SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आस्वादः चिन्तनधारा "You only live once, live it right" विहरन्तो गच्छन्त आस्म वयम् । एकत्र फलके दृष्टिः पतिता । तत्र चोपर्युक्तं वाक्यमेतल्लिखितमासीत् । पठनमात्रेणैवाऽऽत्मनि आनन्दस्पन्दनानि समुद्भूतानि । मनः सततमेषणापूर्त्तो व्यग्रं प्रवृतं चाऽस्ति परं आत्मा तु सत्यं प्रतीक्षमाण एव स्थितोऽस्ति । अत एव च यदा यदैतादृशस्य कस्यचिदपि सत्यमुद्घाटयतो दर्शनं ज्ञानं श्रवणं वा भवति तदा तदा तद् दृष्टं ज्ञातं श्रुतं वा मनः प्रदेशमुल्लङ्घ्याऽऽत्मप्रदेशं संस्पृशति - प्रविशति च । ततश्चाऽऽत्मन्यान्दानुभूतिर्भवति । अतः स्वाभाविक एवाऽयमात्मन्यानन्दस्य समुद्भवः । प्रथमदृष्ट्या त्वेतद्वाक्यम् 'एकमेव लघ्वपि च' इति प्रतिभाति । किन्तु 'परिमाणं हि शक्तेर्द्योतकम्' इति तु न सर्वदा सर्वत्र वा सत्यम् । एकस्याऽणोरूर्जायां कियती शक्तिर्विद्यते ? एतत्कथनं त्वत्राऽपि समानम् । अस्मिन् वाक्ये जीवनस्य सत्यं सन्निहितमस्ति । सत्यं त्वाणविक्या ऊर्जायाः पुञ्जरूपं भवति । तस्यां चोर्जायां परिवर्तनस्य सामर्थ्यं विद्यते । एकेनैव वाक्येन समग्रमपि जीवनं परिवर्तितं जातम् - इत्यस्याऽनेकान्युदाहरणानीतिहासपृष्ठेषु दृश्यन्त एव । परिवर्तनस्यैतादृशी शक्तिर्न केवलं वाक्यानां शब्दानां वाऽस्ति किन्तु तत्र सन्निहितस्य सत्यस्याऽस्ति । सत्यं सर्वदा शक्तिसम्पन्नमेव भवति । केवलं तां शक्तिमुपलक्षितुं ग्रहीतुं चाऽस्माकं संवेदनं जागृतं तीक्ष्णं च स्यादित्यावश्यकम् । - Jain Education International मुनिरत्नकीर्तिविजयः - विज्ञानप्रधाने भौतिकेऽस्मिन् युगेऽपि 'जीवनतत्त्वमेव सर्वोपरित्वं भजते ' इति सत्यं त्वेवंरूपेणाऽत्र तत्र यदा कदाचिच्च प्रकटीभवदनुभूयते । किमपि कुर्वाणस्य चित्ते तत्करणकाले तदनु च प्रश्ना उद्भवन्ति – उद्भवनीया वा यत् अतः किम् ? अतः परं किम् ? अनेन वा कार्येण जीवने को लाभविशेषो भविष्यति ? इत्यादयः । एत एवाऽऽर्यप्रश्ना आर्षप्रश्नाश्च । एते एव जीवनं प्रति सावधानतां जनयन्ति, जीवनलक्षितां च प्रकटयन्ति । तदेवाऽध्यात्ममस्ति । अध्यात्मं प्रति च यस्य रुचिर्नास्ति स कथं नामाऽऽर्यः स्यात् ? - उपर्युक्तं वाक्यं जीवनलक्षितामुज्जागरयद् वाक्यमस्ति । "जीवनमेकवारमेव जीवितुं शक्यम्, तत् सम्यक् -शोभनं जीवतु " - कियत् सुन्दरमेतत् वचनम् ! जीवनं सुखेन जीव्येत For Private & Personal Use Only ६४ www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy