धो ! संसारादुद्विग्नोऽहम्, विषयदारुण9 विपाकाद्भीतोऽस्मि । ततो दीक्षा ग्रहीतुमुत्सुकोऽस्म्यहम् ।
एतच्छ्रुत्वैव कण्डरीक उवाच- बन्धो ! अहमपि विरक्तो जातः । अतो भवान् *
-
पुण्डराक
For Priv 3 Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
****
* * *
* राज्यधुरां वहतु, अहं तु प्रव्रज्यां स्वीकरोमि । * तदा पुण्डरीकोऽवोचत् - त्वं तु लघुः, अतोऽधुनैव तव राज्याभिषेकं-कृत्वाऽहमेव ।
दीक्षां स्वीकरोमि । किन्तु न तद्वचनमाद्रियत कण्डरीकेण । एवं पुनः पुनः प्रेर्यमाणोऽपि 1 - सः कण्डरीको न राज्यारोहणं स्वीकुरुते । 'त्वं तु सुखशीलः । एष एव कालो ** * भोगस्य । ततोऽधुना राज्यसुखमनुभव, पश्चात् प्रव्रजेस्त्वम्', एवं मुहुः कथितम् ।
___ तदा कण्डरीक आह- "राजन् ! विषयतृषितानां प्राकृतजनानां कातराणां च । - कृते दुरुनुचरैषा दीक्षा, किन्तु धीरस्य न खलु किञ्चिदपि दुष्करमत्र" । एवमन्ते 8 ** विविधालापकैः पुण्डरीकं प्रबोध्य संयमग्रहणस्याऽनुमतिस्स्वीकृता तेन कण्डरीकेण । * Am पुण्डरीकेणाऽपि तस्य सानन्दं साडम्बरं निष्क्रमणमहिमाऽकारि । तस्मिन्नेव काले पुण्डरीकोऽपि स्वोचितं श्रावकधर्मं प्रत्यपद्यत ।
इतश्चाऽल्पेनैव कालेन तेन कण्डरीकमुनिनाऽधीतान्येकादशाऽङ्गानि । एवं च * विविधोत्कृष्टतपोभिस्तप्तो विशेषाभिग्रहयुतश्च भवसागराज्जनानामनेकेषां बहिनिष्कासनं कुर्वन् ।
स मुनिपुङ्गवो भिन्नभिन्ननगरेषु यथाचारं विहरति स्म । एवं दृढ श्रद्धया संयमसाधनामाराधयत् स मुनिराजः ।
अथ गते कियति काले नीरसैनिःसत्त्वैश्चाऽऽहारैस्तद्देहे रोगाः सञ्जाताः । शरीरस्य * NAW प्रातिकूल्यमवगणय्य स्वदेहेऽपि निर्मोही स मुनिवरस्तु विहितक्रियया प्रव्रज्यामपालयत् ।
अन्यदा पुनस्ते पूज्यपादास्स्थविरभगवन्तः पुण्डरीकिण्यां नगर्यां समवसृताः । 0 ORE "स्थविरैस्सह संयमी स्वलघुभ्राताऽत्राऽऽगत" इत्यवगम्योद्याने गत्वा सर्वान् मुनिवरान् श्री
क्रमशः पर्युपासते स्म स पुण्डरीकः । पश्चाच्च कण्डरीकमवन्दत । तस्य सरुजं ४
सव्याबाधं च कायं संवीक्ष्य स राजा स्थविरभगवतां निकटं गत्वा वन्दित्वा चाऽवादीत्आ "भगवन्तः ! एतस्य मे भ्रातुर्मुनिराजस्य चिकित्सकैस्तथा योग्यैर्निर्दोषैश्च भैषज्यैश्चिकित्सां RE कारयिष्यामि । ततो मे यानशालासु तस्य गमनस्याऽऽज्ञां ददतु, इति विज्ञपयामि" । "
गुर्वाज्ञानुसारेण स मुनिस्तत्र यानशालासु तिष्ठति स्म । राजाऽपि तदनुरूपां M चिकित्सामकारयत् । कियत्कालेनैवोचितौषधदानेन मनोज्ञाशनेन च तस्य मुने रोगातङ्कः । 30 क्षिप्रमेवोपशान्तः । ततश्च स बलिष्ठवीर्यो जातः । रोगान्मुक्तोऽपि सन् स मुनिस्तस्मिन् 0
*
For Private 8%sonal Use Only
Page #108
--------------------------------------------------------------------------
________________
मनोज्ञेऽशने पानके च मूच्छितो बहिरभ्युद्यतेन विहारेण विहर्तुं नैच्छत् ।
तज्ज्ञात्वा पुण्डरीको दुःखितोऽभूत् । तस्य प्रबोधार्थं च समेत्य प्रदक्षिणां च विधाय तमवन्दताऽकथयच्च - "प्रभो ! भवान् तु कृतार्थस्सपुण्योऽस्ति । राज्यमन्तःपुरं च विच्छ प्रव्रजितः । हन्त ! अहमधन्योऽकृतपुण्योऽस्मि । जातिजरामरणैरभिभूतः, अशाश्वतः, स्वप्नदर्शनोपमः, कुशाग्रजलबिन्दुसंनिभः, सन्ध्याभ्ररागसदृशः, पूर्वं पश्चाद्वाऽवश्यं विप्रहातव्यः, एष मनुष्यभवोऽस्ति । तथाऽप्येतेषु मूच्छितोऽहं तान् विहाय प्रव्रजितुं न शक्नोमि । भवान् तु हस्तगतमपि दारुणविपाकं संसारसुखादिकमेतत् सर्वमपि निराकृत्य संयममलङ्कृतवान् । अहो ! भवान् खलु पुण्यभागस्ति" इति ।
एतन्निशम्याऽपि स मुनिराजस्तूष्णींस्थितः । एवं पुनः पुनः पुण्डरीकोऽवोचत् । ततो राज्ञा मुहुर्मुहुरेवमुक्तस्सन् स मुनिवरोऽनिच्छयाऽपि लज्जयाऽन्यत्र विहृतवान् । किन्तु किञ्चित्कालानन्तरमेवैकदैषः श्रामण्यनिर्विण्णो मुक्त श्रमणगुणयोगस्स्थविरेभ्यो वियुज्य तस्यांमेव पुण्डरीकिण्यां नगर्यामागच्छत् । तदैव किमपि कार्यं कर्तुं बहिर्गच्छन्ती पुण्डरीकस्य धात्री तं मुनिराजं तथा वृक्षे स्थापितं वस्त्रपात्रादिकं च संवीक्ष्य पुण्डरीकाय निवेदितवती । स राजाऽपि च यत्र मुनिवरस्स्थितस्तत्राऽऽगतः । त्रिकृत्वः प्रदक्षिणां कृत्वाऽनंसीत् । तेन मुनेः पतितां मनोवस्थां ज्ञात्वा पूर्ववत् संसारसुखस्याऽसारतां ज्ञापयित्वा "त्वं पुण्योऽसि, धन्योऽसि” इत्यादिकैस्सुवचनैश्चोदितस्सन्नपि स मुनिवरो मौनपूर्वकमधोदृष्टिमेव कुर्वन् स्थितः ।
तदैव वैराग्यमापन्नः पुण्डरीकोऽचिन्तयत् - "अलमेतैः कामभोगै राज्यसुखैश्चे''ति । अथ तेन कण्डरीकाय स्वराज्यं दत्तम् । स्वयं तु पञ्चमौष्टिकं लोचं चकार चातुर्यामं च धर्मं प्रत्यपद्यत, तथा च तस्य कण्डरीकस्यैव रजोहरणवस्त्रकम्बलदण्डभाण्डादिकं सर्वसुखसमुदायमिव सानन्दं सोत्साहं च स्वीकरोति स्म । तथा च तस्मिन्नेव काले " स्थविराणामन्तिके धर्मं प्रतिपद्य पश्चादाहारं मे कल्पते" इत्यभिग्रहं विगृह्याऽऽत्मानं कृतपुण्यं मन्यमानस्स पुण्डरीकमुनिस्स्थविराणां सांनिध्यं प्राप्तुं गतवान् ।
इतश्च - मनोज्ञविविधेष्वाहारेषु भोगेषु च लुब्धस्स कण्डरीको निराबाधं प्रणीताहारं भुक्तवान् । किन्तु न प्रणीतमाहारपानादिकं सम्यक् परिणतम् । ततो देहेऽतीव दुःसहा
९५
Page #109
--------------------------------------------------------------------------
________________
* वेदना प्रादुर्भूता । अन्ते राज्येऽन्तःपुरे च मूच्छित आर्तरौद्रध्यानवशात एष कण्डरी- ४
कस्संयमविराधनामनालोच्य मृत्युं प्राप्य त्रयस्त्रिंशत्सागरोपमस्थितिकां सप्तमी नरकपृथिवीं M 8 गतवान् ।
इतश्च-पुण्डरीकस्त्रिभिदिनैस्स्थविराणां सांनिध्यं प्राप्तवान् । तत्र चातुर्यामं धर्म * स्वीकृतवान् । पश्चाच्चाऽष्टमतपसः पारणकं कृतवान् । अदीनत्वेनाऽग्लानित्वेन च स AM आहारयति स्म । किन्तु न जातु कदाचिदतः पूर्वं तेनैतादृशो रुक्षाहारः कृतः, अतो न
परिणतस्स आहारः । ततस्तदैव तीव्रवेदना सञ्जाता । तामसह्यामपि वेदनां सहमान: 3 " पुण्डरीको मुनिराज आत्मनोऽन्तिमं कालं ज्ञातवान् । ततो बाह्यपीडां विस्मृत्य HA
केवलमात्मचिन्तने रतो बभूव । अञ्जलिं विधाय नमोऽर्हद्भ्यः सिद्धेभ्यः साधुभ्यो धर्माय ORE चेति शरणचतुष्कं जग्राह । उपधिदेहाहारं व्युत्सृज्य पूर्वकृतस्य पापस्याऽऽलोचनं कुर्वन् ? * समाधि प्राप्तः । अन्ते मासान्तिके कालं कृत्वा प्राप्तसमाधिराराधितनिरतिचारधर्मस्स पुण्डरीकमुनिः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमायुष्को देवोऽजनिष्ट ।
एतेन "द्रव्यभावयोर्मध्ये भावस्यैव प्राधान्यमि"ति ज्ञायते ।
***********************
SSSSSSSS
किं चित्रं यदि राजनीतिकुशलो राजा भवेदार्मिक:
किं चित्रं यदि वेदशास्त्रनिपुणो विप्रो भवेत्पण्डितः । किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी
तच्चित्रं यदि निर्धनोऽपि पुरुष: पापं न कुर्यात् चित् ।।
For Private
Eersonal Use Only
Page #110
--------------------------------------------------------------------------
________________
मर्म-नर्म
वैद्यः
दीर्घं श्वासं गृहीत्वा त्रिः 'सप्त' इति वदतु ।
शिक्षकः (दीर्घमुच्छ्वस्य) एकविंशतिः - !!
डित्थ: भोः ! मे रूप्यकशतं ऋणं ददातु ।
sवित्थः अधुना मम पार्श्वे तावद् धनं नाऽस्ति ।
डित्थ: तर्हि गृहे ?
sवित्थः गृहे ? गृहे तु सर्वेऽपि कुशलाः !!
For Privateersonal Use Only
Page #111
--------------------------------------------------------------------------
________________
।
अध्यापकः यस्मिन् देशे बहुला वृष्टिर्भवति
तत्राऽऽधिक्येन किं दृश्यते ? म रमणः छत्राणि वर्षत्राणि (Rain Coats)
|"कपया वितारकानामपमाननं मा कार्युः,। ग्राहकास्त्वस्माकं बहवोऽन्ये उपलप्स्यन्ते ।"
एकस्मिन्नुपाहारगृहे सूचनाफलके
लिखितमासीत्-]
उद्धतबालकः महोदय ! किं भवता
वानरयूथमितः गच्छद् दृष्टं वा ? आम् । परन्तु त्वं तस्माद यूथाद् प्रभ्रष्टः किम् ?
सज्जनः
For Private
Csonal Use Only
Page #112
--------------------------------------------------------------------------
________________
कदाचित
अट
शिक्षकः कदाचित् मूर्खाणां प्रश्नस्योत्तरं
दातुं विदग्धा अपि न
प्रभवन्ति। विद्यार्थी अत एवाऽहं कदाचित् भवते ।
उत्तरं न ददामि ।
WAR
का
एकदेश्वरेण अमेरिका-रशिया-ब्रिटन्-इति
देशानां प्रतिनिधिगण आहूतः । ईश्वरः पृष्टवान् - भोः ! किं भवन्तस्तृतीयं विश्वयुद्धं कर्तुमुत्सुकाः खलु ? आम् ! तदर्थं वयं विचारयाम एव - ते
ऊचुः । भवद्भिस्तृतीयं विश्वयुद्धं तु न करणीयमेवेति निर्णयः कर्तव्यः । तन्निमित्तं च
त्रयाणामप्येकैकं वरं ददामि - ईश्वर उक्तवान् ।। [एवं चेश्वरस्य वाक्यं श्रुत्वा अमेरिकीयः प्रतिनिधिः प्रथमं वरं याचितवान् ] प्रभो ! रशियादेशस्याऽस्तित्वमेव न भवेदस्मिन् विश्वे - इति । ईश्वरः तथाऽस्तु !
[तदनन्तरं रशियादेशीय उवाच]भगवन् ! प्रथमं तावद् वयं त्वीश्वरास्तित्वमेव नाऽङ्गीकुर्मः । परन्तु तथापि 'अमेरिकादेशस्याऽस्तित्वं नष्टं भवतु' इत्येव प्रार्थयामहे ।
पुनस्तथाऽस्तु इतीश्वरोऽवदत् ।
[अथाऽवशिष्टो ब्रिटनदेशीयोऽयाचत्]ईश ! वयं किमप्यन्यन्नेच्छामः । केवलमनयोर्द्वयोरिच्छां परिपूर्णां करोत्वित्येतावदेव ।
.
.
For Private Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
जामाता
श्वशुरः भवान् कदाचित्तु व्यापारार्थं प्रयत्न
करोतु ! जामाता पितः ! मया मित्रेण सह व्यापारः
कृत एवाऽऽसीत् । तत्र "मया धनं दातव्यं तेन चाऽनुभवो विनियोक्तव्य"
इति निर्णीतम् । श्वशुरः ततः किं प्राप्तम् ? जामाता अहो ! किं पृष्टेन । तेन धनं लब्धम्, .
___ मया तु यावज्जीवनं तस्याऽनुभवः ।
-
Hin
- +-++-
+-
+2
UAIssma.
.
भिक्षुकः आर्य ! त्रिभिः दिनैः किमपि न प्राप्तम्,
अतः किञ्चित् ददातु । स्वामी अद्य परीवर्तं नाऽस्ति, श्व आगच्छतु । भिक्षुकः आर्य ! न कदाऽप्यधमणेन भवितव्यम्,
अन्यथा मादृशी स्थितिर्भवेत् ।
htttttttt.
महेशः अहं निद्रायामपि भाषणं कर्तुं समर्थः !
भाषणं तु 'वामहस्तक्रीडा' । नरेशः कस्य ? तव श्रोतुर्वा ।
For Private o
sonal Use Only
Page #114
--------------------------------------------------------------------------
________________
प्राकृतविभागः
मंगलमालापराभिहाणं *सिरिसिद्धचकुथोत्तं ।।
॥ मंगलाचरणम् ।
पणमिय परिमिट्ठिपए गुणगुरुगुरुणेमिसूरिमंतपए ॥ सिरिअजियसंतिथचगं रएमि सिरिसिद्धचक्कथवं ॥१॥ आर्यावृत्तम् । ॥ अरिहंतस्तवनम् ॥
परमे परमग्गदए बुद्धे परबोहगे पुरिससीहे ॥ नियगुणपुण्णरमणए वंदमि सययं जिणवई हं ॥ गाहा ॥१॥
अणुवममंगलगेहे इंदाइपयरसमच्चसुहदेहे ॥
मयणलपसंतिमेहे वंदे जिणए पनिण्णेहे ॥ गाहा ॥२॥
भव्वचारितलीणाणं केवलीणं महेसीणं ॥ तिलोयसरणिज्जाणं णमो जिणगणेसाणं || सिलोगो ॥३॥
भुवणगुरु ! पयत्थभासणं ।
विजयपयं पहु ! तुज्झ सासणं ॥
आ. विजयपद्मसूरिः
सयलवियडविग्घणासणं ।
बहुभयमोहपसत्तुतासणं ॥ मागहिया ॥ ४ ॥
★ श्रीअजितनाथ - श्रीशान्तिनाथेतितीर्थकरद्वयस्य स्तुतिरूपेण श्रीनन्दिषेणमुनिना विरचितः प्राकृतभाषामयो विविधच्छन्दोबद्धः श्रीअजितशान्तिस्तवो जैनपरम्परायामत्यन्तं प्रचलितोऽस्ति । तानि छन्दांस्येवाऽनुसृत्य शासनसम्राडाचार्य श्रीविजयनेमिसूरीश्वराणां पट्टधर- पूज्याचार्यवर्य श्रीविजयपद्मसूरिमहाराजेन विरचितमस्त्येतच्चित्तचमत्कृतिकरं श्रीसिद्धचक्रस्तोत्रम् | आस्वादयन्तु काव्यरसं विद्वांसः ।
For Privaersonal Use Only
Page #115
--------------------------------------------------------------------------
________________
-
अरिहंतपयं विभयं गयसंसइभंतिहरं ।
वरसत्तियमोयसमुद्दविवड्ढणचंदयरं ॥ परभावणिरोहगमिट्ठपयाणसुरद्दुमहं ।
पणमामि कसायचउक्कपतावजलं सइ हं ॥आलिंगणयं॥५॥
॥ श्रीसिद्धपदस्तवनम् ॥ अपुणब्भवसुक्खसंतई । ववगयदेहविहावसंगई ॥ विमले सिद्धे नमामि हं । परमगुणे सययं पसंतिए मागहिया॥६॥ विगयमरणुवगयपरमसुहगणनियरमणे । थिरसुहपरिणइतइबलविअलियभवभमणे ॥ तिहुअणपसरियविमलजसपयरवरगइए । णममि सइ निरुवमपसुहणुहवए बिइयपयठिए ॥संगययं॥७॥ सारयचंदसमुज्जलणिक्कलभावमए । झाणविसिट्ठकिवाणपणासियमोहगए ॥ केवलनाणपलोइयसब्वपयत्थनए । मुत्तिदए समरामि सया सुहसिद्धिगए ॥सोवाणयं॥८॥ देहाउकम्मजोणिजम्मरसवण्णगंधफरिसप्पख्नेयप्पणासगे । विमलभावरत्ते सुरवइसुक्खाइसाइयपहाण
सुक्खपमोअमोइए पुण्णपुण्णए ॥ नाणदिट्ठिजोगरुद्धमणवयणतणुबहुगइजोगए कणयवण्णझाणविसए णमामि सिद्धे । नयगमविआरिए निरुवमसमपत्तमुणिरायचित्तपरिसोहियपवर-विगयजरे ॥वेड्डओ॥॥
രങ്ങൾ
രജ
For Prival१०२rsonal use Only
Page #116
--------------------------------------------------------------------------
________________
COO
m
EEEEE DAD.
One
सरणे भवाहिहरे, कयकिच्चगणे सहावरए ॥ वरसत्तियभावमए सिद्धे पणमामि णिच्चमहं ॥रासालुद्धओ॥१०॥
॥ श्रीआचार्यपदस्तवनम् ॥ मुणिगणपवरे वरायरणपच्चले तइअंगवुत्तपंचप्पहावपत्ते विसुद्धसीले । पंचक्खोहदमणपगुणणट्ठमयसरलपसमसमिइए ॥ खंते णम्मे भवयकसायप्पघायमुक्के । थिरहिअयजुगपवरवरजाइकुलजिणाहिवसासणगयणदिवायरंसुसरिसे ॥ जइधम्मचरणपवणरयणीसदित्ती संणममि । भावणासंसग्गे विण्णाणी तत्तए आयरिए ॥वेड्डओ॥११॥ सुत्तत्थण्णे विदए, गीयत्थे भव्वगुणे ॥ सूरी गच्छाहिवई, सेवामि सब्बया रासानंदिअयं॥१२॥ विण्णायसुवण्णमहागुण मुणिपवर करणहरा । गणसारणपमुहविहायग विगयमया निउणनया ॥ वरदेसण पावणजोगवियत्रण पसमहरा दुरियहरा । गयगारचे सरमि सया हय-सबलगणे कयसरणे चित्तलेहा॥१३॥ सारणाइणा गणम्मि सव्वसाहुरक्खगे पसण्णविमलदिट्ठिकायभासणे रसायणे विहारभद्दपगुण ॥ चत्तभत्तदूसणे गरिठ्ठसीलभूसणप्पधरण ।। दोसवंददंसगे विणासियप्पमाय सूरिसिट्ठपाय वरकए पवंदे ॥नारायओ॥१४॥ वरमुणिगणतत्तिविप्पमुक्के । विमलपवित्तियरे सिणेहसुक्के ॥ भवियणकमलप्पयासणभाणू ।। पणममि कम्मतणुद्दहे किसाणू ॥कुसुमलया॥१५॥
ൽ ഭയഭ
CAR
lad
For Private o
sonal Use Only
Page #117
--------------------------------------------------------------------------
________________
॥ उपाध्यायपदस्तवनम् ॥ सज्झायगुणी पसमे । दव्णायरिए विदमे ॥ मुणिपुज्जभद्दयकमे । वंदमि भंगनयाइगमे ॥भुअगपरिरिंगिअयं॥१६॥ आगमविण्णे सुद्धचरणे गणहियरसिए । संसइखिण्णे गछसरणे सुहमइलसिए ॥ धम्मविहिण्णे वुत्तकरणे गुणचयतसिए । सग्गुणकिण्णे तित्थतरणे नयदुगमइए खिज्जिअयं॥१७॥ सिक्खणभेयदेसगे वरनियमए । उत्तमजणपूइए कयमयविलए ॥ भेयपभेयभासिए हयकवडगए । भव्चे नमेह वायगे नियपसुहए ललिअयं॥१८॥ ममयाहिविसपसरणट्ठमइभवियबोहए सुहए । सुयतोसियसुयगुणभवियणपवयणभावणे पवणे ॥ हयदुग्गइगमणक सायगणमयणवायगे सरमो । जिणसासणगयरयगयणविहासणभक्खरे सययं ॥किसलयमाला॥१९॥ निरुवमवयणपवणे, दूसणाइपरिवज्जणे । बंधमोक्खाइयभासणे, णममि वायगगुरु स्या ॥सुमुहं॥२०॥
॥ साधुपदस्तवनम् ॥ समणे समिए विरए विमए । पसमे पदमे पणमामि मुणी ॥विज्जुविलसि॥२१॥
CORom
१०४
Page #118
--------------------------------------------------------------------------
________________
4OSSA
दुक्खवियरणपच्चलप्पसुहपणविहविसयपयतइवेरग्गगए ॥ पवंदमो सरणोइयवरचरणपसाहगे हयपमायसत्तू सयलणगारे ॥वेड्डओ॥२२॥ उण्णयभावा चत्तविहावा संजयजोगा दूसियभोगा । णिम्मलदंसण सासणसेवणतप्परचेयणभव्वसहावा ॥ पावणभव्वगुणगणविराइय-पंचमहब्बयपालगसाहू । कम्मसमुच्चयणिज्जरणामयसोहणवित्तिपवित्तिपयारा ॥रयणमाला॥२३॥ पत्तसंजमे भद्दसाहगे । तवविहायगे जणप्पबोहगे ॥ समपरीसहाचलाहिवारगे । भववने सया सरण्णसाहुणो खित्तयं॥२४॥ दुखसुक्खए खणे समे समे । वंदगेयरे माणएयरे ॥ लक्खरखगे सुधम्मदेसगे । तित्थभासगे मुणी णमामि हं ॥खित्तयं॥२५॥
र
melan
URE
॥ श्रीदर्शनपदस्तवनम् ॥ दंसणं सुपरिणामसहावं । जिणपभासियतत्तं वरभावं ॥ सच्चमेयं ति विसिट्टवियारं । दुविहतिविहचउपंचपयारं ॥दीवयं॥२६॥ जायइ तं परिणइमयतिकरणणुक्कमभावं । चियमोहसमपमुहजोगयलक्वणपंचगभावं ॥
For Private ou sanal Use Only
Page #119
--------------------------------------------------------------------------
________________
भवभंतिविणासगसिवसुरपयदयनट्ठविहावं ।
जिणवइगइयपभूसणदूसणनासियतावं ॥ चित्तक्खरा ॥ २७ ॥
तित्थनाहदेवा जम्मि भद्दसेवा |
चत्तभामिणीपसंगदव्वमोहणा सग्गुरु विणट्टखेया ॥ वायणाइसंगई पणट्ठाकामणे चेव ।
पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ॥ नारायओ ॥ २८॥
॥ श्रीज्ञानपदस्तवनम् ॥
सययं पणभेअं ।
अहं चरनाणं ॥
सुहतत्तविबोहं ।
विहिणा समरामि ॥ नंदिअयं ॥२९॥
विसआवहारं विणयविवेगवियारं । भक्यरसारं समयं दुहसंगे ॥ कज्जऽवकज्जविवेयपयासं । नासियमोहतमाइविलासं ॥
दंसणसंजमगं वरमुत्तं ।
पणममि पइदिणमुत्तमनाणं ॥ भासुरयं ॥ ३० ॥
॥ श्रीचारित्रपदस्तवनम् ॥
संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकं तिकित्तिसत्तिए अ । गयक सायभेयकायरक्खणे महव्ययाइसाहणड्डे ॥ समिइसोहिए तिगुत्तिमंडिए णिसिद्धरत्तिभुत्तिसेवणे अ । जम्मि अट्ठ सिट्ठा सग्गुणा पणट्टकामभोगसेवा ॥
१०६
Page #120
--------------------------------------------------------------------------
________________
भामिणीसुयाइकारणोहुप्पण्णप्पतिव्वदुक्खणासगे णिवाणई । ण भोयणाइचिंतणा निअप्पसाहणा ||
पसम्मसुक्खलाहमाणपूयणा धरेमि तं पसत्थमोयअं ॥ नारायओ ॥३१॥
चक्कधारगविसिट्ठसमसुहदायगं ।
जिणवइसमुवगयभवयसंकडतायगं ॥
कम्मपयारकट्ठदहणाणलसंनिहं ।
वंदमि पणपयारचरणं बलिणिव्वहं । ललिअयं ॥ ३२ ॥
॥ श्रीतपःपदस्तवनम् ॥
महप्पहावं बहुस्सहावं । विणकामं पमोयगामं ॥
खमाइवासं गुणप्पयासं ।
णमो णिच्चं तवं भव्वच्चं ॥ वाणवासिया॥३३॥
सीलरुक्खगणवुढिवारियं । सग्गसिद्धिसुहसुक्खसंदयं ॥
कम्मकट्ठदहणग्गिसम्मयं ।
तं तवं थुणमि हं जयप्पयं || अपरांतिका ॥३४॥
॥ श्रीसिद्धचक्र स्तवनम् ॥
इत्थं नवपयपयरो मए मुया पवरमंतपसमयरो । जिणवइसासणपवरो थुओ महाणंदओ जयरो || गाहा ॥ ३५ ॥
तं पचरसिद्धचक्कं कम्मयरू परिलुणेड़ जह चक्कं चक्किरस कप्परुक्खं अहिलसियपयाणपुण्णदक्खं ॥ गाहा ॥३६॥
For Pro Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
तं चिंतंबुहिपोयं संणासियविग्घभीइगयसोय । परिणंदियभविलोयं जयउ सुकयबोहिपज्जोयं ॥ गाहा ॥ ३७ ॥ संघगि एसो सया कल्लाणतई करेउ सुयपाढो । रिद्धी सिद्धी बुड्डी गणणा सवणाउ भत्तीए ॥ गाहा ॥ ३८ ॥ सत्तनिहिणंदचंदग(१९९७) - वरिसे - माहे सियणवमीदिवसे । गुरुनेमिसूरिसीसो सूरी पोम्मो पणेही हं ॥ गाहा ॥ ३९ ॥ सिरियनयररइए थवणे तस्संघभव्यविण्णवणा । भव्वा ! भावा सययं पढह सुणेह प्पमोयभरा || गाहा ॥ ४० ॥
॥ अंतिममंगलम् ॥
जिणसासणणिस्संदो कप्पल अब्भहि अपुण्णमाहप्पो । सिरिसिद्धचक्कमंतो होउ सया तित्थभद्दयरो ॥४१॥ आर्यावृत्तम् ॥
१०८
Page #122
--------------------------------------------------------------------------
________________