SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ नमिः भो ! यः सङ्ग्रामे सहस्राणां सहस्त्रं दुर्जेयान् भटान् राज्ञश्च जित्वा जगति अजेयतया विश्रुतो भवेत्, ततोऽपि यदि स स्वीयमात्मानं जयेत् तदा स एव तस्य परमः प्रधानश्च जयः । यत आत्मजय एव जगति परमदुष्करः । अपि च पञ्चेन्द्रियाणि क्रोध-मान- माया - लोभादयश्च बहवो दुर्जया आन्तरवैरिणः सन्ति जीवस्य । तान् जेतुं वशीकर्तुं च एक एवोपायोऽस्ति आत्मजयः । यद्यात्मा जीयेत तर्हि सर्वेऽपि शत्रव एते स्वत एव वशीभवन्ति । अत आत्मनैव सार्धं युद्धं कर्तव्यम् । बाह्येन युद्धेन किम् ? अतोऽहमप्यात्मनैवाऽऽत्मानं जित्वा शाश्वतं कालं ससुखं स्थास्यामि । इन्द्रः अद्भुतम् !! अथाऽद्याऽप्येकं पुण्यकार्यं कर्तव्यशेषतया विद्यते । तथा हि- भवान् विपुलान् यज्ञान् याजयित्वा, भिक्षून् याचकांश्च भोजयित्वा अर्थिभ्यश्च यथाभिलषितं दत्त्वा दापयित्वा च पुण्यप्राग्भारमुपार्ण्य पश्चात् प्रव्रज्यां स्वीकरोतु । नमिः भोः ! यज्ञान् कारयित्वा जनान् भोजयित्वा प्रतिमासं च लक्षशो गो- सुवर्णादिकं दत्त्वाऽपि यच्छुभमुपार्ज्येत ततोऽपि केवलमहिंसामयस्य विशुद्धसंयमस्य पालनमेव एतत्सर्वमप्यकुर्वाणस्याऽपि श्रेयस्तरं श्रेयस्करं चाऽपि । अतो ममाऽन्तःकरणं तु नितान्तं संयमे एव लीनम् । इन्द्रः किन्तु राजन् ! शास्त्रेषु गृहस्थाश्रम एव प्रधानतया वर्णितोऽस्ति । भवन् प्राप्तमपि तं त्यक्त्वाऽन्यमाश्रममिच्छति । एतत् तु नैव योग्यम् । यद्यपि भवतो मतिः संयम एव लीनेति जानाम्यहम् । तथाऽपि भवान् गृहस्थाश्रम एव स्थित्वा 'पौषधरतः तपःकर्मनिरतश्च भूत्वा संयमं पालयितुं शक्नोत्येव । नमिः भवतः कथनं विचारणीयम् । किन्तु भवतैतत् तु न कदाचित् श्रुतं स्यात् यद्यदि कश्चिदज्ञानतपस्वी प्रतिमासमुपोष्य पारणके च केवलं कुशाग्रमितमाहारं गृहीत्वा तपः करोति सोऽपि सुविहितधर्मस्य षोडशीमपि कलां नैवाऽर्हति । इन्द्रः नूनमश्रुतपूर्वं श्रावितवान् भवान् । अथ च भवतो राज्ये यः कोषोऽस्ति तस्य १. जैनपरम्परानुसारि सर्वसांसारिकव्यापाराणां त्यागरूपमनुष्ठानमेकं यत्र गृहस्था आदिनं आरात्रं अहोरात्रं वा साधुवत् धर्माचरणनिरता भवन्ति । Jain Education International For Privateersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy