________________
महिषमांसस्य निर्यातनमादिष्ट अस्ति । मांसस्य समग्रस्याऽप्युत्पादनस्य प्रमाणं ७२,००,००० टनमानं भवति । एवं प्रतिदिनं मांसस्य निर्यातनं निरन्तरं वर्धते एव । न चैतावताऽपि ते तृप्यन्ति । ते तु यावत्प्रमाणाः पशवो विद्यन्ते तेषां समेषामपि सूनां कृत्वा तन्मांसस्य निर्यातनं कर्तुमभिलषन्ति । एतेन ज्ञायते यद्, भारते प्रतिवर्षं कियती हिंसा प्रवर्तते ।
"अहिंसाप्रिये भारतेऽपि कथमियती हिंसा वर्धते " इति विचार्यते तदा मनसि त्रीणि कारणान्युद्भवन्ति । १ - अधिकारिजनानामहिंसाया उपेक्षा । २ - धनिककुलेषु मांसादिभोजनस्याऽऽगमनम् । ३ - पाश्चात्यसंस्कृतीनामनुकरणम् ।
तत्राऽस्माकं राज्याधिकारिणो धनिकाः प्रसिद्ध श्रेष्ठिनश्चैवाऽहिंसामुपेक्ष्य हिंसामेवाऽङ्गीकुर्वन्ति । अस्मदीयो भारत श्रीकार एव परदेशीयडोलराद्याख्यधनलोभेन च प्रतिदिनमभिनवानां सूनागृहाणामुद्घाटनस्याऽनुमति हिंसकवस्तूनामुत्पादनार्थं विक्रयार्थं चाऽऽज्ञामपि ददाति । सर्वकारस्यैतद्दुष्टनीत्या वशादेवाऽहिंसाप्रेमिणि भारतजनपदे हिंसाया एतावदाधिक्यं दृश्यते । तथा च तद्वशादेव भारतीयानां पवित्रधर्ममन्दिराणि धर्मस्थानका नि चाऽपि भ्रष्टान्यमेध्यानि चाऽभवन् । जैनानां पवित्रतमं श्रीशत्रुञ्जयमहातीर्थमस्ति । तत्रैव न केवलमेकम् अपि तु श्रीकारेणाऽऽदिष्टान्यनेकानि सूनागृहाणि निराबाधं प्रवर्तन्ते, तथा श्रीकारेणाऽननुमतानि तु यानि सूनागृहाणि सन्ति, तेषां तु गणनाऽप्यशक्याऽस्ति । हिन्दुजनानां श्रीसोमनाथ - द्वारकादीनि पवित्रतीर्थस्थानानि विद्यन्ते तानि तु हिन्दूनां प्राणरूपाणि श्रद्धास्पदानि च सन्ति । तथाऽपि तेषु धर्मस्थानेष्वेव विशेषतो मत्स्यग्रहणवाणिज्यं भवति । हन्त ! एकतः प्रभुपूजा, अपरतस्सन्मुखमेवाऽनेकेषां जीवानां निष्ठुरतया संहारः । "अहो ! एतत् सर्वमपि हिन्दुजनानामेव श्रीकारस्याऽऽदेशतः प्रवर्तते" इत्येव महत्याश्चर्यकारिणी घटनाऽस्ति । अस्माकं दयनीया लज्जनीया च स्थितिः कथं वर्ण्येत ? एते खलु हिन्दुराष्ट्राधिपा देशनेतार एषु तीर्थस्थानेष्वेव श्रद्धापूर्वकं मनोवाञ्छापूर्त्यर्थं दर्शनार्थं च पुनः पुनरागच्छन्ति । स्वसत्तारक्षणार्थं काञ्चित् प्रतिज्ञामपि कुर्वन्ति । पश्चादत्रैव बृहत्या जनसभायाः समक्षं हिन्दुत्वं पुरस्कृत्य देशरक्षणस्य तीर्थस्थानरक्षणस्य चोच्चैरुच्चैर्भाषणं ददति । एवं च तानि स्थलानि 'पवित्रतीर्थानि ' (Holi city) इति प्रसिद्धयन्त्यपि ते । पश्चात् स्वस्थानं गत्वा तत्रैव तीर्थेषु सूनागृहाणां
Jain Education International
For Private & Personal Use Only ७६
www.jainelibrary.org