SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आस्वादः शान्तिः आ.राजयशसूरिः अस्मिन् जगति प्रायः सर्वेऽपि जीवाः शान्तिप्रियाः सन्ति । किन्तु शान्तिमनभिजानन्तस्ते तत्प्राप्त्यर्थं बाह्येषु भौतिकपदार्थेषु धावन्ति । अन्ततश्च नैराश्यमशान्तिमेव चाऽनुभूय दुःखीभवन्ति । अतोऽत्र चिन्तनीयं यत् वास्तविकी शान्ति का ? कथं च प्राप्यते ? इति । ___ किं शब्दशून्ये स्थाने या नीरवता सा शान्तिः ? नैव, सा तु भ्रान्तिरेव । यतः ।। शान्तिप्रिया अपि जना धनप्राप्त्यर्थं वाणिज्यं कर्तुं यत्र कुत्रचिद् कोलाहलमयेषु स्थानेषु गच्छन्ति एव । तत्र च पूर्वोक्ता शान्ति व भवति । तथाऽपि तत्र धनप्राप्तिस्तु भवति । अतस्तादृशेऽशान्तियुते स्थानेऽपि तैः शान्तिरनुभूयते । अनेन ज्ञायते यत् यत्र स्वार्थसिद्धिर्भवेत् तत्र सर्वमपि शान्तिमयमनुभूयते । यत्र तु सा न भवति तत्र शान्तिरप्यशान्तीयते । अन्ततस्तु यस्य जीवस्य यत्र रुचिर्भवेत् तत्र तस्य शान्तिरेव । विपरीते त्वशान्तिरेव । एकदा मुम्बाईनगरे स्थितस्य मम पार्वे कश्चिज्जन आगतः । मया पृष्टं-कुत्र वसति भवान् ? तेनोक्तं - अहं वालुकेश्वरपरिसरे निवसामि । यतस्तत्र कदाऽपि शब्दलेशोऽपि न श्रूयते । नीरवा शान्तिरेव सदा वर्तते । अहं च नितान्तं शान्तिप्रियोऽस्मि । मया पृष्टं - तर्हि वाणिज्यमपि तत्रैव करोति ननु ? तेनोक्तं - नैव गुरवः । तत्तु मुम्बाईनगरस्य श्रेष्ठविपणौ गत्वा करोमि । ममाऽऽपणस्तत्रैव विद्यते । ननु तत्र तु सदाऽप्यशान्तिः कोलाहलश्चैव वर्तते । तर्हि कथं तत् भवतेऽनुकूलं स्यात् ? इति पृष्टे तेनोक्तं - प्रभो ! तत्र तु धनं प्राप्यतेऽतः कोलाहलोऽपि शान्तीयते। - एतच्छ्रुत्वा मया चिन्तितं यत् साधनशान्तिरेषा । सुखसाधनप्राप्तौ जनाः शान्ति6 मनुभवन्ति । किन्तु सा तु भ्रान्तिः । यतः सा नितरां पराधीना अन्ततो गत्वा च सा - दुःखेऽशान्तावेव च पर्यवस्यति । Jain Education International For Private e orsonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy