________________
भवद्भिः सम्पादिता नन्दनवनकल्पतरोरेकादशी शाखा प्राप्ता । यथा यथाऽहं पठामि तथा तथा मम भाव उल्लसितो भवति । युष्माकमिदं कार्यं नूतनसंस्कृतशिक्षितानां कृतेऽतीवोपयुक्तमवश्यमेव भविष्यति ।
अस्यां शाखायां काव्यानि त्वद्भुतानि सन्ति । कथादिकमपि बालादीनां कृते उपयोगाय भविष्यति । युष्माकमेष यत्नः सफलो भवत्विति मेऽभिलाषा ।
मुनिभाग्यचन्द्रविजयः
वाचकानां प्रतिभावः
नन्दनवनकल्पतरोरवलोकनेनैव तद्दिव्यं स्वतः प्रमाणं सौन्दर्य पाठकचित्तमञ्जसा ह्यावर्जयतीति नाविदितं त्वधुना गुणैकपक्षपातानां संस्कृतसाहित्यसहृदयानाम् । कर्मणा भारतीयदर्शनच्छात्रस्तदध्यापकश्चास्मि । कल्पतरुलेखेषु तत्र तत्र दर्शनबीजानि सदङ्कराणि समवेक्ष्य समवधानशीलो बुभूषामि।
अन्ते श्रीमद्भयो मुनिवरेभ्यः श्रीविजयशीलचन्द्रसूरिमहाभागेभ्यः प्रणामाञ्जलिनिवेदनपुरःसरं विरमामि । भवतां श्रेयःकुशलक्षेमम् अर्हति भगवति प्रार्थयमानो ।
भवदीयः सुरेन्द्रमोहनमिश्रः
कुरुक्षेत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org