SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मनोज्ञेऽशने पानके च मूच्छितो बहिरभ्युद्यतेन विहारेण विहर्तुं नैच्छत् । तज्ज्ञात्वा पुण्डरीको दुःखितोऽभूत् । तस्य प्रबोधार्थं च समेत्य प्रदक्षिणां च विधाय तमवन्दताऽकथयच्च - "प्रभो ! भवान् तु कृतार्थस्सपुण्योऽस्ति । राज्यमन्तःपुरं च विच्छ प्रव्रजितः । हन्त ! अहमधन्योऽकृतपुण्योऽस्मि । जातिजरामरणैरभिभूतः, अशाश्वतः, स्वप्नदर्शनोपमः, कुशाग्रजलबिन्दुसंनिभः, सन्ध्याभ्ररागसदृशः, पूर्वं पश्चाद्वाऽवश्यं विप्रहातव्यः, एष मनुष्यभवोऽस्ति । तथाऽप्येतेषु मूच्छितोऽहं तान् विहाय प्रव्रजितुं न शक्नोमि । भवान् तु हस्तगतमपि दारुणविपाकं संसारसुखादिकमेतत् सर्वमपि निराकृत्य संयममलङ्कृतवान् । अहो ! भवान् खलु पुण्यभागस्ति" इति । एतन्निशम्याऽपि स मुनिराजस्तूष्णींस्थितः । एवं पुनः पुनः पुण्डरीकोऽवोचत् । ततो राज्ञा मुहुर्मुहुरेवमुक्तस्सन् स मुनिवरोऽनिच्छयाऽपि लज्जयाऽन्यत्र विहृतवान् । किन्तु किञ्चित्कालानन्तरमेवैकदैषः श्रामण्यनिर्विण्णो मुक्त श्रमणगुणयोगस्स्थविरेभ्यो वियुज्य तस्यांमेव पुण्डरीकिण्यां नगर्यामागच्छत् । तदैव किमपि कार्यं कर्तुं बहिर्गच्छन्ती पुण्डरीकस्य धात्री तं मुनिराजं तथा वृक्षे स्थापितं वस्त्रपात्रादिकं च संवीक्ष्य पुण्डरीकाय निवेदितवती । स राजाऽपि च यत्र मुनिवरस्स्थितस्तत्राऽऽगतः । त्रिकृत्वः प्रदक्षिणां कृत्वाऽनंसीत् । तेन मुनेः पतितां मनोवस्थां ज्ञात्वा पूर्ववत् संसारसुखस्याऽसारतां ज्ञापयित्वा "त्वं पुण्योऽसि, धन्योऽसि” इत्यादिकैस्सुवचनैश्चोदितस्सन्नपि स मुनिवरो मौनपूर्वकमधोदृष्टिमेव कुर्वन् स्थितः । तदैव वैराग्यमापन्नः पुण्डरीकोऽचिन्तयत् - "अलमेतैः कामभोगै राज्यसुखैश्चे''ति । अथ तेन कण्डरीकाय स्वराज्यं दत्तम् । स्वयं तु पञ्चमौष्टिकं लोचं चकार चातुर्यामं च धर्मं प्रत्यपद्यत, तथा च तस्य कण्डरीकस्यैव रजोहरणवस्त्रकम्बलदण्डभाण्डादिकं सर्वसुखसमुदायमिव सानन्दं सोत्साहं च स्वीकरोति स्म । तथा च तस्मिन्नेव काले " स्थविराणामन्तिके धर्मं प्रतिपद्य पश्चादाहारं मे कल्पते" इत्यभिग्रहं विगृह्याऽऽत्मानं कृतपुण्यं मन्यमानस्स पुण्डरीकमुनिस्स्थविराणां सांनिध्यं प्राप्तुं गतवान् । इतश्च - मनोज्ञविविधेष्वाहारेषु भोगेषु च लुब्धस्स कण्डरीको निराबाधं प्रणीताहारं भुक्तवान् । किन्तु न प्रणीतमाहारपानादिकं सम्यक् परिणतम् । ततो देहेऽतीव दुःसहा Jain Education International ९५ For Private & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy