SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सम्यग् जीव्येत चेत्यत्र महदन्तरमस्ति । सुखस्य सम्बन्धो भौतिकोपलब्ध्या सहाऽस्ति किन्तु सम्यक्त्वस्य सम्बन्धस्त्वात्मिकोपलब्ध्या सहाऽस्ति । सुखि जीवनं पुण्याधीनं चाऽस्ति परं सम्यग् जीवनं तु पुरुषार्थाधीनमस्ति । यस्य कस्याऽपि जीवनं यदस्माभिः सुखित्वेन कल्प्यते तत् सम्यग् भवत्येवेत्यत्र नाऽस्ति नियमः किन्तु यज्जीवनं सम्यगस्ति तत् सुख्येव भवतीति दार्त्स्न्येन वक्तुं शक्यते । अद्य वयं सम्यग् जीवनमुपेक्ष्य सुखि जीवनमेव कामयामहे, तत्रैव च प्रयत्नरताः स्मः । किन्तु यो जीवने सम्यक्त्वं साधयति सुखं तु तत्सन्निधौ स्वत एवोपस्थितं भवति । सुखं तु सम्यक्त्वस्य प्रतिच्छायाऽस्ति । मूलं वस्तु परित्यज्य यस्तत्प्रतिच्छायं ग्रहीतुं यतते तस्योभयमपि विनष्टं भवति । यश्च मूलं वस्तु गृह्णाति स उभयमपि प्राप्नोति । जीवने सम्यक्त्वमेव मूलं वस्तु, न सुखम् । 1 कथं स्यादिदं जीवनं सम्यक् ? किं महता वैभवेन ? उत कयाचित् प्रतिष्ठया ? उच्चैः पदेन वा ? बृहता परिवारेण खलु ? नैव नैव नैव, नैतानि सम्यक्त्वस्य साधनानि । 'सुखस्य साधनानि ' इति कदाचिद् वक्तुं शक्यते । किन्त्वेतत्सर्वमपि तदैव सुखायते यदैतदस्मदधीनं वर्तेत । यदि वयं तदधीनास्तत्प्रतिबद्धा वा स्याम तर्हि तदेव दुःखायते । 'आत्मसामर्थ्यं विना नैतानि स्वाधीनानि कर्तुं शक्यते । आत्मसामर्थ्यं च गुणोत्कर्षेण विना न सम्भवति । गुणवांश्चैवाऽऽत्मा सामर्थ्यं भजति । यदि नाम वयं न तृप्तास्तर्हि वैभवः सुखं दातुं न समर्थ:, यदि नास्ति धैर्यमस्मासु तर्ह्यच्चैरपि पदं प्रतिष्ठा वा न तुष्टिं ददाति, यदि च वयमसहिष्णवोऽनुदाराश्च तर्हि परिवारोऽपि शल्यायते । वैभवपदप्रतिष्ठाद्युपलब्धावेवाऽस्माभिर्जीवनस्य साफल्यं परिगणितम् । किन्त्वेतेषामुपलब्धिरपि गुणानां सद्भाव एव सफला भवति, नाऽन्यथा, तर्हि जीवनस्य तु का कथा ? तत्तु गुणोत्कर्षं विना कथं सफलं सम्यग् वा भवेदेव ? एते तृप्तिधैर्यसहिष्णुतौदार्यादयस्तु गुणाः सन्ति । एतेषां गुणानामुत्कर्ष एव जीवने सम्यक्त्वमापादयति । एष गुणोत्कर्ष एव सम्यग्जीवनस्य मानदण्डोऽस्ति । अध्यात्मं नामाऽप्येष एव गुणानामुत्कर्षो दोषाणां चाऽपकर्षः, नाऽन्यत् किमपि । यच्च जीवनमेतेनाऽध्यात्मेन पल्लवितं भवति तदेव सम्यग् जीवनमस्ति । यदि नाम वयं सुखि प्रसन्नं च जीवनमभिलषेमहि तर्हि वाक्यमेतत् सततं संस्मृत्य गुणोत्कर्षरूपं सम्यक्त्वं जीवनेऽवश्यं साधनीयमस्माभिः । Jain Education International For Private & Personal Use Only ६५ www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy