SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ * वेदना प्रादुर्भूता । अन्ते राज्येऽन्तःपुरे च मूच्छित आर्तरौद्रध्यानवशात एष कण्डरी- ४ कस्संयमविराधनामनालोच्य मृत्युं प्राप्य त्रयस्त्रिंशत्सागरोपमस्थितिकां सप्तमी नरकपृथिवीं M 8 गतवान् । इतश्च-पुण्डरीकस्त्रिभिदिनैस्स्थविराणां सांनिध्यं प्राप्तवान् । तत्र चातुर्यामं धर्म * स्वीकृतवान् । पश्चाच्चाऽष्टमतपसः पारणकं कृतवान् । अदीनत्वेनाऽग्लानित्वेन च स AM आहारयति स्म । किन्तु न जातु कदाचिदतः पूर्वं तेनैतादृशो रुक्षाहारः कृतः, अतो न परिणतस्स आहारः । ततस्तदैव तीव्रवेदना सञ्जाता । तामसह्यामपि वेदनां सहमान: 3 " पुण्डरीको मुनिराज आत्मनोऽन्तिमं कालं ज्ञातवान् । ततो बाह्यपीडां विस्मृत्य HA केवलमात्मचिन्तने रतो बभूव । अञ्जलिं विधाय नमोऽर्हद्भ्यः सिद्धेभ्यः साधुभ्यो धर्माय ORE चेति शरणचतुष्कं जग्राह । उपधिदेहाहारं व्युत्सृज्य पूर्वकृतस्य पापस्याऽऽलोचनं कुर्वन् ? * समाधि प्राप्तः । अन्ते मासान्तिके कालं कृत्वा प्राप्तसमाधिराराधितनिरतिचारधर्मस्स पुण्डरीकमुनिः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमायुष्को देवोऽजनिष्ट । एतेन "द्रव्यभावयोर्मध्ये भावस्यैव प्राधान्यमि"ति ज्ञायते । *********************** SSSSSSSS किं चित्रं यदि राजनीतिकुशलो राजा भवेदार्मिक: किं चित्रं यदि वेदशास्त्रनिपुणो विप्रो भवेत्पण्डितः । किं चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुष: पापं न कुर्यात् चित् ।। Jain Education International For Private Eersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy