SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठः । अतः शेषा जीवास्तमेवाऽऽश्रिताः सन्ति । अतो दयया प्रेम्णा चैव तेषां समेषां पालनं कर्तव्यम् । तथाऽऽवश्यकेषु स्थानेषु कार्यार्थं ते नियोक्तव्या अपि, परन्तु * निजभोगविलासार्थं ते न प्रयोजनीयाः । अत एवोष्ट्राणां कपोतानां कुक्कुटानां तथा- * ऽन्येषामपि प्राणिनां हिंसा न केवलं कुरानेऽपि तु तेषां बहुषु धर्मग्रन्थेषु निषिद्धाऽस्ति, स्वयं पयगम्बर्-इत्यनेन स्वस्य पूर्वावस्थायां पशु-पक्षिणामुपरि या क्रूरताऽऽचरिताऽऽसीत् साऽपि तेन निन्दिताऽऽसीत् । तथोष्ट्राणां पृष्ठभागे विद्यमानः ककुद उपवेशने प्रातिकूल्यं जनयति स्मेति कृत्वा । 8 तत्कालीना जनास्तं छिन्दन्ति स्म । एषोऽपि कुत्सितो व्यवहारः महता परिश्रमेण बहूनां : प्रभूतं विरोधं सम्मुखीकृत्याऽपि तेन निवारित आसीत् । तथाऽजानां पुच्छच्छेदनमपि निवारितम् । किं बहुना ? एतादृशं कृत्यं तेन 'हराम्' इति शब्देनोद्घोषितम् । (यदीश्वराय 8 न रोचते तत् - 'हराम्' इति कथ्यते ।) चटकानामण्डानां भोक्तृन् प्रत्यपि स कुपित आसीत् इति श्रूयते । एवं स्थिते ये वस्तुतः पयगम्बर-इत्यस्याऽनुयायिनः सन्ति ते कथं हिंसका भवितुमर्हन्ति ? अलं विस्तरेण । शास्त्रेष्वहिंसायाः फलं बहु प्रकारैर्वणितमस्ति । यथा दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता ।। अहिंसायाः फलं सर्वं किमन्यत् कामदैव सा ॥ . (श्रीहेमचन्द्राचार्यविरचिते योगशास्त्रे ।) अतः सर्वेऽपि अहिंसायां यत्नवन्तो भवेयुरित्याशया विरमामि । ..-00-...०. .. RON . . सेवितव्यो महावृक्षः फलच्छायासमन्वितः । यदि दैवात फलं नाऽस्ति छाया केन निवार्यते ? || . KOA Jain Education International For Private personal Use Only www.jainelibrar www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy