________________
आस्वादः
आर्यधर्मः - अहिंसा
- मुनिधर्मकीर्तिविजयः
नद्याः स्रोतस इव संस्कृतेः स्रोतोऽस्ति । यथोद्गमस्थानादारभ्य पर्यवसानान्तं नद्याः तत् स्रोतोऽन्यैरनेकैर्जलप्रवाहैर्युक्तं भवति । तत्र च कदाचिद् जलप्रवाहस्य वेगो वर्धते, कुत्रचिच्च स वेगो मन्दो भवति, तथा कदाचित्तु प्रवाहो मूलत एव परिवर्ततेऽपि । तथाऽपि सा नद्येव कथ्यते । तथैव द्रव्यक्षेत्रकालभावानुरूपं संस्कृतेरपि परावर्तनं भवत्येव, किन्तु तत्परिवर्तनमात्रेण 'संस्कृतिर्नष्टाऽभूत्' इति न वक्तव्यम् । सत्यमेतद् यत्, कदाचित्तस्याः संस्कृतेर्बाह्यस्वरूपम् अन्यदेव स्यात्, तथाऽपि तन्मूलं तु तदेव भवति, न कदाचिदपि तत् परावर्तते ।
बाह्यस्रोत आभ्यन्तरस्रोतश्चेति द्वैधं संस्कृतिस्रोतो विद्यते । तत्र भाषा - शास्त्रस्थापत्य-उपासनाविधि - मूर्तिविधान- उपकरण - सामाजिकव्यवहार-आचार - आहारविहारादिकं सर्वमपि कस्या अपि संस्कृतेर्विशिष्टं वर्तते । एतदेव संस्कृतेर्बाह्यस्रोतः (बाह्यस्वरूपम्) इत्युपलक्ष्यते । तथा समत्व - परोपकारवृत्ति - दया- शील-दान-औदार्यदाक्षिण्य-विनय-करुणादिगुणाः संस्कृतेराभ्यन्तरस्वरूपत्वेन निरूप्यन्ते । अत्र भारतेऽधुनाऽपि साऽऽर्यसंस्कृतिरुभयरूपा दृश्यते ।
अद्यपर्यन्तमेतस्या महत्या आर्यसंस्कृतेर्नाशार्थं नैकशोऽनेकैर्विधर्मिभिः प्रयत्नः कृतः । तैः विधर्मिभिः शिल्पस्थापत्यादिका बाह्यसंस्कृतिस्तु खण्डितैव, एवं तेन सहाऽऽभ्यन्तरसंस्कृतेर्विनाशार्थं चाऽपि प्रयासाः कृताः । पूर्वं यवनैर्बलादार्यजनानां धर्मान्तरं कारितम्, तथा यवनसंस्कृतिः स्वीकारिता । तत्पश्चात् कियत्कालात् पाश्चात्यैरार्यसंस्कृतेर्नाशार्थं प्रारम्भो विहितः, साम्प्रतमपि स प्रयत्नः प्रवर्तत एव । तैः पाश्चात्यैरतीव संपन्नदृष्ट्या बुद्धिपूर्वकं च स्वसंस्कृतेः प्रसारः क्रियते । अद्य भार सर्वत्र पाश्चात्यसंस्कृतेः पादप्रसारणमस्ति । तत्राऽपि दक्षिणभारते तु विशेषतोऽनुभूयते । दक्षिणभारते त्वास्तां बृहन्नगरेषु, अपि तु लघुषु ग्रामेष्वपि पाश्चात्यसंस्कृतिर्दृग्गोचरी भवति । “सर्वेऽपि भारतीयजना: क्रैस्तमतीयाः करणीयाः इति कृतप्रतिज्ञैः तैः
Jain Education International
For Private & Personal Use Only ६६
www.jainelibrary.org