________________
नमिः
वर्धनं तु भवत एव कर्तव्यम् । अतो भवान् सुवर्ण-रूप्यादिभिर्मणि-मुक्तारत्नादिभिरन्यैश्च सारस्वापतेयै राज्यकोषं पूरयित्वा वस्त्र-वाहन-भाण्ड-भाजनादीनां च संवर्धनं कृत्वा गृहत्यागं करोतु । भोः ! सुवर्ण-रजतादीनां सङ्ख्यातीताः कैलाससमाकाराः पर्वता अपि कदाचित् केनचित् प्राप्येरन् । तथाऽपि लोभाकुलचित्तस्य नरस्य तैरपि तृप्ति व भवेत् । यत इच्छानामन्त एव नाऽस्ति । तास्त्वाकाशसमा निःसीमाः । अपि च यदि कश्चिन्मनुष्यः सम्पूर्णां पृथ्वीमपि धन-धान्य-पशुभिः पूरितां प्राप्नुयात् तथाऽपि साऽपि तस्य सन्तुष्टये समर्था नैव भवेत् । अतः सन्तोष: संयमस्तपश्चैव श्रेयस्कराणीति मां प्रतिभाति । अस्तु । किन्तु भवत आचरणं ममाऽश्चर्यकरं प्रतिभाति । यतो भवान् इहलोके स्वयमेव प्राप्तानभ्युदितांश्च भोगान् त्यक्त्वाऽसतः सन्दिग्धांश्च पारलौकिकान ८ कामभोगान् प्राप्तुकाम इव यत्नवान् दृश्यते । एतेन सङ्कल्पेन भवान् दुःखमेव, यदि परं, प्राप्स्यति, नाऽन्यत् किञ्चित् । महाशय ! कामा भोगाश्च शल्यतुल्या अथवा विषतुल्याः सन्ति । अथवा किं बहुना? ते हि साक्षात् दृष्टिविषसर्पतुल्या आशीविषसर्पतुल्याश्च सन्ति । कामभोगान् प्रार्थयमानास्तत्प्राप्तये यत्नवन्तो वा जीवाः, दृष्टिविषसर्पस्य दृग्गोचरा जना मरणमिव, दुःखमेव प्राप्याऽतृप्ता एव दुर्गतिं प्रयान्ति । अन्यच्च, कामभोगान् प्राप्तुं, रक्षितुं, सेवितुं च क्रोधादयः कषाया अप्यादरणीया भवन्ति । क्रोधो हि दुर्गतेर्मुख्यं कारणम् । मानोऽधमां गतिं नयति । माया तु सुगतरर्गलायते । लोभाच्चेहाऽमुत्र चेत्युभयत्राऽपि भयम् । अत एतेभ्यो कामभोगेभ्यः कषायेभ्यश्च दूरे एव स्थातव्यम् । [ नमिराजर्षि दृढवैराग्ययुतं प्रव्रज्यायां स्थिरसत्त्वं च दृष्ट्वा तथा स्वीयप्रश्नानां तात्त्विकं समाधानं मोक्षसाधनायाश्च रहस्यमुपलभ्याऽत्यन्तं प्रसन्न इन्द्रो ब्राह्मणवेषं परित्यज्येन्द्रत्वेन च प्रकटीभूय तं वन्दते स्तौति च ।]
नमिः
Jain Education International
For Private &
Conal Use Only
www.jainelibrary.org