________________
इन्द्रः
अहो मुने ! भवानेव यथार्थं संयमं पालयति । भवानेव याथार्थ्येन विजयी, यतो भवता क्रोधादय आन्तररिपवो लीलया जिता: । तथा भवानेव गुणानामाधारः, यतः क्षमा-मार्दवार्जव - सन्तोषादयो गुणा भवन्तमेवाऽऽश्रिताः । भवानिहाऽप्युत्तमः सच्चरितश्चाऽस्त्येव, प्रेत्याऽपि कर्मकलङ्कमपनीय नीरजीभूय च सिद्ध्यभिधं लोकोत्तमं स्थानं संप्राप्य शाश्वतं कालं सुखी भविष्यति ।
[ एवं मधुराभिर्वाणीभी राजर्षि संस्तुत्य प्रदक्षिणां च कृत्वा श्रद्धावनतः शक्श्चक्राङ्कुशादिवरलक्षणै राजमानं मुनेश्चरणयुगलं वन्दते स्म । ततोऽनुमति याचित्वा स आकाशमार्गेण निजस्थानं जगाम । मुनिरपि श्रामण्ये स्थिरप्रतिष्ठः सन् पृथिव्यामप्रतिबद्धतया विजहार । ]
[ उत्तराध्ययनसूत्रस्य नवमाध्ययनस्याऽऽधारेण सङ्कलितम् । ]
Jain Education International
दीनानां कल्पवृक्षः स्वगुणफलनतः सज्जनानां कुटुम्बी आदर्श शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः । सत्कर्ता नाऽवमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो
एकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्वसन्तीव चाऽन्ये ॥
(मृच्छकटिकम्)
For Private Personal Use Only
www.jainelibrary.org