SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ - + काश्चिदार्याः विमलातनुस्त्वदीया विमलं रे तावकं मनोराज्यम् । किमपि मुनेरिव मन्ये मराल ! विमलं तवाऽस्तित्वम् ॥१२॥ स्वजनाः सर्वेऽपि गता आर्जवमवलम्बितं त्वयाऽजनम् । आसीमराल ! मन्ये कश्चिदये बोधिसत्त्वस्त्वम् ॥१३॥ त्वमजातशत्रुरासीस्तथाऽपि तव शत्रवोऽभवन् बहवः । आगस्तव यदकाषीस्तीर्थध्वाक्षेषु विश्वासम् ॥१४॥ कस्मिन्नीडे शेषे ?, क्रीडसि कमिश्च साम्बुजे सरसि । कोऽपि न सुबहोः कालात् सन्देशहरस्तव प्राप्तः ॥१५॥ प्रकटीभवसि कदाचित् त्वं श्रीरामकृष्णरूपः सन् । श्रीरमणाख्यमहर्षिः संश्च कदाचित् स्फुटीभवसि ॥१६॥ धावल्यस्य पृथिव्यामसि त्वमेकः किमप्युदाहरणम् । शशिनः पूर्णस्य त्वं साम्यं बिभ्रत् क्वचिच्चरसि ॥१७॥ स्वपदं यत्र न्यस्येस्तत्रोत्पद्येत तीर्थमिति मन्ये । धर्मो मेघो वर्षेत् प्रवहेदपि पुण्यसलिला च ॥१८॥ Jain Education International For Private Sersonal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy