SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ - Opan हंसा हंसं प्रति TTP NA प्रा. जगन्नाथपाठकः 3/44, MIG झूसी इलाहाबाद-२११०१९ G उड्डीय व गता भवन्त इत इत्येते न जानीमहे यूयं मानसनाम्नि वा सरसि नाऽस्माकं दृशां गोचराः । किं त्यक्त्वैव वसुन्धरां श्रयथ वा लोकोत्तमं ब्रह्मणः ? किं वा पादतले निलीय वचसा देव्याः समे तिष्ठथ ? ॥१॥ यद्यप्यत्र खगान् सुपक्षतिपुटान् सद्भिः स्वरैर्मण्डितान् प्रायो नित्यमितो नदीतटगताः पश्याम एते वयम् । युष्मान् किन्तु सकूत् ववचत् तरुतले द्रष्टुं सकामा भूशं दृष्टिर्नः समुपोषितेव सुतरां क्लान्तेव नोन्मीलति ॥२॥ धन्यास्ते तव खेलितं सुललितं ये पीतवन्तो दृशा धन्यारते ननु यैः क्षणं तव शुभारावाः श्रुतिं प्रापिताः । चढूंषि श्रुतयश्च हन्त तृषितास्तिष्ठन्ति येषां सदा ते सर्व जगतीह जीवितमृता हंस ! त्वधन्या वयम् ॥३॥ आकाशाज्यमहासरोवरगतं धीरं तरन्तं मुहुः पश्यामो निशि चन्द्रमेक मुदितं तं पौर्णमास्यां तिथौ । त्वं दृष्टः खलु पूर्वजन्मसु तदाऽस्माभिः स्मृतौ कल्प्यसे साक्षात्कार इह त्वदीय इति स प्रीणाति नः स्वात्मनः ॥४॥ पूर्णं विग्रहवत् प्रतीयत इतस्त्वय्येव सद् ब्रह्म तत् त्वय्येव स्मृतिकल्पिते मन इदं पुष्णाति शुभ्रां स्थितिम् । नीरक्षीरविवेक इत्यतिशयं ख्यातो गुणाग्रेसरस्त्वय्यस्माज्जगतो गते स नु गतो दिव्यस्त्वदीयो गुणः ॥५॥ 2TA Jain Education International १७ For Private & Personal Use Only www.jainelibrary.org
SR No.521012
Book TitleNandanvan Kalpataru 2004 00 SrNo 12
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy