SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Y आर्यसंस्कृतिरक्षणस्य व्याजेन यत्र तत्र सर्वत्र बहूनि मन्दिराणि धर्मस्थानकानि च र निर्मीयन्ते । एवं च 'संस्कृतिरक्षकोऽहमिति विशेषणस्य भारं स्कन्धमारोप्याऽनेके * सज्जनास्साधवश्च प्रतिदिनं संस्कृतिरक्षणस्य भाषणमपि ददति । किन्तु अत्यन्तदुःखदा । घटनाऽस्ति यत्, यावती धर्मवृद्धिर्भवति तावती हिंसाऽपि वृद्धिङ्गताऽवलोक्यते । अहो ! किमार्यजनानामेतद् वैचित्र्यमाहोस्वित् मूर्खत्वम् ? गौस्त्वार्यजनानां जननी कथ्यते । प्रतिदिनं तां सादरं पूजयन्ति नमस्कुर्वन्ति चाऽऽर्यजनाः । तथाऽप्यस्मिन् देश एव जनसमक्षं निराबाधं जननीरूपाणां गवां हत्या भवति, तथा च तासामेव मांसादिकं मांसान्वितभोज्यपदार्थं च वयं सानन्दं भोजयामः एवं तन्मांसनिर्मितानि जीवनोपयोगीनि वस्तूनि युमः । कुत्रचिद् नागदेवस्य पूजा क्रियते । दुग्ध-घृतशर्करादिद्वारेण बिलस्थितान् व्यालान् वयं पूजयामः । किन्तु यदि ते बहिरागच्छेयुस्तदा ते पूजका एव तान् घ्नन्ति । किमेषा पूजा प्रत्युताऽवहेलना ? यस्मिन् देशे हिंसा पापममन्यत तत्रैवाऽद्य निष्ठुरतयाऽनवरोधं प्रत्यक्षं हिंसा प्रचलति । न केवलं नगर एव, अपि तु प्रत्येकं ग्रामेष्वपि सूनागृहाणि प्रवर्तन्ते । अद्य भारत एव विश्वविख्यातानि सूनागृहाणि प्रचलन्ति । भारते कतिपया ग्रामास्सन्ति, यत्र केवलं हिन्दव एव वसन्ति, तादृशेषु ग्रामेष्वपि विनाऽवरोधं सूनागृहाणि प्रवर्तन्ते । भारते बकरीईददिने यावान् जीववधो भवति, ततोऽप्यधिकः पशुबलिर्देवदेवीभ्यो दीयते, इति श्रुतमस्ति । भारते कियती हिंसा भवति, तत्र भारतसर्वकारस्येयं गणना ई.स. १९९०-९१ वर्षे ६३,५०२ टनमानस्य महिषमांसस्य तथा ८३३८ टनमानस्य छागमेषाणां मांसस्य निर्यातनं जातम् । ई.स. १९९४-९५ वर्षे निर्यातने वृद्धिः सञ्जाता । तस्मिन् वर्षे महिषमांसस्य १,१६,१३७ टनमानं छागमेषाणां च मांसस्य प्रमाणं १०,८१९ टनमानमासीत् । ई.स. १९९९-२००० तमे वर्षे १,६७,२९९ टनमानस्य महिषमांसस्य १२,४१९ टनमानस्य च छागमेषाणां मांसस्य निर्यातनं जातम् । - परन्तु एकविंशतितमशत्यां तु भारतश्रीकारेणैवमूहितं यद् "अधुनाऽपि कृशकायानां - पशूनां सूनाकार्ये न्यूनता दृश्यते । एतादृशेन सूनाकार्येण तु डोलराख्यधनराशेः पर्जन्यो र - वर्षति तयौदार्यमाचरति विश्वेऽस्मिन् कथं नाम भारतदेशः पृष्ठे वर्तेत ?" इति । * * अतः ई.स. २००१-२००२ तमे वर्षे तु भारतश्रीकारेण २,८८,००० टनप्रमाणं का . C CCCC ALLINAR Jain Education International For Private personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy