SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आस्वादः अहिंसा मुनिविश्रुतयशविजयः अहिंसाप्रियेऽस्माकं देशेऽप्यधुना हिंसायास्ताण्डवं प्रचलति । सामान्यजनास्त्वहिंसामधिकृत्य केवलं महावीरजन्मकल्याणकदिने बर्करी - ईददिने वा एवं विचारयन्ति यत्कया रीत्या कस्मिश्च स्थानेऽहिंसाप्रचारसभाऽऽयोजनीया, तथा जीवानां रक्षणाय मन्त्रिणामधिकारिणां च कथं वार्ता करणीया कस्मै वाऽऽवेदनपत्रं देयम् - इत्यादि । किन्तु तद्दिने व्यतीते तु सर्वमप्येतत् विस्मृतमेव भवति । अतीव शोचनीया परिस्थितिरेषा । अतो हिंसायाः प्रवर्धनमेव जायते । इह जगति यः कोऽपि जीवितधारी मनुष्यः पशुर्वा स्यात्, जन्मत आरभ्य तस्य लालन-पालनादि तु शाकाहारित्वेनैव भवति । यतः सिंही अपि स्वपोतं दुग्धपानेनैव पोषयति, तर्हि मनुष्याणां तु का कथा ? ये केऽपि जना मांसाहारस्याऽऽग्रहं कुर्वन्ति तेषामपि जीवनारम्भे तु शाकाहार एव भवति । पश्चादपि यदा ते मांसं खादन्ति तदाऽपि विना शाकाहारेण तेषां जीवनं स्वल्पेनैव कालेन समाप्तं भवेत् । अतो विश्वस्य सर्वेऽपि जीवाः शाकाहारिण एव । किञ्च, शाकाहारिणो जीवा मांसाहारिणो भवेयुरेवेत्येषा व्याप्तिस्तु नाऽस्ति । परन्तु मांसाहारिणो जीवास्तु शाकाहारिणो भवन्त्येव । यथा धूमसत्त्वे वह्निः स्यादेव यथा महानसे, परन्तु वह्निसत्त्वे धूमो भवेद् वा न वा, यथाऽयोगोलके । अतो विधायकदृष्ट्या तु सम्पूर्णं विश्वं शाकाहारि एव । “Diet for New America" इत्येतस्मिन् पुस्तके अमेरिकीयो धनपतिः होन्-रोबिन्स्-महाशयोऽतीव धनाढ्यः सन्नपि शाकाहारं प्रति अत्यन्तमादरवान् कथयति यत्-मांसाहारेणाऽस्माकं शरीरस्य जलस्रोतोऽल्पीभवति कुत्थितं च भवति । अन्यच्च, पयगम्बर- खलीफादीनां नैकेषां सूफीसाधूनां जीवने व्यवहारे चाऽहिंसाया एव प्राधान्यं दृग्गोचरीभवति । ते कथयन्ति यत् मनुष्य एवाऽत्र जगति सर्वजीवेषु Jain Education International For Private Personal Use Only စာဖွဲ့ခဲ့ သော www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy