SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वास्तविकी शान्तिस्तु निर्विकल्पे निराग्रहे च मनस्येवोद्भूयते । यदा यदाऽस्माकं । मनः विकल्परहितं निश्चिन्तमाग्रहमुक्तं च भवति तदा तदा तद् निर्मलां निरुपाधिकां च । शान्तिमनुभवत्येव । एषैव स्वाधीना शान्तिः । यद्यपि मनो निर्विकल्पमल्पविकल्पं वा । कर्तुं बहवः प्रयत्ना आवश्यकाः। प्रारम्भे च तत् कठिनमपि भवति । तथाऽपि, यथा नवीनं पादत्राणं धृतवन्तं प्रारम्भे पीडयति पश्चाच्चाऽभ्यासे जातेऽनुकूलीभवति तथा K शान्तिप्राप्तये क्रियमाणा साधनाऽपि प्रारम्भे कठिना भवति । अभ्यस्यमाना च हस्तगता भवति । तत्र चाऽभ्यासे मुख्यं सोपानं समतैव । सर्वपरिस्थितीनां स्वाभाविकः स्वीकारः,' अदैन्यं, परिस्थितेरनुकूला मनःस्थितिश्च तत्र सहकारिकारणानि । एतत् सर्वं प्रयुज्य : सकृत् शान्तिपथेऽवतारो यदा भवेत् तदा भौतिकी सर्वाऽपि शान्तिर्दुःखदा एव भासेत। त - C/o. S.R.Bhansali 10, Anand Darshan - A, 5th Floor, Peddar Road, Mumbai-400026 धर्मार्थकाममोक्षाणामारोग्यं साधनं मतम् । तस्मादारोग्यदानेन तद्दत्तं स्याच्चतुष्टयम् || - Jain Education International For Price & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy