SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ - नमिप्रव्रज्या मुनिकल्याणकीर्तिविजयः [ नमिराजर्षेः सकाशात् तदीयमान्तरिकयुद्धवृत्तं श्रुत्वा प्रसन्नमना इन्द्रः प्राह-] इन्द्रः नूनमीदृशं युद्धं तु भवानेव कर्तुं शक्नोति । अथैका विज्ञप्तिरस्ति यत्-यदि भवान् भवतो नगरेऽभ्रंलिहान् प्रासादान् महतो महालयान् रम्याणि वर्धमानगृहाणि च विरचय्य प्रव्रजेत् तर्हि शोभनं स्यात् । यतस्तेन भवतः स्वजनाः परिजनाश्च तत्र सुखं निवसेयुः, भवानपि च निःशङ्कमसंशयं च साधनां कर्तुं शक्नुयात् । ५ नमिः सत्यमुक्तं भवता । किन्तु शङ्का संशयो वा तस्यैव भवति यो मध्येमागं गृहं 5 विरचयेत् । अहं तु ममाऽन्तिमे शाश्वते च गन्तव्य एव गृहं विरचयितुमिच्छामि, ततश्च निःशङ्को निस्सन्देहश्चैव तिष्ठामि । इन्द्रः अत्युत्तमा भवतो भावना । परन्तु एकं कार्यं तु भवताऽवश्यंकर्तव्यतया विद्यते। भवतो राज्ये बहवश्चौरा लुण्टाका ग्रन्थिभेदकास्तस्कराश्च सन्ति । तान् सर्वान गृहीत्वा दण्डयित्वा च नगरस्य क्षेमं कुशलं च कार्यं भवत एव कर्तव्यम् । अतस्तत् कृत्वा पश्चात् प्रव्रजतु भवान् । नमिः सत्यम् । तथाऽपि चिरकालीनेनाऽनुभवेनाऽहं सम्यग् जानामि यद् बहुशोऽत्र निर्दोषा जना एव दण्ड्यन्ते । अपराधिनस्तु यथाकथमपि मुच्यन्ते । अतोऽत्र मौनमेव श्रेयस्करम् । इन्द्रः भवतु । अलं तेन । किन्तु भवतो राज्यस्य द्वेषिणो वैरिणश्च बहवो राजानः सन्ति । ते यदा तदा भवद्राज्यं स्वायत्तीकर्तुं प्रयत्नशीलाः सन्तोऽवसरं प्रतीक्षमाणास्तिष्ठन्ति । तान् सर्वान् युद्धे विजित्य स्ववशांश्च कृत्वैव प्रव्रजितुमर्हति भवान् । येन भवतः प्रजाजना निश्चिन्ततया जीवेयुः । Jain Education International For Private Eersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy